Subhashita series 1: Priyavaakya

281 views
Skip to first unread message

Naresh Cuntoor

unread,
Jun 3, 2017, 5:13:45 PM6/3/17
to Sanskrit

Background to this series is here: https://groups.google.com/d/msg/samskrita/lvoqdjzN5cU/PCobaoocBQAJ


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥

 

सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति । तस्मात् तत् एव वक्तव्यम् । वचने का दरिद्रता ?

 

सर्वे जन्तवः =  सर्वे प्राणिनः

प्रियवाक्यप्रदानेन = प्रियकथनेन

तुष्यन्ति = आनन्दन्ति, सन्तुष्टाः भवन्ति

तस्मात् = ततः

तत् एव = प्रियवाक्यम् एव

वक्तव्यम् = कथनीयम्

वचने का दरिद्रता ? = वचने दरिद्रता नास्ति ।

दरिद्रता = निर्धनता

 

यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति । ततः प्रियवाक्यानि कथनीयानि । वक्तुं धनं नावश्यकम् ।

 

सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वे प्राणिनः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वे मनुष्याः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वे पक्षिणः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वे बालकाः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वे पुरुषाः प्रियवाक्यप्रदानेन तुष्यन्ति ।

 

सर्वाः बालिकाः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वाः महिलाः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वाः भार्याः प्रियवाक्यप्रदानेन तुष्यन्ति ।

 

सर्वाणि मित्राणि प्रियवाक्यप्रदानेन तुष्यन्ति ।

 

जन्तुः प्रियवाक्यप्रदानेन तुष्यति ।

प्राणी प्रियवाक्यप्रदानेन तुष्यति ।

मनुष्यः प्रियवाक्यप्रदानेन तुष्यति ।

पक्षी प्रियवाक्यप्रदानेन तुष्यति ।

बालकः प्रियवाक्यप्रदानेन तुष्यति ।

पुरुषः प्रियवाक्यप्रदानेन तुष्यति ।

 

बालिका प्रियवाक्यप्रदानेन तुष्यति ।

महिला प्रियवाक्यप्रदानेन तुष्यति ।

भार्या प्रियवाक्यप्रदानेन तुष्यति ।

 

मित्रं प्रियवाक्यप्रदानेन तुष्यति ।

 

सर्वे जन्तवः केन तुष्यन्ति ?

सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।

सर्वे जन्तवः प्रियवाक्यस्य प्रदानेन तुष्यन्ति ।

 

भक्ताः केन तुष्यन्ति ?

भक्ताः देवदर्शनेन तुष्यन्ति ।

 

प्रियवाक्यं वक्तव्यम् ।

प्रियवाक्यानि वक्तव्यानि ।

 

कथा वक्तव्या ।

कथाः वक्तव्याः ।

 

सङ्गीतं श्रोतव्यम् ।

नृत्यं द्रष्टव्यम् ।

श्लोकः पठितव्यः ।

 

 

 

 

 

 

 

 

Subrahmanian R

unread,
Jun 4, 2017, 1:44:01 AM6/4/17
to samskrita
प्राणी प्रियवाक्यप्रदानेन तुष्यति । in the text in your first mail. Is the dirgha in prani correct?
R Subrahmanian

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

hnbhat

unread,
Jun 4, 2017, 2:07:50 AM6/4/17
to samskrita@googlegroups com

On 4 June 2017, at 11:13, Subrahmanian R <subrah...@gmail.com> wrote:

>
>
>प्राणी प्रियवाक्यप्रदानेन तुष्यति । in the text in your first mail. Is the dirgha in prani correct?
>

The word is प्राणिन् नकारान्तः! प्राणी  is in  प्रथमैकवचनान्त form.

Arvind_Kolhatkar

unread,
Jun 4, 2017, 4:41:00 PM6/4/17
to samskrita
प्राणी is like कामी in this verse:

स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्यवरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥

Act 2, Shakunatalam.

