नमस्ते ,
कथा-कथनसम्बन्धः हृदयस्थकोमलभावैः सह वर्तते। सा सुधीजनपाठकान् शिक्षयति, रञ्जयति च। कथा भाषां रसानन्दानुभवेन वर्धयितुं प्रेरयति। संस्कृतकथापठन-श्रवणादिना संस्कृतभाषाज्ञानमपि वर्धते। बाल्यकालात् एव मातामह-पितामहादिभिः कथाश्रवणे बालकानां सहजप्रवृत्तिः भवति। अस्माकं देशे कथायाः माध्यमेन नीतिगतं व्यावहारिकं च शिक्षणं बालानां कृते अभवत्। किन्तु साम्प्रतिके लोके आधुनिकजनेषु प्रायः एषा परम्परा नप्रवर्तते l अनेनलोपेनबालःप्रायःसहजव्यावहारिकज्ञानमपि न प्राप्तुं पारयति ।अतः अस्य समूहस्य पाठकेभ्यः निवेद्यते इदं, यत् भवन्तः सर्वे गृहे स्थितेभ्यः बालेभ्यः इमाः कथाः अवश्यं श्रावयन्तु। स्वयं वा तैः पाठयितुं प्रेरयन्तु इति। अनेन तेषां संस्कृतभाषायां रुचिरपि वर्धते, कथापठनेन तैः नीतिगत-व्यावहारिकी च शिक्षापि च प्राप्यते।
अपि च, कथाविषयमधिकृत्य चर्चापि अत्र कर्तुं शक्यते। प्रथमाकथा प्रस्तूयते-
1. मूढस्य कुक्करस्य च कथा
एकस्मिन् ग्रामे मन्दमतिः नाम मूढः प्रतिवसति स्म। तस्य वशे कुक्कुरः अवर्तत। सः तं कुक्कुरं श्वेतं कर्तुं ऐच्छत्। तथैव सः तं कुक्कुरं नदीं नीत्वा बहून् दिवसान् जलेन प्रक्षालयन् अतिष्ठत्। तथापि सः कृष्णः भषकः श्वेतः न अभवत्। ततः जनाः तस्य मौढ्यं दृष्ट्वा तं पर्यहसन्। तेन सः नितरां दुःखितः समभवत्।
नीतिः– असाध्यं साधयितुं न यतेत॥
कश्चित् चोरः पुराकृतस्य पुण्यस्य वशात् कस्यचित् नगरस्य राजा समजायत। कदाचित् कोऽपि कविः तस्य अन्तिकं आगतः। अथः सः कविः तं राजानं अधिकृत्य कानिचित् पद्यानि पठित्वा सम्भावनां अयाचत। ततः सः राजा तस्मै कामपि सम्भावनां न अयच्छत्। परन्तु सः स्वस्य भृत्यान् आहूय तस्य कवेः सर्वाणि वस्त्राणि अपनीय तं विद्रावयितुं आदिशत्। तथैव ते तस्य देहे वर्तमानानि सर्वाणि अवलुप्य तं विद्रावयन्ति स्म।
नीतिः– नीचः महत्पदं प्राप्तोऽपि स्वीयं स्वभावं न त्यजति।
अवन्त्यां कश्चित् लुब्धः शूद्रः आसीत्। सः कंचन हंसं अपोषयत्। सः हंसः दिने दिने स्वर्णमयं अण्डं उत्पादयति स्म। तेन सः शूद्रः तृप्तः न अभवत्। एकदैव सः सर्वाणि अण्डानि ग्रहीतुं ऐच्छत्। अथ सः हंसं हन्तुं निश्चितवान्। तथैव सः तं हत्वा कुक्षौ अपश्यत्। तत्र किमपि अण्डं न आसीत्। अण्डस्य दाता हंसः च मृतः। तेन सः नितरां खिन्नः अभवत्।
नीतिः– अत्याशया मूलस्यैव हानिर्भवति।
कदाचित् एकः कुक्कुटः अवकरस्य निकटं चरणाभ्यां विकसन् अतिष्ठत्। तदा सः भास्वरं किञ्चन वस्तु अपश्यत्। तस्य दीप्त्या सः तत् रत्नं इति बोधति स्म। परं तस्य उपयोगं न अबोधत्। तस्मात् सः मूढः चरणायुधः तत् रत्नं प्रति इत्थं अवदत्- “रे, त्वं रत्नं असि। त्वया किं प्रयोजनम्? त्वं तावत् यावनालस्य षोडशीम् अपि कलां न अर्हसि। एवं उक्त्वा सः तत् विसृज्य गतः।
नीतिः– यत् उपयोगाय भवति तत् एव प्रशंसामः।
कश्चित् काष्ठविक्रयी कञ्चन परशुं निर्मितवान्। अथ सः तस्मिन् योजनीयं दण्डं सम्पादयितुं वनं अगच्छत्। तत्र का वा शाखी अनुकूला भवेत् इति वृक्षान् पश्यन् अतिष्ठत्। तदा कश्चन तिन्त्रिणीवृक्षः तमपृच्छत्। “किं तव अभीष्टम्?” इति। सः अवदत्- “बाहुप्रमाणः दण्डः एव मम अभीष्टः।” इति। ततः सः वृक्षः स्वस्य शाखी, एकां तस्मै अयच्छत्। सः अपि तां शाखां संतक्ष्य आत्मनः परशौ संयोजितवान्। अथ सः तं तिन्त्रिणीवृक्षं अन्यान् वन्यान् वृक्षान् अपि छित्वा विक्रेतुं आरभत।
नीतिः– शत्रोः कृतः उपकारः अपकारायैव भवति।
एकः वानरः कस्यचित् कूपस्य प्रान्ते स्थित्वा आम्रस्य फलं अभक्षयत्। तदा सः अवनम्य कूपस्य अन्तः अवलोकयति स्म। तदानीं तस्य प्रतिबिम्बं जले अदृश्यत। तेन अन्यः मर्कटः जलस्य अन्तः आम्रं भक्षयन्निव दृश्यते स्म। तद् दृष्ट्वा अयं वानरः अन्यस्य तस्य मर्कटस्य भयं उत्पाद्य तस्य फलं ग्रहीतुम् ऐच्छत्। अथ सः उच्चैः अशब्दयत्। तेन तस्य मुखे स्थितं फलं कूपे पतित्वा न्यमज्जत्। ततः सः वानरः दुःखितः अभवत्।
नीतिः– परकीयं गृध्नुः स्वीयमपि नाशयति।
एकदा कोऽपि मयूरः बकं दृष्ट्वा आत्मनः कलापभारं उद्यम्य तं बकं क्षुद्रवत् मत्वा जातरूपकल्पानां स्वस्य पिञ्छानां शोभां तस्मै दर्शयति स्म। तस्य दर्पं शातयितुं बकः तं वदति स्म- “रे, यदि सुन्दरपिञ्छान्येव महत्त्वं आनयन्ति तर्हि मयूराणां जातिः श्रेष्ठा। परन्तु अहमिदं मन्ये यत् बालकानां क्रीडनकं भूत्वा भूमौ प्रसर्पणापेक्षया अन्तरालगमने सामर्थ्यं अधिकं महत्त्वं यच्छति”। इति।
नीतिः– न कोऽपि सर्वैः गुणैः उपेतः भवति।
एकः केसरी पर्वतस्य नितम्बदेशे चरन्तं कञ्चन शुभ्रं अजं अपश्यत्। तत्र मे गतिर्नास्ति इति ज्ञात्वा हरिः तम् अलपत्- “रे, त्वमीदृशे स्थाने सर्वाह्णं चरित्वा किं सुखं लभसे? उत्प्लुत्य उत्प्लुत्य कदाचित् त्वं यदि पतेः, तदा प्राणान् त्यजेः। तर्हि ते नीचैः आगमनं वरम्। शाद्वलगतान् इमान् कोमलान् शादान् मधुराणि चेमानि गुल्मपर्णानि खाद”। ति। अथ छागः प्रत्यभणत्- “तव उक्तिः सर्वथा अनवद्या। परं त्वं मे बुभुक्षित इव दृश्यसे। अतः त्वया अधिष्ठितं स्थलमागत्य मज्जीवितं संशयितं नाहं कुर्याम्।” इति।
नीतिः– ये स्वार्थपराः जिह्माश्च तैः कथितं हितं न विश्वसितव्यः।
कश्चित् श्वानः जनान् अभिधाव्य तान् दशति। अस्य हेतोः तस्य स्वामी तस्य गले काष्ठमेकं बद्धवान्। एतत् महत् भूषणमिति मत्वा सः शुनकः प्रतिवेश्यान् भषकान् तिरस्कृतवान्। सन्निधौ स्थातुमपि तान् न क्षमते स्म। ततः तेषु कश्चित् वृद्धः तं भणति। “तात, गलस्थितेन अनेन अहं महत्त्वं प्राप्तः इति मन्यसे चेत् सुखं मन्यस्व। परं यः इदं काष्ठं गले बद्धवान् तेन महिम्नः कारणमिति नेदं बद्धः। अपि तु लघिम्नः कारण इथि बद् इदं इति अहं तर्कये।” इति।
