न सर्वे मनुष्याः ज्ञानिनः भवन्ति। सर्वेषां चिन्तनशक्तिः नाधिका। अनेन शुभाशुभनिर्णयोऽपि तेषां दुर्लभः। स्वस्मै अपरेभ्यश्च किं हितं किमहितमिति मतिः तेषां न भवति। न भवतीति ज्ञानमपि तेषु नितरां हि लुप्यते। ज्ञानं नास्तीति कृत्वा कार्याणि करणीयानि नापतेयुः इति व्यवस्था लोके नास्ति। करणीयानि कार्याणि तु सर्वेषां वर्तन्ते। कदाचित् एतल्लक्षणाः अधिकारस्थानेऽपि भवेयुः येषां निर्णयेन अन्येषां भाग्यं निश्चीयेत। कदाचित् ते कार्यकरणसमये हितं करोमीति धिया अहितं यदि कुर्युः, तर्हि तेन तेषामपि, सर्वेषामपि हानिर्भवेत्। अतः यः ज्ञानी, पारदर्शी, वर्तमानकृतकार्यस्य भविष्यत्काले प्रभावं द्रष्टुं शक्नोति, सः नातिज्ञानिभिः अपृष्टः अपि सन् तस्य हितं वदेत् एव। अनुक्ते हिते जानन्नपि नोक्तमिति दोषः भवेत्। यदि कार्याचारी तत् शृणोति, आचरति च, तेन सर्वेषां लाभो भवेत्। यदि नाचरति, तेन नष्टस्तु सहनीयः। किन्तु अनुक्त्वा धर्महानिं न कुर्यात्।
उक्तं श्रद्धाविहीनायारण्यरोदनं भवेदित्यस्याः लोकोक्तेर्विरुद्धा भातीयं लोकोक्तिः।
सकृच्चिद्यतनीयं यदि श्रद्धाभावान्न शृणोति चेन्न पुनर्यतनीयमिति समादध्मः?

अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।
न्याय्यं च प्राप्तकालं च पराभवमनिच्छता॥
कर्त्तव्यं सर्वथा सद्भिरप्रियं चापि यद् हितम् ।
आनृण्यमेतत् स्नेहस्य सद्भिरेवादृतं पुरा ॥ (हरिवंश विष्णुपर्व ७१।५-६)
इति साधक-शङ्का-समाधान-पुस्तके पठितम्। तदाधारितमेव अत्र लिखितम्। मित्र-शिष्य-विषये अवश्यं वक्तव्यमिति तत्र लिखितम्।
श्रद्धावान् भवतु न वा, एकवारं अवश्यं प्रयतनीयमिति- इति भवता यदुक्तं तथैव ममापि भाति। कर्तव्यं इति मत्या तु आचरणीयमेव। सम्यगुक्तम्।

--अपृष्टोऽपि हितं वदेत्।

You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvadema+unsub...@googlegroups.com.
To post to this group, send email to samskrte-samvadema@googlegroups.com.
हरिवंशस्य द्वौ श्लोकौ पृथक्कुर्मश्चेत् प्रथमस्तु मित्रकर्तव्यतां बोधयति यत्र हितवचनवक्तव्यतैवापेक्षिता न तु हितकर्तव्यता प्रायः मित्रस्य स्नेहानृण्यत्वस्यानयैव सिद्धत्वात्। द्वितीयस्तु सतां हितकर्तव्यता यत्र वक्तव्यता पाक्षिका इति भाति। तेषां सामर्थ्याधिक्यात् सामर्थ्यमनुसृत्यैव समीचीनकार्यभावाद्ववक्तव्यमात्रस्य न विधिः। अनुक्त्वापिकरणीयस्य तेषां कृते विधिरिति भाति।

On Sunday, November 22, 2015 at 6:20:57 PM UTC+5:30, Shrivathsa wrote:

To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
