सुभाषितम् - तत्कर्म यन्न बन्धाय

457 views
Skip to first unread message

Usha

unread,
Feb 16, 2014, 9:03:15 AM2/16/14
to samskrte-...@googlegroups.com

सुभाषितम्

मूलम्-

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।

आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥1-19-41

पदविभागः-

तत् कर्म यत् न बन्धाय, सा विद्या या विमुक्तये। आयासाय अपरं कर्म विद्या अन्या शिल्पनैपुणम्॥

अन्वयः -
यत् न बन्धाय (भवति) तत् (एव) कर्म। या विमुक्तये (नयति) सा विद्या। अपरं कर्म आयासाय (भवति)। अन्या विद्या शिल्पनैपुणम् (मात्रम् भवति)।

प्रतिपदार्थः-

यत् न बन्धाय (भवति) -यत् (पाप-पुण्यादिना) न बध्नाति, स्वतन्त्रं न हरति

तत् (एव) कर्म -तदेव कार्यं

या विमुक्तये (नयति) -या मुक्तिं प्रापयति

सा विद्या -तत् ज्ञानं

अपरं कर्म -अन्यत् कर्म

आयासाय (भवति) -श्रान्तये

अन्या विद्या -अन्यत् ज्ञानं

शिल्पनैपुणम् (मात्रम् भवति) -केवलक्रियाकौशल्यम्

यत् कर्म पाप-पुण्यादिना न बध्नाति तदेव कर्म अवितथं कर्म भवति। अन्यत् कर्म श्रममात्रम् भवति। या मुक्तिमार्गे नयति, सा विद्या अन्वर्था विद्या भवति। अन्य् सर्वं  केवलक्रियाकौशल्यम् भवति।

Sivakumari Katuri

unread,
Mar 5, 2014, 6:23:54 AM3/5/14
to samskrte-...@googlegroups.com
1.  यन्न अस्य शब्दस्य विभागः कथं कार्यः ?
2. अायासायापरं कर्म अत्र कः सन्धिर्वर्तते ?
अ) पररूपसन्धिः  आ) पूर्वरूपसन्धिः  इ) सवर्णदीर्घसन्धिः
3. तत्कर्म ----- बन्धाय
4.
सा विद्या या ------
5. विद्यान्या अस्य विभागः एवं कार्यः ?
अ) विद्य् आन्या  आ) विद्या अन्या  इ) विद्य अन्या


--
You received this message because you are subscribed to the Google Groups "Samskrte Samvadema" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/groups/opt_out.



--
सर्वे भद्राणि पश्यन्तु।
Reply all
Reply to author
Forward
0 new messages