नीतिः– साभिमानाः क्षुद्रबुद्धयः आत्मनि संस्थितं वैकल्यं स्वेषां श्रेयस्करमिति समर्थयन्ति।
मृत्पात्रं पित्तलपात्रं च नद्याः तीरे आस्ताम्। ऊर्ध्वप्रदेशात् आगतेन पूरेण उह्यमानयोः तयोः ‘पित्तपात्राभिघाते संवृत्ते सति अहं भग्नः भवेयम्’ इति मृत्पात्रं चिन्ताक्रान्तमभवत्। दुःखितं तत् दृष्ट्वा रीतिपात्रं एवमवदत्- “भोः, मा भयं गच्छ। अहं त्वां रक्षेयम्।” इति। तत् आकर्ण्य मृत्पात्रं प्रत्यवत्- “भ्रातः, दूरत एव मां प्रतिभाषस्व। त्वत्तः अहमतीव भीतः अस्मि। यतः परस्पराभिघाते सति ममैव नाशः भवेत्।” इति।
नीतिः– श्रीमता सार्धं सम्बन्धः दरिद्रं विपदि पातयति।
कश्चित् चिल्लः चिरं रुग्णः मुमूर्षुः अभवत्। ततः स आत्मनः पूर्वकर्माणि स्मारं स्मारं भयत्रस्तमनाः मातरमवदत् “भोः मातः कैश्चित् व्रतैः नियमैः, उपवासैः, अन्यैश्च भक्तिप्रकारैः देवं अनामयं मदर्थं याचस्व” इति। जननी प्रत्यवदत् “जात, देवः प्रार्थितोऽपि ते आरोग्यं दास्यतीति नाहं मन्ये। त्वं जन्मनः प्रभृति हिंसापरः। किञ्च देवताभ्यः अर्पितानां बल्युपहाराणामपहारात् विरतः नाभवः। अन्यच्च। तव कदापि अनुशयः न जातः। एवं वर्तमाने कथं नामाहं देवं त्वद्गदनिवृत्तिमभ्यर्थये” इति।
नीतिः– मरणसमये “पापोऽहं, पापकर्माहं, का मे गतिः स्यात्” इत्येवंविधचिन्तायाः पूर्वमेव पुरुषेण समाहितेन भाव्यम्। आत्मनः सुखं यः अभिवाञ्छति, सः पूर्वमेव दुष्कर्माणि दूरतः परित्यजेत्।
| चिल्लः, पुं, (चिल्लति हावभावेन उड्डीयते इति । चिल्ल + अच् ।) पक्षिविशेषः । चिल् इति भाषा ॥ तत्पर्य्यायः । आतायी २ । इत्यमरः । २ । ५ । २१ ॥ शकुनिः ३ आतापी ४ । इति हेमचन्द्रः ॥ खभ्रान्तिः ५ कण्ठनीडकः चिर म्भणः ७ । इति त्रिकाण्डशेषः ॥ (यथा, विष्णु- धर्म्मोत्तरे । |
कश्चित् श्वानः जनान् अभिधाव्य तान् दशति। अस्य हेतोः तस्य स्वामी तस्य गले काष्ठमेकं बद्धवान्। एतत् महत् भूषणमिति मत्वा सः शुनकः प्रातिवेश्यान् भषकान् तिरस्कृतवान्। सन्निधौ स्थातुमपि तान् न क्षमते स्म। ततः तेषु कश्चित् वृद्धः तं भणति। “तात, गलस्थितेन अनेन अहं महत्त्वं प्राप्तः इति मन्यसे चेत् सुखं मन्यस्व। परं यः इदं काष्ठं गले बद्धवान् तेन महिम्नः कारणमिति नेदं बद्धः। अपि तु लघिम्नः कारण इथि बद् इदं इति अहं तर्कये।” इति।
क्षुधितः कश्चित् शृगालः आहारार्थं वने परिभ्रमन् आसीत्। एवं स्थिते, सः द्राक्षाणां एकं कञ्जं दूरे अपश्यत्। अथ सः कुञ्जस्य समीपमागतः। तदा लतासु गुच्छतया लम्बमानानि फलानि तस्य नयनयोः गोचराणि अभवन्। तानि च फलानि पक्वानि मधुराणि च आसन्। ततः सः फलानां प्राप्तये उत्प्लुत्य उत्प्लुत्य नितरां अखिद्यत। परं तु कुञ्जस्य औन्नत्यात् सः एकं अपि फलं न अलभत। तदा सः कोपात् एवं अवदत्- “कः वा मूढः अपक्वानि अम्लानि च फलानि अभिलषेत्?” इति। इत्थं वदन् सः परावृत्य गतः।
नीतिः– अलभ्ये वस्तुनि दोषस्य आरोपणं सहजम्॥
कस्मिंश्चित् पान्थौ देशान्तरं प्रस्थितौ। तौ सशपथं समयं अकुरुताम्। यत् मार्गे सङ्कटे आपतिते अन्योन्यस्य विश्लेषः मा भवतु इति। ततः तयोः एकस्मिन् गहने वने गच्छतोः कश्चित् भल्लूकः तौ प्रत्यभ्यसरत्। तदा कृशः चपलाङ्गः तयोः एकः द्रुतगतित्वात् अविलम्बितं वृक्षमारूढः। अन्यः स्तूलत्वात् द्रुतगमनाक्षमः आसीत्। तस्मात् सः प्राणानायम्य विगतचेष्टः भूमौ सुप्तः। ततः सः भल्लूकः तत्रागत्य कर्णे आघ्राय शवोऽयमिति मत्वा पीडां अकृत्यैव न्यवर्तत। ऋक्षे निर्गते वृक्षारूढः पान्थः शनैः अवतीर्य सस्मितं भाषते स्म, “सौम्य, स ऋक्षः कर्णे किं त्वां अकथयत्?” इति। अथान्यः पान्थः सकोपं प्रत्यभाषत “सः भल्लूकः ‘त्वादृशेषु शठेषु विश्वासं मा कुरु इति मां आदिशत्।
नीतिः– मुधा कोऽपि न भाषेत।
एकदा कश्चित् क्रमेलकः ईश्वरं सप्रश्रयं याचितवान् ‘भगवन्, यथा गोमहिषादयः भवता शृङ्गिणः कृताः तथा किमहं न क्रिये। आप्ताभ्यां विषाणाभ्यां अहं शत्रुभ्यः त्राणं कुर्याम्। एतां मे विज्ञप्तिं देवः श्रोतुमर्हति।’ इति। अथ ईश्वरेण उक्तम्। “रे मूढ, यन्मया तुभ्यं दत्तं तत् अलं विचार्यैव दत्तम्। तेन त्वया सन्तुष्टेन भाव्यम्। तत् अकृत्वा यत् अन्यस्मै दत्तं तत् त्वं याचसे। तर्हि अन्यधृष्टत्वस्य दण्डं लभस्व। तव कर्णौ ह्रस्वौ भवेताम्। त्वं च अतिभारवाहकः भवेः” इति।
नीतिः– अस्मिन् जगति ईशेन यत् यत् दत्तं तत् तत् उपपन्नमेव। तत् अन्यथा कर्तुं ये यतन्ते तेषां उद्यमाः निष्फलाः भवन्ति। ते च दुःखभाजः भवन्ति।
कोऽपि सारमेयः कंचन पुरुषं अदशत्। तधा काचित् महत्तरी तस्मै नराय विषशमनार्थं एकमुपायमेवमकथयत्। “तात, अपूपखण्डं गृहीत्वा तं क्षतप्रदेशे निधाय कृतक्षतं भषकं तं खण्डं आशय। एवं कृतं चेत् विषबाधा नश्येत्”। इति। तथैव कृते विषबाधा नष्टा। यथोक्तं अनुष्ठितवन्तं तं तेन मार्गेण गच्छन् कश्चित् बुधः दृष्ट्वा अपृच्छत्- “रे, किमिदमारब्धं त्वया?” इति। क्षतः यथावत् अवदत्। तत् श्रुत्वा सः विद्वान् तं एवं उपादिशत्। “रे, यद्येवं तर्हि रहः एतत् कुरु।” इति त्वामहं प्रार्थये। इमां प्रवृत्तिं पत्तनवासिनः शुनकाः यदि श्रोष्यन्ति तर्हि अस्यां पुर्यां कमपि अक्षतं ते न अवशेषयन्ति।” इति।
नीतिः– मनस्विनः दण्डमेवार्हन्ति। परं तु भीताः तान् मधुरवचनैः सान्त्वयन्ति चेत्, तर्हि तैः तत्भाजनं रहस्येन कर्तव्यम्। नो चेत् साधूनां मानहानिः दुरात्मनां उत्कर्षश्च भवेत्।