Subrahmanian R

unread,
Jun 4, 2017, 10:34:37 PM6/4/17
to samskrita
Bhat Mahodaya. Thank you for the elucidation.
With reverence
R Subrahmanian

--

KN.Ramesh

unread,
Jun 5, 2017, 8:21:15 AM6/5/17
to samskrita
कथा कदा वक्तव्या?
यदा निद्रा न आगच्छति तदा |
कथा कथं वक्तव्या ?
कथा प्रियवाक्येन वक्तव्या |

जना: केन तुष्यन्ति ?

जना: दूरदर्शनेन तुष्यन्ति ।



यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।

एतत् वाक्यं बहुवचने कथं लेखनीयम् ?

KN.Ramesh

unread,
Jun 5, 2017, 8:21:36 AM6/5/17
to samskrita
*प्रियो भवति दानेन प्रियवादेन चापर:।*
*मन्त्रमूलबलेनान्यो य: प्रिय: प्रिय एव स ॥*

Ramakrishnan D

unread,
Jun 5, 2017, 12:55:18 PM6/5/17
to sams...@googlegroups.com
ये प्रियवाक्यं श्रुण्वन्ति , ते सन्तुष्टाः भवन्ति |

--

Naresh Cuntoor

unread,
Jun 5, 2017, 3:23:39 PM6/5/17
to Sanskrit
2017-06-05 7:25 GMT-04:00 KN.Ramesh <knra...@gmail.com>:
कथा कदा वक्तव्या?
यदा निद्रा न आगच्छति तदा |



"निद्रा न आगच्छति" इत्येषः प्रयोगः कुत्रचित् दृष्टः किम् ?
देशभाषासु प्रयोगोऽयं भवत्येव । One of the main motivations of the subhashita series is to avoid usages with word-to-word translations.

"यदा बालः न निद्राति, तदा कथा वक्तव्या" इति वाक्यं भवितुम् अर्हति इति मन्ये ।

 

यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।

एतत् वाक्यं बहुवचने कथं लेखनीयम् ?


Why don't you take a crack at it?

Naresh
 

--

Naresh Cuntoor

unread,
Jun 5, 2017, 3:24:56 PM6/5/17
to Sanskrit
In addition to quoting subhashitas, please expand upon it - that will be more useful in the context of the present series.

Naresh


On Mon, Jun 5, 2017 at 7:51 AM, KN.Ramesh <knra...@gmail.com> wrote:
*प्रियो भवति दानेन प्रियवादेन चापर:।*
*मन्त्रमूलबलेनान्यो य: प्रिय: प्रिय एव स ॥*

--

Naresh Cuntoor

unread,
Jun 5, 2017, 4:11:32 PM6/5/17
to Sanskrit
श्रुण्वन्ति -> शृण्वन्ति

Naresh

KN.Ramesh

unread,
Jun 6, 2017, 6:50:50 AM6/6/17
to samskrita
dhanyavaadah Ramakrishnan ji


On Sunday, 4 June 2017 02:43:45 UTC+5:30, Naresh Cuntoor wrote:

KN.Ramesh

unread,
Jun 6, 2017, 6:51:16 AM6/6/17
to samskrita
यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।
एतद्वाक्यं द्विवचने यौ प्रियवाक्यं  शृणोत: तौ सन्तुष्टौ भवत: |
साधु वा ?
What is the font ji, I am not able to get it in gmail samskritam input tools..

On Sunday, 4 June 2017 02:43:45 UTC+5:30, Naresh Cuntoor wrote:

KN.Ramesh

unread,
Jun 6, 2017, 8:25:38 AM6/6/17
to samskrita
>>In addition to quoting subhashitas, please expand upon it - that will be more useful in the context of the present series. 