हरिवंशस्य द्वौ श्लोकौ पृथक्कुर्मश्चेत् प्रथमस्तु मित्रकर्तव्यतां बोधयति यत्र हितवचनवक्तव्यतैवापेक्षिता न तु हितकर्तव्यता प्रायः मित्रस्य स्नेहानृण्यत्वस्यानयैव सिद्धत्वात्। द्वितीयस्तु सतां हितकर्तव्यता यत्र वक्तव्यता पाक्षिका इति भाति। तेषां सामर्थ्याधिक्यात् सामर्थ्यमनुसृत्यैव समीचीनकार्यभावाद्ववक्तव्यमात्रस्य न विधिः। अनुक्त्वापिकरणीयस्य तेषां कृते विधिरिति भाति।
भवदुद्देश्यं नावगतम् मया। अस्तु।
किन्तु तस्य लोकोक्तेः सम्पूर्णः श्लोकः लब्धः हितोपदेशे--
आपद्युन्मार्ग-गमने कार्य-कालात्ययेषु च ।
कल्याण-वचनं ब्रूयादपृष्टोऽपि हितो नरः ॥ (सुहृद्भेदः)http://sanskritdocuments.org/doc_trial/fortransfer/hitopadesha_sa.html
अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ॥ (हरि विष्णुपर्व ७१|७)
इत्यत्र स्पष्टीकृतः - यत्र निश्चयेन हितवाक् न स्वीक्रियते, तत्र कदापि न वक्तव्यमिति।
ममापि अनुभवः आसीत् अत्र। हितकाम्यया उक्तमपि असकृत् श्रोतुः कोपवर्धनायाभवत्।
अतः अनेन संवादेन हितवचनकथनसन्दर्भाः निष्कर्षतया एवं सन्तीति मन्ये-
1. राज्ञं प्रति मन्त्रिणः
2. शिष्यं प्रति गुरोः
3. पुत्रं प्रति पितुः
4. मित्रं प्रति मित्रस्य
5. यत्र श्रोतुः स्वभावः न ज्ञायते, तत्र सकृत् प्रयतनाय
इति मे मतिः।
अन्नेन जीवति प्राणी। क्षुधा एव अन्नादने कारणं प्राणिनः। अन्ये प्राणिनस्तु स्वादुतां अविगणय्य प्राणरक्षणार्थं जीवकर्मभावनया खादन्ति। किन्तु मानवस्य जिह्वा स्वादुताभिलाषिनी। मानवः केवलं उदरपोषणार्थं न भुङ्क्ते। यदि भोजनं रुचिकरं, तदैव खादितुं शक्नोति, अन्यथा न। रुचिहीनं भोजनं कदापि जिह्वां तीर्त्वा नाग्रेसरति। किन्तु यदा महती क्षुत्पीडा बाधते, तदा तु जिह्वा सर्वं परित्यजति। किमपि न गणयति। केवलं क्षुन्निवारणमेव तत्र लक्ष्यम्। “क्षुधातुराणां न रुचिर्न पक्वम्” इति खलु अभियुक्तोक्तिः। ममापि स एव अनुभवः आसीत् कदाचित्। सत्यमेवेयमुक्तिः। तदानीं अपक्वं, लवणहीनमपि शाकं मह्यं बहुरुचिकरं आभात्।
तथैव यदा मनुष्यः कार्यसिद्धये पूर्णमनस्को भूत्वा
यतते, तदा तत्र कष्टं, सुखं न गणयति। कार्यसमाप्तये तस्य क्षुधा यावत्यधिका, तावत्
कष्टनष्टादिकचिन्तां परित्यज्य स कार्यसम्पादने मज्जति। (“कार्यातुराणां न कष्टं न
नष्टं” (अथवा “न सौख्यं न दुःखं”) इत्यपि वक्तुं शक्येत?) अन्ये जनाः सामान्याः तं
दृष्ट्वा पृच्छन्ति.. “किं तव शारीरकीमानसिकी वा पीडा नास्ति?” तदा सः स्मयित्वा
वदति- “कः तत् सर्वं पश्यति? कार्यं खलु करणीयम्।” इति। तस्य ध्याने सदा लक्ष्यमेव
तिष्ठति। यथा क्षुद्बाधाग्रस्तजिह्वा रुचिं परित्यजति, तथैव योगिजनाः, ऋषयः,
मुनयश्च एकाग्रचित्ताः भूत्वा कायकष्टमपरिगणय्य तपसि निमग्नाः भवन्ति।
(दोषाः सूच्याः। परामर्शः अपेक्ष्यते।)