एकदा नदीकूले रूढस्य वात्याबलेन उन्मूलितस्य स्रोतसि महता वेगेन उह्यमानस्य च कस्यचित् समुच्छ्रितवृक्षस्य वीरुधः कंचन निम्नतरं समाकर्षत्। परं सः नीचतरुः निराबाधः एव आसीत्। ततः सः भूरुहः तं नतं महीरुहं साश्चर्यं पृच्छति स्म। “किं भोः प्रबलया यया वात्यया मादृशा अपि उन्मूलिताः तस्यां त्वया कथं आत्मानं रक्षितः” इति। ततः सः निम्नवृक्षः तं समुच्छ्रितः प्रत्यवदत्, “तात आवयोः उभयोः वर्तनं भिन्नम्। प्रचण्डे मारुते सञ्चलिते अहं नीचैः प्रणमामि। बलीयसा स्पर्धा निष्फलेति अहं बोधामि। त्वं तु आत्मनः बले विश्वस्य सदर्पं अशिथिलः तिष्ठसि।” इति।
नीतिः– यस्याग्रतः वयं स्थातुं असमर्थाः तं प्रति प्रणतिरेव श्रेयस्करी। तत्र अवलेपः अनर्थकारकः।
चत्वारः वृषभाः एकत्र समाचरन्तः मैत्रीभावेन वर्तमानश्च कदापि न विश्लिष्टाः। इत्थं समेतान् तानवलोक्य कश्चित् सिंहः नित्यं व्यचिन्तयत्। “एकोऽपि एतेषां मम भोज्यः भवेच्चेत् तर्हि समीचीनं स्यात्।” इति। सः सिंहः तान् एकैकशः व्यापादयितुं समर्थः अभवत्। परं सः समेतानां तेषामुपरि उत्पतितुमपि न शक्तः। अतः कतिचित् दिनानि दूरस्थः एव सः प्रतीक्षते स्म। परं सः सङ्कल्पसिद्धिं नाभजत। अन्ते सः एवं निर्णयत्- “यावदिमे एकमते वर्तन्ते तावदिमे न मे वशं गमिष्यन्ति। तस्मात् पिशुनः भूत्वा एतेषां भेदं अहं करिष्यामि”। इति। एवं अवस्थिते बलीवर्दाः परस्परस्य उपरि द्वेषबुद्धिं बद्ध्वा व्यश्लिष्यन्। ततः सिंहः अश्रमेण तान् अवधत्।
नीतिः– यावत् ऐकमत्यं तावत् शत्रवः किमपि कर्तुं समर्था न भवेयुः।
विन्ध्यपर्वतस्य गुहायां दुर्दान्तः नाम सिंहः प्रतिवसति स्म। तस्याः गुहायाः विवरे कश्चन मूषिकः वासं अकरोत्। सः मूषिकः तस्य सिंहस्य केसराग्रं प्रतिदिनं खण्डयति। तेन सिंहः कोपात् तं मूषिकं ग्रहीतुं अयत्नत। परं तु स तं न अलभत। अथ सः सिंहः ग्रामं गत्वा दधिकर्णं नाम बिडालं आनीतवान्। तस्मै मांसाहारं दत्त्वा सः तं स्वस्य कन्दरे संस्थापयति स्म। अनन्तरं सः मूषिकः बिलात् निर्गतः। ततः असौ सिंहः सुखेन निद्रां अलभत। अथ एकदा सः मूषिकः बहिः आगच्छत्। तदा सः बिडालेन प्राप्तः हतः च। ततः आरभ्य सिंहः निजं आतङ्कं अत्यजत्। दधिकर्णं च सम्यक् न अपुष्टत्। तस्मात् दधिकर्णः दुर्बलः भूत्वा मृत्युं अगच्छत्।
नीतिः– भृत्यः स्वामिनं आत्मनः निरपेक्षं कदापि न कुर्यात्।
उज्जयिन्यां सुदर्शनो नाम राजा समभवत्। तस्य एकः दुष्टः कुमारः अवर्तत। सः तावत् दृष्टान् शपन् पण्डितान् परिहसन् दरिद्रान् बाधमानश्च आसीत्। एवं जनानां कण्टकं स्वस्य कुमारं दृष्ट्वा राजा नितरां दुःखितः अभवत्। एवं स्थिते, कदाचित् सः राजा तं कुमारं उपह्वरे एवं उपादिशत्- “अये वत्स, त्वं एवं पण्डितान् अन्यानपि शपसि। एतादृशेन तव दौष्ट्येन ममापि अपमानः सम्भवति। त्वया कृतेन दूषणेन हीयते। पश्य-“भास्करः अम्बरस्य मध्ये वर्तते”। यदि एकः मौढ्यात् तस्य उपरि गण्डूषेण थुत्करेण तदासूर्यस्यसकापि हानिः अपि तर्हि गण्डूषकस्य मुखं शीकरैः दूषितं भवेत्।” इति। एवं पित्राकृतं उपदेशं समालोच्य सः कुमारः निजं दौष्ट्यं अत्यजत्। ततः परं सः सुखं अवर्तत।
नीतिः– मूर्खाः साम्नैव समीकरणीयाः॥
कश्चन निर्बुद्धिः शकटवाहकः शकटं नयन् आसीत्। एकस्मिन् स्थले पङ्करुद्धचक्रं तत् शकटं धुर्याणां महता प्रयत्नेनापि मोचयितुं सः शक्तः नाभवत्। यदा असौ अक्षमः आसीत् तदा सः देवं एवं प्रार्थयत, “भो देव, अहं दीनः। निराश्रयः अहम्। अस्मिन्कृच्छ्रे मे सहायः भव” इति। इत्थं संप्रार्थ्य सः निरुद्यमः स्थितः। देवस्तु तस्य प्रार्थनां श्रुत्वा तं च तूष्णीं आसीनं दृष्ट्वा तं अवदत्, “भो मूढ किमिति भवान् अलसः जोषं आस्ते। मम साहाय्यं वाञ्छितं चेत्, तर्हि उत्तिष्ठ। धुर्यान् चोदय। रथाङ्गे स्कन्धेन उपस्तम्भय। एवं कृते अहं ते साहाय्यं कुर्याम्” इति। ततः शकटवाहेन तथा कृतम्। शकटं च पङ्काद्बहिरागतम्।
नीतिः– निरुद्यमः दैवसाहाय्यं कदापि न लभते।
केनचित् मूषकेण जालान्मुक्तः कश्चन सिंहः प्रसन्नवदनः तं मूषकं अगदत्, “भो मूषक, त्वया बलवत् उपकृतः अस्मि। ईप्सितं वरय। ते देयमिति मे निश्चयः”। अनेन गर्वितः स मूषकः “कोऽहं, का वा मे योग्यता, किं मया याचनीयम्?” इति अविचार्य सिंह व्यज्ञापयत्। “यतः स्वामीतुष्टः ‘ईप्सितं व्रियतां’ इति वदति, ततः अहं निर्भीकः याचे। मद्याच्ञा चेयं यत् स्वामिना आत्मनः कन्या मे दातव्येति।” तद्वचनं आकर्ण्य सिंहः दुर्मनाः जातः। परं सः किं कुर्यात्। पूर्वमेव तेन प्रतिश्रुतं हि। अकः “दत्ता मया ते कन्या” इति उदीर्य सः दुहितरं अह्वयत्। सा यौवनमदमन्थरगमना समागता। समागतायाः तस्याः आकस्मिकेन सः मूषकेन पञ्चकत्वं गतः।
नीतिः– योग्यतानुसारं प्रार्थना कर्तव्या॥
उज्जयिन्यां विलासः नाम रजकः आसीत्। तस्य वशे एकः गर्दभः अवर्तत। सः गर्दभः सदा भारं वहन् दुर्बलः जातः। क्रमेण उत्थातुं अपि अशक्तः अभवत्। तदा सः रजकः तं व्याघ्रस्य चर्मणा प्रावार्य सस्यक्षेत्रे आचारयत्। तत्रत्याः सर्वे अपि तं व्याघ्रं मत्वा भयात् पलायिताः। कस्माच्चित् कालात् परं तस्य क्षेत्रस्य पालकः तत् क्षेत्रं आगतः। अथ सः तं प्राणिनं वीक्ष्य तस्य चेष्टाभिः तं गर्दभं शङ्कते स्म। अनन्तरं सः गृहं गत्वा आत्मानं गर्दभस्य कृत्या प्रावार्य तत् क्षेत्रं पुनः आगतः। गर्दभस्तु तं गर्दभीं मत्वा रुवन् सन् तस्य अन्तिकं अभ्यधावत्। ततः सः क्षेत्रस्य पालकः तं शब्देन गर्दभं बुद्ध्वा दण्डेन तं व्यापादयति स्म।
नीतिः– स्वभावो दुरतिक्रमः॥
