Background to this series is here: https://groups.google.com/d/msg/samskrita/lvoqdjzN5cU/PCobaoocBQAJ
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥
सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति । तस्मात् तत् एव वक्तव्यम् । वचने का दरिद्रता ?
सर्वे जन्तवः = सर्वे प्राणिनः
प्रियवाक्यप्रदानेन = प्रियकथनेन
तुष्यन्ति = आनन्दन्ति, सन्तुष्टाः भवन्ति
तस्मात् = ततः
तत् एव = प्रियवाक्यम् एव
वक्तव्यम् = कथनीयम्
वचने का दरिद्रता ? = वचने दरिद्रता नास्ति ।
दरिद्रता = निर्धनता
यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति । ततः प्रियवाक्यानि कथनीयानि । वक्तुं धनं नावश्यकम् ।
सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वे प्राणिनः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वे मनुष्याः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वे पक्षिणः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वे बालकाः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वे पुरुषाः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वाः बालिकाः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वाः महिलाः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वाः भार्याः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वाणि मित्राणि प्रियवाक्यप्रदानेन तुष्यन्ति ।
जन्तुः प्रियवाक्यप्रदानेन तुष्यति ।
प्राणी प्रियवाक्यप्रदानेन तुष्यति ।
मनुष्यः प्रियवाक्यप्रदानेन तुष्यति ।
पक्षी प्रियवाक्यप्रदानेन तुष्यति ।
बालकः प्रियवाक्यप्रदानेन तुष्यति ।
पुरुषः प्रियवाक्यप्रदानेन तुष्यति ।
बालिका प्रियवाक्यप्रदानेन तुष्यति ।
महिला प्रियवाक्यप्रदानेन तुष्यति ।
भार्या प्रियवाक्यप्रदानेन तुष्यति ।
मित्रं प्रियवाक्यप्रदानेन तुष्यति ।
सर्वे जन्तवः केन तुष्यन्ति ?
सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।
सर्वे जन्तवः प्रियवाक्यस्य प्रदानेन तुष्यन्ति ।
भक्ताः केन तुष्यन्ति ?
भक्ताः देवदर्शनेन तुष्यन्ति ।
प्रियवाक्यं वक्तव्यम् ।
प्रियवाक्यानि वक्तव्यानि ।
कथा वक्तव्या ।
कथाः वक्तव्याः ।
सङ्गीतं श्रोतव्यम् ।
नृत्यं द्रष्टव्यम् ।
श्लोकः पठितव्यः ।
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.
On 4 June 2017, at 11:13, Subrahmanian R <subrah...@gmail.com> wrote:
>
>
>प्राणी प्रियवाक्यप्रदानेन तुष्यति । in the text in your first mail. Is the dirgha in prani correct?
>
The word is प्राणिन् नकारान्तः! प्राणी is in प्रथमैकवचनान्त form.
--
जना: केन तुष्यन्ति ?
जना: दूरदर्शनेन तुष्यन्ति ।
यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।
एतत् वाक्यं बहुवचने कथं लेखनीयम् ?
--
यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।
एतत् वाक्यं बहुवचने कथं लेखनीयम् ?
--
*प्रियो भवति दानेन प्रियवादेन चापर:।**मन्त्रमूलबलेनान्यो य: प्रिय: प्रिय एव स ॥*
--
यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।एतद्वाक्यं द्विवचने यौ प्रियवाक्यं शृणोत: तौ सन्तुष्टौ भवत: |साधु वा ?
What is the font ji, I am not able to get it in gmail samskritam input tools..
--
--
You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/81DwIPDaJtE/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+unsubscribe@googlegroups.com.
प्रियो भवति दानेन प्रियवादेन चापर:।मन्त्रमूलबलेनान्यो य: प्रिय: प्रिय एव स ॥मनुष्य: दानेन, प्रियवचनेन, मन्त्रमूलबलेन प्रियो भवति | परन्तु य: स्वाभाविकेन प्रिय:, स: सदा प्रिय: एव |दानेन = दानं करणेन
प्रियवादेन = प्रिय वचनेन ( प्रिय: भवति)
मन्त्रमूलबलेन = मन्त्र: औषध: बलेन ( प्रिय: भवति)
य: स्वाभाविकेन प्रिय:, स: सदा प्रिय: एव | तत: स्वभाव: प्रियं भवनीयम् |
गुरु: सेवया प्रियो भवति |गुरू सेवाभ्याम् प्रियो भवत:|गुरव: सेवाभि: प्रियो भवन्ति |
भार्या अप्रियवचनेन प्रिय: न भवति |भार्या प्रियवचनेन सह प्रियो भवति |भार्या प्रियवचनेन विना प्रिय: न भवति |
प्रियवचना: वदनीया: |
प्रियवचनं वदनीयम् |
मन्त्रवादी मन्त्रबलेन वञ्चयति |श्वान: प्रियं प्रदर्शयति |
स्वभाव: प्रियं भवनीयम् |
प्राणी / प्राणिनः / देवी / देव्यः / स्वामी / स्वामिनः / नदी / नद्यः …?