यत्र शक्तिहीनः सन् कोऽपि शक्तिमदिव रूपयति, तत्र लोकोक्तिरियं प्रयुज्यते। कार्यनिर्वहणे नास्ति तस्य नैपुण्यं लेशमात्रम्। किन्तु, स्वस्य अदक्षतां गोपयितुं सर्वेषां पुरतः दम्भवाक्यानि वदति। ‘मया अङ्गुल्याः अग्रभागेन करिणां शतं उत्थापितमि’ति प्रज्ञावचनानि जल्पति। वस्तुस्थितौ अङ्गुल्या सः सूचिकामपि नोत्थापयति। परं, ‘न केवलमेकः करिः, करिणां शतं एकदैव उत्थापयामी’ति- तस्योक्तौ सर्वः विश्वसिति इति स चिन्तयति। बहुधा लोके तद्विधान् जनान् पश्यामः, ये तथा निरर्थकेषु जल्पनेषु प्रवर्तन्ते। अज्ञानवाशात्, अल्पत्वं गूहयितुं वा एवं अवास्तविक-स्व-स्तवं कुर्वन्ति तादृशाः जनाः।
केवलमेकः करी इति साधु भवेत्
अङ्गुल्यग्रे करिणां शतम्।

On 01-Dec-2015 20:39, "उषा सङ्का" <usha....@gmail.com> wrote:
--अङ्गुल्यग्रे करिणां शतम्।
यत्र शक्तिहीनः सन् कोऽपि शक्तिमदिव रूपयति, तत्र लोकोक्तिरियं प्रयुज्यते। कार्यनिर्वहणे नास्ति तस्य नैपुण्यं लेशमात्रम्। किन्तु, स्वस्य अदक्षतां गोपयितुं सर्वेषां पुरतः दम्भवाक्यानि वदति। ‘मया अङ्गुल्याः अग्रभागेन करिणां शतं उत्थापितमि’ति प्रज्ञावचनानि जल्पति। वस्तुस्थितौ अङ्गुल्या सः सूचिकामपि नोत्थापयति। परं, ‘न केवलमेकः करिः, करिणां शतं एकदैव उत्थापयामी’ति- तस्योक्तौ सर्वः विश्वसिति इति स चिन्तयति। बहुधा लोके तद्विधान् जनान् पश्यामः, ये तथा निरर्थकेषु जल्पनेषु प्रवर्तन्ते। अज्ञानवाशात्, अल्पत्वं गूहयितुं वा एवं अवास्तविक-स्व-स्तवं कुर्वन्ति तादृशाः जनाः।
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvadema+unsub...@googlegroups.com.
To post to this group, send email to samskrte-samvadema@googlegroups.com.
🙏संस्कृतलोकोक्तयः🌺
🌷एका क्रिया द्व्यर्थकरी बभूव।🌷
🌻लघुप्रयत्नेन अनल्पं साधयितुमिच्छति मानवः। नैषा सिसात्सा अस्य दोषः। स्वभावेन तस्य बुद्धिरेतादृशी सृष्टा। यत्किमपि कर्म क्रियमाणस्सः अनेन महान् लाभो मम भवत्विति आशास्ति। सा लाभेच्छा समस्तमानवेप्सितार्थेषु वर्तेत। व्रतनियमादिना पुण्यार्जनं, तपसाद्याचरणेन देवतानुग्रहसाधनं, वाणिज्यव्यापारादिना धनप्राप्तिः, सेवादिनिर्वहणेन यशसादिलाभः- इत्यादिरूपा नानाविधा सा इच्छा भवितुमर्हति। सूत्रं तु तत्र एकमेव- अल्पात्यल्पया शक्त्यादानेन अधिकाधिकं फलावाप्तिः। अल्पप्रयत्ने अधिकलाभः इति। अथवा प्रयत्नेनैकेन फलद्वयप्राप्तिः।☘
न केवलं लोकेऽस्मिन् आधुनिके काले, अपि त्वेषा प्राचीनानामप्यासीत्। अत्र कार्यैक्ये फलद्वयस्योदाहरणमेवम्। पितृदेवेभ्यो अर्घ्यप्रदानं नित्यनियुक्तं कर्म भवति। कश्चन बटुः प्रतिदिनं जलं नीत्वा समन्त्रकम् अर्घ्यं ददन् आम्रवृक्षेषु तत् क्षिपति। अनेन जलैः प्रतिदिनं वृक्षाः सिञ्चिताः वर्धन्ते, पितॄणामप्याशीः तेनावाप्यते। अत्र सान्तः श्लोकोऽयम्–🌹