कश्चित् ग्रामस्य समीपे एकः तडाकः आसीत्। तस्मिन् बहवः भेकाः अवसन्। एकदा केचित् बालकाः तस्य तडाकस्य तीरे क्रीडितुं आगच्छन्। अथ तस्मिन् तडागे मण्डूकान् दृष्ट्वा क्रीडार्थं तेषु लोष्टान् प्राक्षिपन्। तैः लोष्टैः अनेके भेकाः अहिंस्यन्त। ततः ते शोचितुं आरभन्त, “किं कुर्मः, क्व गच्छामः, कः अस्मान् इदानीं रक्षेत्।” इति। तदा कश्चित् वृद्धः मण्डूकः तान् बालकान् आलोक्य एवं अकथयत् “भोः बालकाः वयं निरपराधाः किमर्थं ईदृशान् अस्मान् इत्थं लोष्टैः प्रहरथ?” इति। अथ ते प्रत्यवदन् “हे वृद्ध वयं युष्मान् न प्रहरामः; किं तु लोष्टैः क्रीडामः” इति। तदा सः जरठः पुनः एवं प्रत्यभाषत “भोः बालकाः इदं युष्माकं क्रीडा एव; परन्तु अस्माकं प्राणान् अपहरति।” इति।
नीतिः– विनोदार्थं अपि हिंसा न कर्तव्या॥
एकदा कस्यांचित् अरण्यान्यां रासभशिशुः वन्यसूकरस्य मिथः समागच्छेताम्। ततः सः गर्दभशिशुः परिहासबुद्ध्या तं अरण्यसूकरं अवदत् “भाव, प्रणामः ते” इति। इत्थं अपूर्वं उपचारं दृष्ट्वा सः सूकरः व्यस्मयत। क्रोधवशं गतः सन् “अस्य अन्त्राणि विद्यार्य बहिः निष्कासयेयम्।” इतिअमन्यतच। परं विविच्य सः गर्दभशिशुं अवदत्- “रे गर्दभापशद इतः अवसर यथेप्सितं देशं अविलम्बितम् गच्छ। रासभस्य रक्तेन आत्मद्रष्टां दूषयितुं नोत्सहे। अन्यथा निमेषार्धेन त्वां व्यापादयेत्” इति।
नीतिः– क्षुद्राः पण्डितंमन्या भूत्वा महतां परिहासं आरभन्ते।
महान्तः तु कोपाय अवकाश मदत्वा तान् क्षमन्ते॥
कश्चित् एकाक्षिविकलः हरिणः नित्यं अब्धितटे चरन्नासीत्। स च इत्थं अचिन्तयत्- “चरतो मम काणं अक्षि जलाभिमुखं अविकलं चाक्षिस्थलमभितः दत्तं चेत्, घातयिता संनिहितः सन् ज्ञायेत।” इति । एवं अरिष्टस्यनिवारणोपायं संविधाय आत्मानं अकुतोभयं गणयति स्म। कश्चित् मृगवधाजीविनः चिराय तस्मिन् मृगे बद्धलक्ष्योऽपि तं न प्राप्तवान्। ततः स नावमारुह्य सुगुप्तं जलतः अभ्येत्य तं हरिणं गुलिकाप्रक्षेपेण हतवान्। प्राणोत्क्रमणवेलायां सः एणः एवं व्यलपत्। “भो विधे, अनधिगम्यं ते विलसितं इतो भयमिति यत्राहं अबोधं तस्मान्नाहं विद्धः। अपि तु यत्र नो भयमिति अबुध्ये तदैव दिशा मे निधनं जातम्।” इति।
नीतिः– निर्भयाः वयमिति न मन्तव्यम्। सभया इति मत्वा निर्भयत्वसम्पादने नात्यर्थं यतितव्यम्। निर्भयत्वं नास्मास्वधीनम्॥
कस्मिंश्चित् स्थविरे स्वरासभं चारयति सति, तस्य परिपन्थीतमभियातः। अतः सः गर्दभः त्वरयति स्म। तस्मिन् काले सः चक्रीवान् तं वृद्धं पृच्छति स्म, “स्वामिन्, सः ते अरातिः मम पृष्ठे भारं निक्षिपेत् न वा?” इति। तदा तेन प्रवयसा प्रत्युक्तम्- “सः भारं त्वया वाहयिष्यत्येव। नात्र विसंवादः”। इति। ततः खरः पुनः तं जरठं पृच्छति स्म- “प्रभो, त्वं मया भारवाहनं करिष्यसि न वा?” इति। वृद्धेन पुनः क्तं- “अहं करिष्याम्येव। भारोद्वहनं तव कर्म खलु।” इति। बालेयः पुनः गदति स्म। “यद्येवं तर्हि अहं अङ्गुलमात्रमपि न प्रचलेयम्। यदिअहं भारोद्वहनक्रियायाः स मुच्ये तर्हि कोऽपि मे स्वामी भवतु। किं मे हर्षप्रदं किं वा शोकस्थानम्?” इति।
नीतिः– अप्राप्यलाभाः रङ्काः प्रायेण राजपरिवर्तनाभ्युपायेषु “रामो वा राजा भवतु राक्षसो वा” इति मन्दादराः भवन्ति।
एकस्मिन् अरण्ये कश्चन व्याघ्रः अवर्तत। सः तत्रत्यान् अन्यान् मृगान् बाधमानः आसीत्। एवं महान् कालः गतः। कदाचित् सः व्याघ्रः एकं वृषभं उद्दिश्य उदपतत्। तदा सः शार्दूलः लक्ष्यात् स्खलित्वा पुरतः स्थिते अगाधे गर्ते न्यपतत्। एवं पतितं तं दृष्ट्वा सर्वे अपि ते मृगाः सङ्घीभूय इत्थं आलोचयन्- “यदि वयं एनं इदानीं न संहरामः तर्हि एष पापः अस्मान् सर्वदा पीडयेदेव। तस्मात् अस्मिन् काले एव अयं मारणीयः।” इति। एवं समालोच्य सर्वे अपि ते मृगाः एकैकं पाषाणं उद्धृत्य तस्य व्याघ्रस्य उपरि अपातयन्। तैः पाषाणैः सः गर्तः अपूर्यत। तेन स व्याघ्रः अपि अम्रियत।
नीतिः– बहुभिः विरोधः न कर्तव्यः।
नर्मदायाः तीरे कश्चित् वटवृक्षः आसीत्। तत्र एकः काकः न्यवसत्। कदाचित् सः गगने चरन्तं हंसं आलोक्य “क्व गच्छसि?” इति अपृच्छत्। “अहं मानसं नाम सरः प्रस्थितः अस्मि” इति नः हंसः अवदत्। ‘अहमपि त्वया सह आगमिष्यामि। मामपि तं देशं नय” इति काकः प्रार्थयते स्म। हंसः स्मित्वा “क्व मानसं? क्व समुद्रस्योपरि आगमनं? क्व वा भवान्?” इति प्रत्यभाषत। वायसस्तु अहंकारेण दूषितः सन् एवं अवदत्- “अये हंस्, मां अवरं सम्भाव्य किं एवं गर्वयसे? पश्य मम वेगम्।” इत्थं उक्त्वा तस्य हंसस्य पुरतः चलितुं चारभत। तौ उभौ अपि किञ्चित् दूरं अगच्छताम्। तावत् ध्वाङ्क्षः शक्त्या विहीनः समुद्रे पतितुं उन्मुख इव आसीत्। तत् आलोक्य हंसः कृपया तं निजयोः पक्षयोः आधाया कूलं अनयत्।
नीतिः– महद्भिः सह विवदमानः अल्पः अपमानमुपगच्छति॥
एकस्मिन् अग्रहारे एकः ब्राह्मणः आसीत्। तस्य एकः कुमारः अभवत्। कदाचित् सः विप्रः तेन कुमारेण सह काशीं गन्तुं प्रातिष्ठत। मार्गस्य मध्ये सः बालः एकं अक्रन्दत्, “तात, व्याघ्र आगच्छति, व्याघ्र आगच्छति।” इति। तत् आकर्ण्य द्विजः परावृत्य अपश्यत्। तत्र व्याघ्रः नैवासीत्। ततः सः विप्रः पुरस्तात् किञ्चित् दूरं गतवान् तदानीं व्याघ्रः साक्षादागतः। अथ सः पुत्रः भयेन वेपमानः सन् “तात, व्याघ्रः, व्याघ्रः” इति पुनः पुनः आक्रोशत्। तत् श्रुत्वा जनकः तु “अयं पुरेव असत्यं भाषते” इति अपरावर्तमानः एव अगच्छत्। ततः व्याघ्रः पृष्ठतः गच्छन्तं बालं अपहृत्य अभक्षयत्।
नीतिः– असत्यवादी केनापि न विश्वस्यते।
1. 34. ब्राह्मणस्य व्याघ्रस्य च कथा
धारापुरे कश्चित् ब्राह्मणः अवर्तत। कदाचित् सः पुष्पाणि फलानि च अपचेतुं अरण्यं अगच्छत्। तत्र एकः शार्दूलः तमनुधाव्य कण्ठे गृहीतवान्। तदा स विप्रः तं नमस्कृत्य एवं प्रार्थयत- “अये पुण्डरीक, दिनानां त्रयं यावत् मां कृपया मुञ्च। अहं गृहं गत्वा मम पत्नीं पुत्रान् बन्धूंश्च दृष्ट्वा तान् आभाष्य चतुर्थे दिवसे अत्रागच्छामि। ततः तव ग्रासः भवामि” इति। तदा सः पुण्डरीकोऽपि “तथैवास्तु”इतिअन्वमन्यत। ततः सः द्विजः स्वस्य गृहं आगत्य सकलं अपि कार्यं निर्वर्त्य पुनः अपि व्याघ्रस्य समीपं आगच्छत्। द्वीपी तु तं दृष्ट्वा नितरां समतुष्यत्। अथ तमेवं अवदत्- “अये, ईदृशं सत्यसन्धं पुरुषं कुत्र अपि न अपश्यम्” इति। इत्थं सः तं बहुधा प्रशस्य “सुखेन गच्छ” इति तं व्यसृजत्।
