यदि-तर्हि

20 views
Skip to first unread message

Sivakumari Katuri

unread,
Oct 17, 2015, 11:39:13 AM10/17/15
to संस्कृते संवदेम
'यदि कक्ष्या अस्ति चेत् आगच्छामि' इति प्रयोक्तव्यम् उत 'यदि कक्ष्या अस्ति तर्हि आगच्छामि' इति प्रयोक्तव्यम्.
यदि, चेत् द्वयोरर्थः समानः "पक्षान्तरे चेद्यदि च" (३-४-१२) इति अमरकोषकारवचनात्. तेन यदिचेतोः एकस्मिन् वाक्ये प्रयोगः उक्तार्थस्यैव कथनम्, तस्मात् पुनरुक्तिदोषोपि. अतः यदि प्रयोगे तर्हिप्रयोगः कर्तव्यः न तु चेतः.
यथा यदि कक्ष्या अस्ति तर्हि आगच्छामि इति,
एवमेव चेत्-तर्ह्योः प्रयोगोपि युज्यते, यथा चेत् कक्ष्या अस्ति तर्हि आगच्छामि,
अथवा
कक्ष्या अस्ति यदि आगच्छामि इत्यपि शक्यते प्रयोक्तुम्.
कक्ष्या अस्ति चेत् आगच्छामि इत्यपि साधु.
धन्यवादाः.

Usha Sanka

unread,
Oct 17, 2015, 2:13:59 PM10/17/15
to samskrte-...@googlegroups.com
साधु प्रतिपादितं शिवे.. 
बहुक्लेशेनेदानीं ममासाध्वभ्यासः-- यदि-चेतोः सपदि प्रयोगः, तर्हि-अर्थे यदि-प्रयोगश्च -- अपाकरोमि।


--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.



--
"-यद्गत्वा न निवर्तन्ते तद्धाम परमं मम"
Reply all
Reply to author
Forward
0 new messages