एको वटुर्दर्भकुशाग्रपाणिर्वने वनैः सिञ्चति बालचूतान् ।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥🙏संस्कृतलोकोक्तिः🌺
🍁अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने।🌷
नूतनतया यत्किममपि कार्यं कर्तुं बुद्धिः, कार्यकौशल्यं, समाहितत्वं, सहनं, परसहिष्णुता, कालः चापेक्ष्यन्ते। तत्र पुरुषेण धैर्येण, शक्तियुक्तेन च भवितव्यम्। यः कमपि क्लेशं, व्ययप्रयासान् च सोढ्वा निर्माति स एव तत्र कष्टं जानाति। यन्निर्मितमस्ति तस्य विनाशाय नाधिकः काल अपेक्ष्यते। 🌻
गृहारम्भो नाम गृहस्य निर्माणकार्यम्। गृहभञ्जनं नाम निर्मितस्य गृहस्य विच्छेदः। गृहनिर्माणं धनव्ययोपेतं, अत्यन्तं क्लेशसंयुक्तं च वर्तते। भञ्जनाय तु तत्र निर्माणापेक्षया स्वल्पिष्ठः कालोऽपेक्ष्यते।🌹
आधुनिककाले अस्याः लोकोक्तेः उदाहरणं- यः सद्राजकीयनेता सहृदयतया प्रजासेवां करोति, विपक्षीयाः तस्य अकारणं, दुष्टेन व्याजेन, सर्वदा दूषणं तिरस्कारं च कुर्वन्ति। तस्य कार्याणि, प्रणालिकांश्च भग्नं कुर्वन्ति। यत्र दुष्टाः किमपि कार्यमकृत्वा, अन्येषां निर्मातॄणां निष्कारणं विघ्नानि उत्पादयन्ति, तत्रेयं लोकोक्तिः प्रयुज्यते।☘
🙏संस्कृतलोकोक्तयः🌺
🌷आयातः प्रवाहः केन वार्यते।🌷
पञ्चभूतेषु अन्यतमं जलम्। निसर्गः कांचित् समतुल्यतामाधृत्य प्रचलति, स्वकार्यं निर्वर्तयति च। तत्र कदाचित् न्यूनाधिक्यत्वात् विषमतापि आपतेत्। प्रवाहो नाम नद्यादीनां जलस्य स्रवन्तिः। यदा वृष्ट्या जलप्रवाहो वर्धते, तदा तत्र वेगोऽपि वर्धते। वेगेन जलघर्षणेन च पाषाणा अपि पिष्यन्ते। पेषणेन मृदवो भवन्ति। निरन्तरजलस्रावेण सः जलमार्गः अपि पिष्यते। जलाधिक्येन यदा नदीजलं स्वमार्गं विसृज्य जनपदानि, ग्रामाणि, मानवावासानि च प्रविशति, तदानीं कोऽपि मानवमात्रः तन्निवारयितुं अशक्तो भवति। 🌻
कदाचित् मानवजीवने विपत्तय अपि प्रवाह इव आपतन्ति। कापि अपगच्छति, अन्या आपतति। तासां प्रभावः न कोऽपि अपाकर्तुं पारयति। एवं स्थितौ पुरुषः स्वशक्तिमनुसृत्य कदाचित् तान् पारं गच्छति, कदाचित् तेषां वशीभूतो पिष्यते च। यदा आपदां निवारणे स अशक्तः तदानीम् एषा लोकोक्तिः प्रयुज्यते। ☘
🙏संस्कृतलोकोक्तयः🌺
🌷उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः।🌷
लोके बहुविधानि कार्याणि भवन्ति। कानिचन क्लिष्टानि, कानिचिच्चाक्लिष्टानि । सुलभकार्याणां साधने न कोऽपि उपतापः। किन्तु क्लेशसंयुक्तकार्याणां संसिद्धिमार्गे विघ्नाः आपतन्ति। तादृशे स्थितौ विघ्नहरणप्रयतनविधानं दृष्ट्वा कः समर्थः, कश्च नेति लोको पश्यति। केचन सदा बाहुबलमेव संकटान् हरतीति विश्वसन्ति। किन्तु न सः सार्वकालिकमार्गः। कदाचित् वचनमात्रलाघवेन कार्यं सफलं भवेत्।🌻