नीतिः– शत्रवोऽपि सत्यवादनं बहुमन्यन्ते।
1. 35 पण्डितस्य तस्य पुत्रयोश्च कथा
काश्यां शङ्करः इति धनिकः पण्डितः समवर्तत। तस्य गोपालः गोविन्दश्च इति पुत्रौ आस्ताम्। तयोः गोपालः अग्रजः। गोविन्दश्च अनुजः। सः पण्डितः गोपालं कामपि विद्यां वा कलां वा नापाठयत्। तस्मात् सः मूढः अवर्तत। गोविन्दस्तु विद्याः कलाश्च अभ्यस्य तासु निपुणः अभवत्। एवं स्थिते, तस्य पण्डितस्य मरणकालः सन्निहितः। तदानीं सः पण्डितः मूढाय गोपालाय सकलमपि स्वीयं धनमयच्छत्। गोविन्दाय तु न किमपि दत्तवान्। अथ पितरि स्वर्गते, सः गोपालः कतिपयैरेव दिवसैः सकलमपि पित्र्यं धनं व्यययित्वा दरिद्रः समभवत्। गोविन्दस्तु आत्मनः पाण्डित्येन अमितंद्रव्यंसम्पाद्य सुखेन कालं अनयत्।
नीतिः– विद्यावान् वा कलावान् वा सुखीभवति। विद्यया वा कलया वा विहीनः न सुखमेधते।
नमस्तेसमीचीना कथा।
महत्तरी इति पदस्यार्थः - महत्तरः, पुं, स्त्री, (अयमनयोरतिशयेन महान् । महत् + तरप् ।) शूद्रः । यथा, --
“शूद्रः स्यात् पादजो दासो ग्रामकूटो मह-त्तरः ।” इति त्रिकाण्डशेषः ॥
एकः ग्राम्यः पुरुषः हेमन्ते निष्कुटे कर्म कुर्वाणः अवर्तत। तत्र प्राचीरस्य अभ्यासे हिमोद्वेजितं विकलाङ्गं मुहूर्तेन मुहूर्तार्धेनवा मरिष्यन्तं एकं भुजङ्गमं अपश्यत्। तमीक्षित्वा सः पुरुषः दयार्द्रचेताः भूत्वा तं गृहमनयत्। नीत्वा च सः तं भुजङ्गं अधिश्रयणीसविधे व्यक्षिपत्। तत्र वर्तमानः सः उरगोऽपि तापयोगेन लब्धसंज्ञः सञ्जातः। अथ सः पापः तस्य ग्राम्यपुरुषस्य पुत्रदारानुद्दिश्य सफूत्कारमधावत्। ततः महान् कोलाहलः समभवत्। कलकले प्रवृत्ते सति सः पुरुषः कुठारहस्तः तूर्णमेत्य एकैकेन प्रहारेण तं चक्षुःश्रवसं द्विधा कृतवान्। प्रहरन्नयमिदमवदत्- “रे पापाशय, निधनोन्मुखे त्वयि यः तुभ्यमसून् अयच्छत् तस्मै किमयं प्रत्युपकारः? तव मरणं युक्तमेव। अपि चमरणादप्यधिकं दम्डं त्वमर्हसि।” इति।
नीतिः– यः हितकर्तारं अन्नदातारं च अपकर्तुं यतते, स कृतघ्नः पापः। तस्य मुखावलोकनमपि न श्रेयः।
Minor typos.
अभ्यासे -> अभ्याशे
मुहूर्तार्धेनवा -> मुहूर्तार्धेन वा
चमरणादप्यधिकं -> च मरणादप्यधिकं
दम्डं -> दण्डं
--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.
कश्चित् कूर्मः भूमौ गतागतैः निर्वेदं आपन्नः। आकाशचारी भूत्वा इतः ततः स्थितानां सृष्टिचमत्काराणां रमणीयकं पश्येयमिति इच्छा तस्य मनसि उत्पन्ना। सः सर्वान् पक्षिणः अभाषत, “यो मां वियत्पथा नीत्वा सृष्टिसौन्दर्यं दर्शयेत्, तस्मै अहं भूगर्भान्तर्गताः मम ज्ञाताः रत्नखनीः दर्शयेयम्।” इति। एतत् श्रुत्वा गरुडः तं कच्छपं गगनं नीत्वा भूगोलवर्तिनः निखिलान् चमत्कारान् अदर्शयत्। ततः तार्क्ष्यः कमठमभणत्, “भोः कुत्र इदानीं ते रत्नाकराः? तान् दर्शय तूर्णम्”। इति। तदा कूर्मःभ्रान्तचित्तवत् व्यवहर्तुं प्रावर्तत। तत् उदीक्ष्य खगेश्वरः अक्रुध्यत्। तस्य नर्मसु नखान् व्यापार्य तं च हतवान्।
नीतिः– यदि प्रतिज्ञा नोत्तीर्यते तर्हि हानिः जायते।
कोऽपि वृकः कञ्चन मेषं व्यापाद्य अभक्षयत्। तस्य अस्थ्नामेकं तस्य गले तिर्यक् पतितम्। तस्मात् गलरन्ध्रः रुद्धः अभवत्। ततः आर्तः सः उच्चैः रटन् वने भ्रमति स्म। यद्यत् सत्त्वं मार्गे दृष्टं तत्तत् अतिकरुणया वाचा सः एवं अभणत्- “हे सौम्य यदि कृपया गलगतमिदमस्थि निष्कासयसि तर्हि अनल्पं पारितोषिकं दास्यामि।” इति। ततः एकः बकः पारितोषिकलोभेन पुरः गत्वा अभयशपथं कारयित्वा तन्मुखे स्वां लम्बां ग्रीवां निवेश्य तदस्थि निष्कासयत्। ततः बकेन पारितोषिके याचिते वृकः विस्फारितचक्षुः तं प्राह, रे अधम, त्वत्सदृशः मूर्खः अदृष्टपूर्वः। मम गलगतां तव ग्रीवां अचरित्वा मया त्वं जीवन्नेव मुक्तः। एतावताप्यसन्तुष्टः पारितोषिकं याचसे। इदमाश्चर्यमेव।” इति।
नीतिः– उपकारिषु अपि अपकारकरणं दुष्टानां स्वभावः।
कश्चित् वाचालः नाम मण्डूकः एकदा सरसः निष्क्रम्य उन्नतं स्थलं अध्यतिष्ठत्। तत्रस्थः सः तारस्वरेण सर्वान् वनपशून् आकार्य वदति स्म- “भोः सत्त्वाः, आकर्णयत। अहं कुशलः वैद्यः अस्मि। रोगमात्रस्य अपोहने प्रभवामि।” इति। एतावत् उक्त्वा आत्मनः नैपुण्यं प्रकटयितुं वैद्यशास्त्रेभ्यः वचनानि उदगिरत्। वन्यपशवः तेषां अभिधेयं नाबोधन्। परं अयं कोऽपि महान् चिकित्सकः इति तेषां प्रतिभातम्। अतः यद्यत् सः गदति स्म तत्तत् तेषां संमतं अभवत्। तत्र कोऽपि जम्बुकः एतत् उद्धतं वचनं न सहते स्म। “रे पामर, ते मुखं सङ्कुचितम्। तव वपुः किल विकृतं निस्तेजस्कं च। स त्वं अन्येषान् रोगान् दूरीकरोमि इति वक्तुं किं न लज्जसे?” इति।
नीतिः– यः आत्मनः दोषान् दूरीकर्तुं न शक्तः, सः अन्यस्य दोषान् परिहर्तुं न यतेत।
मगधदेशे कश्चित् दरिद्रः ब्राह्मणः आसीत्। कस्मिंश्चित् पुण्ये दिने सः तैलभाण्डस्य दानं गृहीत्वा स्व ग्रामं न्यवर्तत। सः मार्गस्य मध्ये श्रमस्य परिहाराय शीतले वृक्षस्य मूले न्यषीदत। अथ सः तत्र शयानः एवं आलोचयितुं आरभत- “अहं इदानीं एतावत् तैलं समुपार्जम्। एतत् विक्रीतं चेत् त्रीणि रूप्याणि लभेय। एभिः रूप्यैः एकां अजां क्रेष्यामि। तस्याः शिशवः तेषां शिशवः जायेरन्। ततः तेषां समुदायं विक्रीय लब्धैः धनैः महिषीः गाश्च क्रेष्यामि। तेषां द्वारा बहुधनं सम्पाद्य रम्यं हर्म्यं विरचयिष्यामि। ततः कामपि सुन्दरीं कन्यां परिणेष्यामि। ततः चन्द्रिकायां मणिमये मञ्चे तया सः विविधानि सुखानि अनुभवेयम्। एवं मम जन्म सफलं करिष्यामि। सा मे भार्या मम आज्ञां उल्लङ्घयिष्यति चेत्, तामेवं पादेन ताडयिष्यामि।” इति। इत्यालोचयन्नेव स्वस्य पादस्य समीपे विद्यमानं तैलभाण्डं पादेन अताडयत्। तत् भाण्डं भग्नं आसीत्। सर्वं तैलमपि नष्टं अभवत्।