____________ भक्त्या तुष्यन्ति ।
____________ वेगेन वहन्ति ।
____________ भारं वहति ।
____________ शिष्यम् अनुगृह्णाति ।
____________ शिष्यम् अनुगृह्णन्ति ।
____________ लोकं पाति ।
____________ लोकं रक्षन्ति ।
____________ आशीर्वचनेन अनुगृह्णन्ति ।
____________ वृक्षान् पातयन्ति ।
____________ सेवकैः सेविताः ।
____________ सेवकैः सेवितः ।
दोषाः परिष्करणीयाः ।
भक्तः देवं वन्दनं करोति ।
भक्तः देवं नमस्करोति ।
माता प्रिय कथां श्रावयति ।
बालकाः कथां श्रुण्वन्ति ।
सर्वाः प्राणिनः तुष्यन्ति ।
सर्वाः प्रजाः तुष्यन्ति ।
सर्वाः जनाः तुष्यन्ति ।
सर्वाः देवाः तुष्यन्ति ।
सर्वाः देवताः तुष्यन्ति ।
--
Naresh
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
>
>
>विचारयन्नस्मि
>
>यदि "का दरिद्रता" इत्येव प्रश्नः किमुत्तरं तस्य ?
वचने का दरिद्रता? इत्येव प्रश्नः सुभाषिते! न कैवलं "का दरिद्रता" इत्येव, न वा तस्योत्तरमुद्दिष्टं सुभाषिते!
>दातुं न शक्नोति सा दरिद्रता वा दातुं नेच्छति सा दरिद्रता ?आपटे-महाभागानां शब्दकोशे "दरिद्रा" इति धातुः प्रस्तुतः | ततः दरिद्रा-धातुतः भाववाचकं नाम दरिद्रता | "दारिद्र्यम्" इत्यपि भाववाचकं नाम तस्मादेव धातुतः | को भेदो दरिद्रता-दारिद्र्यं-शब्दयोः ? व्युत्पत्तिभेदस्त्वस्त्येव अर्थभेदोऽप्यस्ति | कथं स्पष्टीकर्तव्यौ द्वावपि ?
दरिद्रा-धातोः अच्प्रत्यये, दरिद्रातीति दरिद्रः इति दरिद्रशब्दः निष्पन्नः! दरिद्रस्य भावः दरिद्रता, दारिद्र्यम् इति द्वावपि दरिद्रशब्दस्य भाववचनौ शब्दौ इति व्युत्पत्तिभेदो नास्त्येव, अर्थभेदोऽपि नास्ति! "तस्य भावस्त्व-तलौ" तल् प्रत्यये दरिद्रता, "गुणवचनब्राह्मणादिभ्यः ष्यञ् च" इति ष्यञप्रत्यये दारिद्र्यम्! अर्थे भेदो नास्ति, दरिद्रस्य भावः इत्येवार्थः!
>अपि शक्यं मन्तुं "दरिद्रा"-धातोरपि अस्ति व्युत्पत्तिः "दरित् एवं राति = दरिद्राति" इति ? आपटे-महाभागानां शब्दकोशे दरिद्रा-धातुः अदादिः परस्मैपदी च विवृतः | रा-धातुरपि अदादिः परस्मैपदी एव |
दरिद्रशब्दादेव व्युत्पत्तौ, किं प्रयोजनं तादृशव्युत्पत्तेः? कोर्थः सुभाषिते?