उपायो नाम किमपि कार्यं साद्धुं सरलः मार्गः। शत्रूणामाक्रमणाय चतुर्विधोपायाः साम-दान-भेद-दण्डाः उक्ताः। कार्यसाधकाः विविधोपायवन्तः। ते साधनीयकार्यं विविधैः कोणैः परिशीलयन्ति। तस्य स्थितिं गतिं च परिगणय्य, सम्यगवगाह्य, पूर्वानुभवेनार्जितं परिज्ञानं सम्प्रयुज्य विघ्नानि अतिक्रम्य अग्रे सरन्ति। एतदेव अस्यां लोकोक्त्यां तात्पर्यम्। (पञ्चतन्त्रस्थमिदं वाक्यम्)। ☘
नियतिर्नाम ‘नियम्यते आत्मा अनये’ति, भाग्यं, दैवं वा - यस्मिन् नरस्य अधिकारो नास्ति, यत्र पुरुषस्य स्वेच्छा न प्रवर्तते, तादृशः पूर्वनिर्दिष्टः कश्चित् नियमः यमनुसृत्य लोके मनुष्यजीवने कार्याणि सञ्चलन्ति। तेन प्राणिनः कदाचित् सुखं कदाचिच्च दुःखमनुभवन्ति। सर्वे प्रायः एवं वदन्ति- ‘पुरुषस्य भाग्यं देवोऽपि न जानाति’ इति। केचित्तु भाग्यं नाम किमपि नास्ति, कदाचित् अकर्मण्यत्वं गोपयितुं इत्थमुच्यते इति वदन्ति।💥
“मनुष्यः स्वयमेव भाग्यनिर्माता” इति विवेकानन्दः कथयति। यन्मनुष्यः पूर्वस्मिन् काले आचरति, तस्यैव फलं भाग्यरूपेण परिणमते इति। तेन पूर्वजन्मनि आचरितं कर्मसञ्चयं यद्भवति, तस्य फलमिदानीं सुखदुःखरूपेणानुभूयते पुरुषेण। अस्यार्थः- यदिदानीमाचरामः, तस्य फलं अग्रे भविष्यतीति यावत्। अद्याचरितं कर्म परे भाग्यं भविष्यति। यत्पूर्वमाचरितं तन्निष्कर्तुं कोऽपि न प्रभवति इति मात्रमस्याः लोकोक्तेरर्थः। 🎀
🙏संस्कृतलोकोक्तिः🌺
🌷अधिकस्याधिकं फलम्।🌷
यद्यावत् क्रियते तस्य तावत् फलम्। अधिकं कुर्मः अधिकं प्राप्नुमः। ध्येयमार्गे प्रयत्नाधिक्येन लक्ष्यं, कार्ये श्रमाधिक्येन धनं, अध्ययनाधिक्येन विद्यां कलां च नरः अधिगच्छति। बाल्ये यः अधिकम् उद्यमशीली, सः प्रौढो भूत्वा स्वस्य कार्यक्षेत्रे कुशलः, दक्षश्च भूत्वा लोके धन-कीर्ति-वस्तु-सुखार्जनमार्गान् च निःसन्देहं सुसरलं प्राप्नोति। 🌼
परं तु ‘अति सर्वत्र वर्जयेदि’ति कुत्रचिदुच्यते। ‘अधिकं क्रियते चेदधिकं फलमि’ति अन्यत्र। तर्हि कथमत्र परिहारः? अति-अधिकयोः अन्तरमस्ति। ‘अति’ नाम सीम्नः पारं गत्वा, शक्तिमतिक्रम्य, प्रकृतेः (निसर्गस्य) नियमभङ्गं कृत्वा चाचरणम्। ‘अधिकं’ नाम यावच्छक्ति यत्क्रियते ततोऽधिकं, ततः किञ्चित् क्रमशः अग्रे गत्वा, विस्तरणमात्रं, येन मर्यादाविच्छेदो न भवति। 🌹
कदाचित् उच्यते, भक्ति-अध्ययन-ध्यान-तपः-पूजादिषु यदि कोऽपि साधकः अधिकं प्रवर्तेत, तर्हि ‘अति मास्तु’ इति। किन्तु तत्र साधकस्य शक्तिः, निवारकस्य शक्तिश्च भिद्येते। प्रायस्तत्र साधकः केवलं अधिकं करोति, ‘अति’ न भवेत्- इति निवारकः जानातु। ☘