नीतिः– वृथा मनोरथाः प्रयोजनाय न भवन्ति।
कोऽपि गरुडः एकं शशं कृकाटिकाग्रहणेन रुद्धवान्। तदा तदभ्याशवर्तिनि कस्मिंश्चित् शाखिनि समासीना काचित् चटका तं शशकं अभणत्- “रे त्वमतीव विचारमूढः। धिक् ते जीवितम्। रे, त्वं निष्क्रियः सन् किमात्मानं व्यर्थं घातयसि? तिष्ठ, धाव च। यदि यतसे, तर्हि चपलजातिः त्वं अरेः हस्तात् मुच्येथाः इति मे मतिः” इति। इत्थं सनिकारं तस्यां वदन्त्यामेव कश्चित् शशादनः अवपत्य तां नखैः उदनयत्। तस्मिन् क्षणे सा अतिमात्रं प्रलपति स्म। परं तस्मिन् अधत्तावधानः श्येनः तां गृहीत्वा अचलत्। तत् दृष्ट्वा शशः मृतिकाले समाहितचित्तः तां अवदत्- “अये आत्मानं सुस्थां मन्यमाना भवती मां अध्यक्षिपत्। सा त्वं तेनैव भयहेतुना आक्रान्ता। पश्यानि कथमेतर्हि वर्तसे”। इति।
नीतिः– ये परोपदेशे पण्डिताः ये च आत्मनः समापतिते व्यसने बुद्धिभ्रंशं अधिगच्छन्ति, ते लोके उपहस्यन्ते।
कश्चित् वृषभः जातु शाद्वले आचरत्। तत्र कूर्दमानानां अल्पकायानां दुर्दुरशिशूनां मध् एकः तस्य वृषस्य पादभारेण आक्रान्तः अम्रियत। अपरे शिशवः गृहानागत्य तस्य वृषस्य चेष्टितं मात्रे न्यवेदयन्। अथ ते मातरं अगदन् च- “मातः अद्य यावत् ईदृशं महाकायं सत्त्वं वयं न दृष्टवन्तः।” इति। तत्श्रुत्वासा दुर्दुरी उदरमीषदाध्माय तान् शिशून् अपृच्छत्- “किं एतावान् सः सत्त्वः आसीत्?” इति। अथ तैः उक्तं- “एतस्मादपि सः महत्तरः अभवत्।” इति। तत् आकर्ण्य पुनरपि आध्मातुं प्रवृत्ता सा भेकी “किमेतावान् सः?” इति अपृच्छत्। ते अवदन्- “मातः उदरस्फुटनं यावत् आध्मातापि त्वं तेन समत्वं नाप्स्यसि”। इति। ततः अखर्वेण गर्वेण आध्माता सती सा तपस्विनी भेकी उदरं स्फुटित्वा पञ्चत्वं अगच्छत्।
निषधदेशे कश्चन दरिद्रः ब्राह्मणः आसीत्। स परस्य उत्कर्षं न सहते स्म। कदाचित् स्वस्य दारिद्र्यस्य निवृत्तये कस्यचित् सरसः तीरे सः तपः चरति स्म। तत् दृष्ट्वा सेर्ष्यः तस्य प्रातिवेशिकः विप्रः अपि तत्रैव सरस्तीरे तपः अतप्यत। कस्यचित् कालस्यानन्तरं शङ्करः सन्निधाय “किं ते अभीप्सितं?” इति प्रथमं अपृच्छत्। तदा सः एवं प्रार्थयत- “भगवन्, मम प्रातिवेशिकः यत् वरयिष्यति, तस्य द्विगुणं मे प्रयच्छ।” इति। तदाकर्ण्य भगवान् द्वितीयं गत्वा, “भोः तपस्विः यत्त्वं वरयिष्यस तस्य द्विगुणं तव प्रातिवेशिकः प्रार्थयते। तस्मात् किं त्वमपेक्षसे?” इति पृच्छति स्म। तत् श्रुत्वा द्वितीयः ईर्ष्यावशात् स्वस्य हानिमपि अविगणय्य इत्थमवदत्- “स्वामिन् मदीयं एकं नेत्रं अन्धं भवतु” इति। शङ्करोऽपि “तथास्तु” इति व्याहृत्य अन्तर्धानमगच्छत्। अथ द्वितीयस्य एकं नयनं अहीयत। प्रथमस्य तु द्वे अपि चक्षुषी अहीयेताम्। एवं असूयया उभौ अपि हानिं समपादयताम्।
नीतिः– ईर्ष्यालवः निजामपि हानिं न गणयन्ति।
ग्रीष्मसमये कश्चित् सिंहः वने प्रच्छायशीतले चूततले सुखं सुप्तः। तत्र बहवः मूषिकाः तं अर्दयन्ति स्म। तैः पद्रुतः सः प्रबुध्य यावत् इतस्ततो व्यलोकयत् तावदेकं मूषकमपश्यत्। अथ सः तं करे धृत्वा यावत् दारयितुमिच्छति तावत् सः मूषकः दैन्यपरीतः सप्रश्रयं तं सिंहं अवदत्- “भोः स्वामिन् विक्रान्तः त्वं मृगराजः। अहं तु भवतः पुरतः अतीव रंकः। किं मे असृजा आत्मनः करं दूषयसि? तत् स्वामी मम प्रणदानमेव कर्तुं अर्हति।” इति। एतानि अन्यानि च करुणवचनानि श्रुत्वा सिंहः दयते स्म, तं चामुञ्चत्। कालेन स एव सिंहः वने अटन् तस्यैव चूतवृक्षस्य निकटे मृगयुप्रसारिते जाले न्यपतत्। तदा अखिलसारव्ययेनापि आत्मानं मोचयितुं सः अशक्तः अभवत्। ततः निराशः भूत्वा उदगर्जत्। तस्य गर्जनायां श्रवणपथमागतायां सत्यां पूर्वोपकृतः मूषकः द्रुततरमागत्य अवदत्- “राजन् न भेतव्यं अयमस्मि किंकरः। स्वस्थः भव” इति। एवमुक्त्वा सः स्वदन्तैः जालग्रन्थीन् आशु छित्वा सिंहं अमोचयत्।
नीतिः– प्रभूणामल्पैरपि प्रयोजनमस्त्येव॥
कश्चित् अरण्यमार्जारः जम्बुकश्च वने प्रच्छायशीतले शिलातले उपविश्य गोष्ठीसुखमन्वभवताम्। तदा शृगालः अलपत्- “भो, मार्जार, अत्रस्थानस्मान् महत् व्यसनं उपतिषेत् यदि, तर्हि अहं आत्मानं सहस्रप्रकारैः रक्षेयम्। परन्तु तवार्थे अहमतीव क्लिश्ये”। इति। ओतुः तदा वदति स्म- “सखे एकां युक्तिं अहं दृढं बोधामि। सा निष्फला चेत् दुर्गतिं गच्छेयम्।” इति। जम्बुकः अभणत्- “एवं चेत्, मन्दभाग्यस्य तव कृते मम चिन्ता बलवती एव। एकां द्वे वा युक्ती त्वां शिक्षयामि। परन्तु नायं कालः उपदेशस्य। स्वार्थः एव इदानीं अनुष्ठातव्यः। बाढम्। नमो नमस्ते। साधयामि तावदहम्”। इति। एतावदुक्त्वा सः प्रचलितः। अस्मिन्नेव अन्तरे भषकैः अनु,ताः व्याधाः तस्य अनुपदमेव प्राप्ताः। तदा वृक्षारोहणरूपा एकैव या युक्तिः बिडालस्य ज्ञाता तामाश्रित्य आत्मा तेन रक्षितः। जम्बुकस्य तु सहस्राणां युक्तीनां एकापि उपयुक्ता नासीत्। तस्मिन् सृगाले चत्वारि पञ्च वा पदानि सदुःखं याते सति, अनधावन्तः श्वानाः तं पराजयन्तेस्म।
नीतिः– “अन्यतः अधिकं मे प्रज्ञाबलमस्ती”ति यः विकत्थते सः प्रायः स्वयं मूर्खः भवति।