>दृश्यते सुभाषिते "वचने का दरिद्रता" इत्यत्र का-शब्दः "किमर्थम्" इत्यर्थेन प्रयुक्तोऽस्ति |
किमर्थम्-इत्यर्थे "वचने किं दरिद्रता" एवमपि सुभाषितस्य पाठभेदोऽस्ति प्रायः |
विचित्रं व्याख्यानम्! "वचने किं दरिद्रता" इत्यस्य वचने दरिद्रता किमस्तीति स एवार्थः, पाठभेदेपि नार्थभेदः!
On 11 June 2017, at 13:56, hnbhat <hnbh...@gmail.com> wrote:
>दरिद्रा-धातोः अच्प्रत्यये, दरिद्रातीति दरिद्रः इति दरिद्रशब्दः निष्पन्नः! दरिद्रस्य भावः दरिद्रता, दारिद्र्यम् इति द्वावपि दरिद्रशब्दस्य भाववचनौ शब्दौ इति व्युत्पत्तिभेदो नास्त्येव, अर्थभेदोऽपि नास्ति! "तस्य भावस्त्व-तलौ" तल् प्रत्यये दरिद्रता, "गुणवचनब्राह्मणादिभ्यः ष्यञ् च" इति ष्यञप्रत्यये दारिद्र्यम्! अर्थे भेदो नास्ति, दरिद्रस्य भावः इत्येवार्थः!"
दरिद्रा-धातोः कप्रत्यये दरिद्रशब्दः दरिद्रातीति!
दरिद्रः = दुर्ग्गते निःस्वे इत्यमरः! “दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः” इति भागवतम् ।
"वर्णदृढादिभ्यः ष्यञ्च" इति भावे दृढादिभ्यः ष्यञ्, चात् त्वतलौ! दरिद्रस्य भावः दरिद्रता, दारिद्र्यम्!
प्राणी / प्राणिनः / देवी / देव्यः / स्वामी / स्वामिनः / नदी / नद्यः …?
देव्यः भक्त्या तुष्यन्ति ।
नद्यः वेगेन वहन्ति ।
प्राणी भारं वहति ।
देवी शिष्यम् अनुगृह्णाति । Here first I wrote स्वामी but was marked wrong in the form.
देव्यः शिष्यम् अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.
देवी लोकं पाति ।
देव्यः लोकं रक्षन्ति ।
देव्यःआशीर्वचनेन अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.
प्राणिनः वृक्षान् पातयन्ति ।
स्वामिनः सेवकैः सेविताः ।
स्वामी सेवकैः सेवितः ।
दोषाः परिष्करणीयाः ।
भक्तः देवं वन्दते ।
भक्तः देवं नमति /नमते ।
माता प्रिय कथां वदति । मात्रा प्रिय कथां श्रावयति |
बालकाः कथां शृण्वन्ति ।
प्राणी / प्राणिनः / देवी / देव्यः / स्वामी / स्वामिनः / नदी / नद्यः …?
देवी शिष्यम् अनुगृह्णाति । Here first I wrote स्वामी but was marked wrong in the form.
देव्यः शिष्यम् अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.
देव्यःआशीर्वचनेन अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.
भक्तः देवं वन्दते ।
भक्तः देवं नमति /नमते ।
माता प्रिय कथां वदति । मात्रा प्रिय कथां श्रावयति |
सर्वे प्रजाः तुष्यन्ति ।
सर्वे देवताः तुष्यन्ति ।
सर्वाणि भद्राणि - Is it wrong?
Then why is it told सर्वे भद्राणि पश्यन्तु..?