कश्चित् अश्वः एकः सारङ्गश्च एकस्मिन् केदारे चरतः। एवं स्थिते, कदाचित् तौ कलहपरौ आस्ताम्। सः सारङ्गः शृङ्गबलेन तं तुरगं मालात् बहिः निरवासयत्। ततः सारङ्गं विनेतुमनाः सः तुरङ्गमः कंचित् मनुष्यं आसाद्य तत् साहाय्यं अयाचत। सः मनुजः तस्य पृष्ठे पर्याणमारोप्य मुखे खलीनं दत्त्वा तमारोहत्। गतिपरिक्षाविधौ सः तं कशयाप्यताडयत्। घोटकेन सर्वमेतत् सोढम्। तस्य साहाय्येन सः कुरङ्गं अजयत् च। पश्चात् सः तं मनुजं अभाषत- “भो मनज, बलवत् उपकृतः अस्मि। सिद्धं मे समीहितम्। पर्याणखलीने अपनीय मां गमनाय अनुज्ञातुमर्हसि।” इति। एतत् निशम्य मनुजः तं प्रत्यभणत्- “भोः तुरग, तव एतावान् उपयोगः इति न मे ज्ञातम्। इदानीं दूरत एव ते बन्धनात् मुक्तिः।” इति।
नीतिः– एकं विनेतुम् अन्यं कश्चित् शरणं गच्छति चेत् तदा सः दृढं विविच्य तत् कुर्यात्॥
मधुरायां कश्चित् विप्रः आसीत्। तस्य द्वे भार्ये अवर्तेताम्। तयोः आद्या कंचन सुतं प्रसूतवती। तस्य सूनोः सप्तमः मासः सम्पूर्णः। तदा सः विप्रः तं बालम् आदाय पत्नीभ्यां सह काशईं प्रति प्रस्थितः। दैवदुर्विपाकात् सः द्विजः मार्गमध्ये पञ्चत्वं गतः। ततः ते भार्ये बालेन साकं एकं अग्रहारं प्रविश्य तत्र तं कुमारं समानीय प्रीत्या पोषयन्त्यौ आस्ताम्। कदाचित् दौर्भाग्यवशात् तयोः तं अर्भकं अधिकृत्य परस्परं विवादः समजायत। तदा द्वितीया भार्या, “अयं बालः मम प्रसूतः” इति उक्त्वा तेन बालेन समं गन्तुं प्रारभत। तद् दृष्ट्वा प्रथमा तु “मदीयं सूनुं मा स्पृश।” इति तं न्यवारयत्। एवं विववदमाने ते प्राड्विवाकस्य सन्निधिं अगचछताम्। प्राड्विवाकोऽपि तयोः कलहं आकर्ण्य “तं बालं द्वेधा विदार्य अमूभ्यां द्वाभ्यां प्रयच्छ” इति निजं सेकं समाज्ञापयत्। तदा ज्यायसी भार्या तं प्राड्विवाकं सविनयं एवं विज्ञापयति स्म- “स्वामिन् एषः तस्याः एव कुमारः। मा तं विदारितं कुरु। तस्यै तं दापय।” इति। तां करुणां विज्ञापनां श्रुत्वा प्राड्विवाकोऽपि “अहो, इयमेव एतस्य बालस्य जननी। तत एव एषा दीनं प्रलपति”। इति निश्चितं तं बालं तस्यै अदापयत्।
नीतिः– माता सर्वथा वात्सल्यं दर्शयति॥
--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.
कश्चित् कुक्कुरः तारुण्ये मृगयायां सेवादक्षो भूत्वा स्वामिनं बहु अतोषयत्। तदा स्वामी अपि तं सादरं चुम्बति स्म। तं संवाहयति स्म। स्वादु खाद्यं च यच्छति स्म। गताचित् कासुचित् समासु , जीर्णः तं यथापूर्वं सेवितुं शक्तः नासीत्। एवं स्थितेऽपि एकदा स्वामिनं मृगयादरेण अनुसरन् तत्कालागतानां मृगदंशकानां अग्रेसरः भूत्वा मृगमेकं पदे अधर्षत्। परं दन्तानां विरलत्वात् स्खलितशिष्टानां दन्तानां चलत्वाच्च तं मृगं दृढं गृहीतुं न शक्तः। अत्रान्तरे मृगः स्वमोचनाय यतित्वा पलायत। तद् दृष्ट्वा तस्य स्वामी क्रुधा रक्तापाङ्गः लगुडमुद्यम्य तं प्रहर्तुं अभ्यसरत्। तं रमेयः अभाषत- “रे अधम, क्षणं तावत् उद्यतं लगुडं प्रतिसंहर। अहं तव चिरन्तनं भृत्यः इति बुध्यस्व। मृगः गतश्चेत् नायं मम दोषः। मया नोपेक्षितं तस्य ग्रहणे यथाशक्ति यतितम्। परं यत्र मे नास्ति उपायः तत्र किमहं कुर्याम्? इदानीं वृद्धः अहं पूर्ववत् सेवितुं असमर्थः। यदि एषः ते क्रोधहेतुः तर्हि पूर्वसेवां स्मृत्वा तं कोपं अपनय।” इति।
49.कदर्यस्य कथा
कश्चित् मितंपचः बहुधनं सञ्चित्य श्वभ्रे न्यखनत्। सः तमुद्देशं एकवारं वा द्विवारं वा दिने अश्रान्तं गत्वा निखातद्रव्यां तां गर्तां दृष्ट्वा ह्लादते स्म। तत् तस्य कृत्यं तस्य दासेरः विलोक्य शङ्कते स्म- “अयं मम स्वामी इमं देशं आगत्य अविरतं पश्यति। तस्मात् कोऽपि विशेषः अत्र विद्यते” इति। अथ सः क्षणदायां तत्र गत्वा खनित्वा अपश्यत्। तदानीं निधिमधिगम्य तं गृहीत्वा अपाक्रामत्। उत्तरेद्युः सः किम्पचानः, नित्यक्रमेणागत्य यदा पश्यति तदा निधिः तत्र न दृष्टः। एवं निधिनाशे प्राप्ते स रजोरूषितमूर्धजः सोरस्ताडनं ‘कष्टं हा हन्त’ इति मुक्तकण्ठं आक्रन्दत्। गृहात् न न्यवर्तत। अन्ते तस्य प्रातिवेश्यः, तमुपेत्य शोकहेतुं अपृच्छत्। क्षुद्रः तस्मै प्रवृत्तिं आख्यातवान्। तत्श्रुत्वाप्रातिवेशिकःतं व्याहरत्- “भद्र, न किमपि ते नष्टं इति अवगच्छामि। मम द्रव्यनाशः समुत्पन्न इति चित्ते मा कुरु। यथापूर्वं चैनं अवटं अनिशं प्रेक्षस्व। एवं अनुष्ठिते सिद्धं ते समीहितम्।” इति।
नीतिः– ये कृपणाः ते सत्यपि धने दरिद्रा एव। यतः तैः तत् नोपभुज्यते॥
कश्चित् कोकिलः कदाचित् उत्सेधवन्तं चूतवृक्षमधिष्ठाय सुस्वरं कूजति स्म। तस्य कूजनेन सा अटवी निबद्धप्रतिशब्दा आसीत्। तदा बुभुक्षापीडितः कश्चन श्येनः नातिदूरे परिभ्रमन्नासीत्। सः तस्य परभृतस्य मधुरं स्वनेन कृष्टः सन् सत्वरमागत्य सरभसं तमाक्रम्य खरनखैः तमकृषत्। यावच्च सः तं जिघत्सति तावत् सः पिकः तं श्येनं करुणं अवदत्- “भोः मयि दयस्व। नेदं निष्ठुरं कर्म तवोचितम्। पश्य। नाहमागस्कृत्। भक्षितेन मया ते ग्रासोऽपि न भविता। तर्हि कमप्यन्यं महाकायं विहंगमं संहर। एवं कृते यशो लभसे; उदरपूर्तिश्च ते भविष्यति। मुञ्च मां तावदनाथं” इति। श्येनः तं प्रतिभाषते स्म- “आम्, ज्ञायते। अवितथं वदति भवान्। भाषस्व त्वं येन कण्ठशोषं त्वमयसे। परं अहं त्वां न मुञ्चेयम्। पश्य। अहं प्रभातमारभ्य निरशनेन म्रिये। त्वं च दिष्ट्या मम हस्ते पतितः। ‘मां उत्सृज अन्यं स्थूलकायं अण्डजं हिंस’ इति त्वं भणसि।यदि त्वयोक्तं अनुष्ठितं तर्हिमूढशब्दभाक् को भवेत्। त्वमेवालोचय”।
गर्वितः कश्चन काकः “आत्मीयाः नीचाः समागमानहान् च” इति अमन्यत; महत् पदं प्राप्तुं च अभ्यलषत्। तदर्थं स कानिचित् मयूरपिञ्छानि समापादयत्। तानि च स्वपक्षे समारोप्य मयूरबृन्दं अविशत्। बर्हिणस्तु तं वीक्ष्य “अयं काकः” इति ज्ञात्वा तं समन्ततः पर्यवारयन्। प्रथमं ते तं चञ्चुप्रहारैः जर्जरीकृत्य तानि पिञ्छानि अपहृत्य स्वबृन्दात् तं निरवासयन्। ईदृशीं कष्टां दशां अनुभूय सः काकः परं निर्वेदमापन्नः। ततः सः स्वबृन्दं प्रवेष्टुकामः आसीत्। काकास्तु तं न स्वीकुर्वन्ति स्म। तदानीं एकः काकः तं धिक्कुर्वन् अवदत- “रे मूढ, यस्यां जातौ भगवान् त्वां असृजत्, तां त्वं यदि न परित्यजेः तर्हि ईदृशमपमानं लभेथाः किं?” इति।
नीतिः– स्वजातिहीनां मत्वापरस्य महत्तवमभिलिप्.रेवं विपदः भाजनं भवति।लुब्धको जम्बुकं दृष्ट्वा तस्यान्तिकमभिद्रुतः।
इतिकर्तव्यतामूढः क्रोष्टा व्यामोहमव्रजत्॥
शते युक्तिषु का योज्या कतमा श्रेयसी भवेत्।
किं नु धावामि किं युध्ये जङ्गम्ये किमुत्प्लवे॥
किं शये मृतवद्भूमौ किं नु वृक्षं समाश्रये।
इत्थं विकल्पयन् क्रोष्टा तस्थौ तत्रैव मोहितः॥
लुब्धको द्रुतमभ्येत्य धनुषाहत्य जम्बुकम्।
गृहीत्वा हर्षभरितो न्यवर्तत गृहं प्रति॥
----------------------
अत्र विद्यानामाधिक्यं जम्बुकस्य व्यसने कारणमिति लेखकेन निष्कर्षया यल्लिखितं तत् असाधु इति मन्ये। अधिकाः विद्याः, अधिकं ज्ञानं वा प्रमादाय -- इति लोके उच्यते। तन्मया श्रुतपूर्वम्। नैषो निष्कर्षः साधु। का विद्या अत्र सन्दर्भे प्रयोक्तव्या --इत्येव निश्चेतुं नापारयत् जम्बुकः। या कापि विद्या प्रयोक्तव्या स्यात् तेन वराकेन। निश्चये दोषः विद्याज्ञानोपरि कथं कुतः आरोप्यते अत्र? लोके पण्डितानपि जनाः अनयैव उक्त्या परिहसन्ति। तदसाधु। बिडालस्य एका विद्या तस्य तत्सन्दर्भे उपयोगाय कल्पिता इति कारणेन स महानिति, जम्बुकस्य विद्याः सर्वा अपि तस्य साहाय्यं नाकुर्वन्निति सः मूर्खः -- इति च निश्चयः न विवेकयुक्तः। अधिकानां विद्यानां ज्ञानं समीचीनमेव। किन्तु कुत्र का विद्या प्रयोक्तव्या इति ज्ञानमपि आवश्यकमिति निष्कर्षः अत्र साधु दृश्यते।
कस्यांचित् पुरि काचन जरती न्यवसत्। तस्याः समीपे एकः कुक्कुटः एका हसन्तिका च आस्ताम्। यदा स कुक्कुटः कूजति तदा पौराः समागत्य पाकार्थं तस्याः हसन्तिकायाः अङ्गारं नयन्ति। एवं स्थिते कदाचित् सा स्थविरा एवं समालोचयत्- “अस्मिन् नगरे मम कुक्कुटस्य कूजनात् एव प्रभातं जायते। मम हसन्तिकयैव पौराणां पाकः भवति। एतयोः अभावे कथं वा पौराः जीवेयुः? सर्वथा ते नश्येयुः।” इति। इत्थं समालोच्य सा जरठा तौ आदाय दूरं अरण्यं अगच्छत्। परेद्युः तत्र आगतं एकं पौरं आलोक्य सा तमेवं अपृच्छत्- “अये मम कुक्कुटस्य अभावेऽपि युष्माकं प्रातःकालः ह्यः आसीत् किम्? मम हसन्तिकायां अत्र स्थितायामपि वः पाकः जातः किम्?” इति। स पौरः तस्याः अभिप्रायं ज्ञात्वा तां एवं प्रत्यभाषत- “अयि वृद्धे किं एवं मुह्यसि? ईश्वरे सर्वेषां रक्षके सति का वराकी त्वम्? गृहं गच्छ।” कुतः त्वं वने खिद्यसे” इति। ततः सा पुरं प्रत्यगच्छत्। तत्र सर्वान् यथापुरं अवस्थितान् आलोक्य आत्मनः अहङ्कारं सा अत्यजत्।
नीतिः– “मया एवं क्रियते” इति केनापि अहङ्कारः न कर्तव्यः।
कश्चित् विश्लथसर्वगात्रः स्थविरः इंधनानि आनेतुं वनं गतः. तत्र दारुखंडानि संचित्य बद्ध्वा तानि एकं भारं अकरोत्. तं काष्टभारं शिरसि कृत्वा आयासेन पदानिमंदं मंदं निक्षपन् गृहं प्रति निवर्तमान आसीत्. अध्वनः विप्रकृष्टत्वात् इध्मानां अतिगुरुत्वाच्च स आश्राम्यत्. आतः तं काष्टभारं शीर्षा दवतार्य सः श्रमपरिहारार्थं भूमौन्यषीदत्. तस्मन अवसरे सः अंतकं संबोध्य अवदत् “रे चेतनमात्रस्य विश्रामक आगच्छ. मां एभ्यः अखिलेभ्यः दुःखेभ्यः मोचय” इति. एतत् श्रुत्वा वैवस्वतः तस्य जीर्णस्य पुरः आविर्भूय अपृच्छत् “तात किमिति अहं त्वया स्मृतः? इति. सः जरठः नाबुध्यत यत् परेतरा डेवं नेदीयन अस्तीति. त्तः सः जीनः तस्य शमलस्य उग्रं रूपं विलोक्यैव नष्टसंज्ञ समजायत. ततः कतिपयैः पलैः लब्धसंज्ञः भूत्व वेपमानगात्रयष्टिः सन प्रतिवचनं यच्छतिस्म “भो धर्मराज अशक्तः अहं. मम मस्तकस्धतः अयं काष्टभारं सहसा भूमिं आपन्नः तं उद्धृत्यपुनः उत्तमंगस्धतं करिष्यसीति मया भवन् स्मृतः. ननु इयदेव कार्यं. अनेन खलु अवज्ञातऋ अस्मि” इचि. अत्रभवन् यदि जातैमर्षः तदा भवतः पादयोः प्रणिपतामि. क्षमेव मां. कृपालुः भूत्वा यथागतं प्रतिनिवर्तस्व”
नीतिः– “क्षुदेष्वपि व्यसनेषु वरं निधनं अस्मात्” इति जनाः व्याहरंति. अभ्युपपन्ने तु मृत्यौ न कोपी त मनुसर्तु मिच्छतिः
यवनदेशे अतिलुब्धः महालुब्धश्च इति द्वौपुरुषौआस्ताम्। अतिलुब्धः परस्य अन्नेनैव जीवतिस्म। सः जातु महालुब्धस्य गृहं भोजनार्थं अगच्छत्। महालुब्धस्तु आगतं अतिथिं मधुरैः वचनैः संल्लप्य शुष्कैरेवोपचारैः अप्रीणयत्। ततः सः महालुब्धेन सहविपणिं गत्वा--“आपि समीचीनाः अपूपाः सन्ति?” इति अपृच्छत्। ततः स आपणिकः प्रत्यवदत्--“स्वामिन् , नवनीतवत्, मृदुलाः आपूपाः सन्ति।” इति। तत् श्रुत्वा महालुब्धः अतिथिमेवं अभाषत--“भोः अतिथे, नवनीतमेववरं दृश्यते तर्हि तदेव गृहयताम्” इति। अथ नवनीतस्य निषद्यां आसाद्य महालुब्धः--“भोः श्रेष्ठिन्, समीचीनं नवनीतमस्ति किम्?”इति पृच्छतिस्म। सः वणिगपि-- “आर्य, तैलवत् सस्नेहं नवनीतं वर्तते।” इति भणतिस्म। तदाकर्ण्य सः महालुब्धः अतिथिना साकं तैलस्य आपणं गत्वा--“भोः श्रेष्ठिन्, अपि तव निकटे तैलमस्ति?” इत्यपृच्छत्। सोऽपि श्रेष्ठी, “स्वामिन्, जलमिव स्वच्छं तैलं मन्निकटे आस्ति।” इति उत्तरं दत्तवान्।ततः सः महालुब्धः-- “आतिथे, तर्हि जलमेव सर्वेषु उत्तमं दृश्यते।” इत्युक्वा आतिथिना समं गृहं प्रत्यागच्छत्। तत्र आगत्य सः महालुब्धः--“आतिथे, इदमेव सर्वोत्तमम्।तस्मत् एतत् स्वीकर्तुमर्हसि।” इति निगद्य जलमेव तस्मै आतिलुब्धाय प्रयच्छतिस्म॥
नीतिः–कृपणाः येनकेनाप्युपायेन लाभस्य मार्गमेव चिन्तयन्ति॥