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।३.४२।।
*🌷पदार्थः...... 🌷*
इन्द्रियाणि — नेत्रादीनिपराणि — उत्कृष्टानिआहुः — कथयन्तिइन्द्रियेभ्यः — नेत्रादिभ्यःपरम् — उत्कृष्टम्मनः तु — चित्तं पुनःमनसः — चित्तात्परा — उत्कृष्टाबुद्धिः — धीःयः बुद्धेः तु = यः धियः तुपरतः — उत्कृष्टः वर्ततेसः — सः आत्मा।
*🌻अन्वयः 🌻*
इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति।
*🐚आकाङ्क्षाः🐚*
_आहुः।_कानि आहुः?*इन्द्रियाणि आहुः।*इन्द्रियाणि कीदृशानि आहुः?*इन्द्रियाणि पराणि आहुः।*इन्द्रियाणि पराणि आहुः। पुनश्च किं परम्?*इन्द्रियाणि पराणि आहुः। मनः परम्।*इन्द्रियाणि पराणि आहुः। केभ्यः मनः परम्?*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्।*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्। पुनश्च का परा?*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, बुद्धिः परा।*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, कस्मात् बुद्धिः परा?*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा।*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, पुनश्च परतः कः?*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, परतः सः।*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्,मनसस्तु बुद्धिः परा,कस्याः परतः सः?*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, बुद्धेः परतः सः।*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, यः बुद्धेः परतः सः कः?*इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, यः बुद्धेः परतः सः (आत्मा)।*
*📢 तात्पर्यम्......*
इन्द्रियाणि उत्कृष्टानि वदन्ति। इन्द्रियेभ्यः मनः उत्कृष्टम्, मनसः बुद्धिः उत्कृष्टा, बुद्धेः अपेक्षया आत्मा उत्कृष्टः वर्तते।
*🌻व्याकरणम्.......*
▶सन्धिःपराण्याहुः = पराणि + आहुः - यण्सन्धिः।आहुरिन्द्रियेभ्यः = आहुः + इन्द्रियेभ्यः - विसर्गसन्धिः (रेफः)।बुद्धिर्यो बुद्धेः = बुद्धिः + यः - विसर्गसन्धिः (रेफः)# यः बुद्धेः = विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः।मनसस्तु = मनसः + तु - विसर्गसन्धिः (सकारः)।परतस्तु = परतः + तु - विसर्गसन्धिः (सकारः)।▶ तद्धितान्तःपरतः = परः + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः)
🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹
*गीताप्रवेशात्*
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।एतैर्विमोहत्येष ज्ञानमावृत्य देहिनम्।। ३-४०।।
*🌷पदार्थः...... 🌷*
इन्द्रियाणि — नेत्रादीनि
मनः — चित्तम्बुद्धिश्च — धीः चअस्य — एतस्य कामस्यअधिष्ठानम् — आश्रयःउच्यते — कथ्यतेएषः — एषः कामःएतैः — एभिःज्ञानम् — ज्ञानम्आवृत्य — आच्छाद्यदेहिनम् — शरीरिणम्विमोहयति — विविधं मोहयति।
*🌻अन्वयः 🌻*
इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते। एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।
*🐚आकाङ्क्षाः🐚*
_उच्यते।_किम् उच्यते?*अधिष्ठानम् उच्यते।*कस्य अधिष्ठानम् उच्यते?*अस्य अधिष्ठानम् उच्यते।*कानि च अस्य अधिष्ठानम् उच्यते?*इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते।*_विमोहयति।_कं विमोहयति?*देहिनं विमोहयति।*किं कृत्वा देहिनं विमोहयति?*आवृत्य देहिनं विमोहयति।*किम् आवृत्य देहिनं विमोहयति?*ज्ञानम् आवृत्य देहिनं विमोहयति।*कैः ज्ञानम् आवृत्य देहिनं विमोहयति?*एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।*कः एतैः ज्ञानम् आवृत्य देहिनं विमोहयति?*एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।*
*📢 तात्पर्यम्......*
पञ्चेन्द्रियाणि, मनः, बुद्धिः, च कामस्य आश्रयाः सन्ति। एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरणं विमोहयति।
*🌻व्याकरणम्.......*▶सन्धिः
मनो बुद्धिः = मनः + बुद्धिः - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः।बुद्धिरस्य = बुद्धिः + अस्य - विसर्गसन्धिः (रेफः)।विमोहयत्येषः = विमोहयति + एषः - यण्सन्धिः।एतैर्विमोहयति = एतैः + विमोहयति - विसर्गसन्धिः (रेफः)।▶ कृदन्तःअधिष्ठानम् = अधि + स्था+ ल्युट् (अधिकरणे)।आवृत्य = आङ् + वृतु + ल्यप्।
🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹
*गीताप्रवेशात्*
--
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.48🌺🍁
मूलम्मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥
🌸
पदविभागः--मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥
🌻
अन्वयः--मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥
🌹
प्रतिपदार्थः--मित्र = हे सुहृत् ; मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते, परिपूर्णे च ; विनश्वरे = विनाशशीले ; कलेवरे = शरीरे ; आस्थां = आलम्बनं, आदरं वा ; मे यशः = मम कीर्तिम् ; पालय = रक्ष ; ॥१.४८॥
🌼
तात्पर्यम्--
हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव॥१.४८॥🌷