My trial:

प्रियो भवति दानेन प्रियवादेन चापर:।
मन्त्रमूलबलेनान्यो य: प्रिय: प्रिय एव स ॥

मनुष्य: दानेन, प्रियवचनेन, मन्त्रमूलबलेन प्रियो भवति | परन्तु य: स्वाभाविकेन प्रिय:, स: सदा प्रिय: एव |

दानेन = दानं करणेन 
प्रियो भवति = (मनुष्य:) प्रिय: भवति 
चापर: = च+अपर: = तत: परम् , अपि च 
प्रियवादेन = प्रिय वचनेन ( प्रिय: भवति)
अन्य: = इतरमनुष्य:
मन्त्रमूलबलेन = मन्त्र: औषध: बलेन ( प्रिय: भवति)
य: = य:
प्रिय: = (स्वाभाविकेन) प्रिय:
स = स:
एव = ( सदा प्रिय) एव 

य: स्वाभाविकेन प्रिय:, स: सदा प्रिय: एव | तत: स्वभाव: प्रियं भवनीयम् |

मनुष्य: दानेन प्रियो भवति |
मनुष्य: प्रियवचनेन  प्रियो भवति |
मनुष्य: मन्त्रमूलबलेन प्रियो भवति |

जना:  दानेन प्रियो भवति |
जनौ  प्रियवचनेन  प्रियो भवत:|
जना:  मन्त्रमूलबलेन प्रियो भवन्ति |

गुरु: सेवया  प्रियो भवति |
गुरू सेवाभ्याम्  प्रियो भवत:|
गुरव: सेवाभि: प्रियो भवन्ति |

मनुष्य: केन प्रियो भवति ?
मनुष्य: मन्त्रमूलबलेन प्रियो भवति |
मनुष्य: मन्त्रमूलस्य बलेन प्रियो भवति |

भार्या अप्रियवचनेन प्रिय: न भवति |
भार्या प्रियवचनेन सह प्रियो भवति |
भार्या प्रियवचनेन विना प्रिय: न भवति |

प्रियवचना: वदनीया: |
प्रियवचनं वदनीयम् |


मन्त्रवादी मन्त्रबलेन वञ्चयति |
श्वान: प्रियं प्रदर्शयति |

स्वभाव: प्रियं भवनीयम् |

Corrections welcome







On Sunday, 4 June 2017 02:43:45 UTC+5:30, Naresh Cuntoor wrote:

Naresh Cuntoor

unread,
Jun 6, 2017, 8:33:31 AM6/6/17
to Sanskrit
2017-06-06 6:21 GMT-04:00 KN.Ramesh <knra...@gmail.com>:
यः प्रियवाक्यं शृणोति, सः सन्तुष्टः भवति ।
एतद्वाक्यं द्विवचने यौ प्रियवाक्यं  शृणोत: तौ सन्तुष्टौ भवत: |
साधु वा ?

द्विवचने शृणुतः ।

सः शृणोति । तौ शृणुतः । ते शृण्वन्ति ।
सा शृणोति । ते शृणुतः । ताः शृण्वन्ति ।
बालकः शृणोति । बालकौ शृणुतः । बालकाः शृण्वन्ति ।
बालिका शृणोति । बालिके शृणुतः । बालिकाः शृण्वन्ति ।

To get the hang of it, one could make similar set of sentences for 10-15 words like एषः, पुरुषः, महिला, देवः, देवी, वृद्धः, युवकः, वृद्धा, युवती, etc.
 
What is the font ji, I am not able to get it in gmail samskritam input tools..

I use whatever is default in google (gmail/google drive). Not sure which font it is..

Naresh
 

--

Manish Modi

unread,
Jun 7, 2017, 1:45:40 AM6/7/17
to samskrita
Dear Ramesh ji,
Jay Jitendra

The font used is Mangal. 

This is the default Devanagari font used by Google that works across all platforms like Windows, Apple, Linux, Android, etc. 

It ought to work on your computer/laptop/mobile. 

Manish

K.N.RAMESH

unread,
Jun 7, 2017, 7:19:24 AM6/7/17
to samskrita
Thanks Naresh Ji.

--
You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/81DwIPDaJtE/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+unsubscribe@googlegroups.com.

Naresh Cuntoor

unread,
Jun 7, 2017, 6:15:13 PM6/7/17
to Sanskrit


प्रियो भवति दानेन प्रियवादेन चापर:।
मन्त्रमूलबलेनान्यो य: प्रिय: प्रिय एव स ॥

मनुष्य: दानेन, प्रियवचनेन, मन्त्रमूलबलेन प्रियो भवति | परन्तु य: स्वाभाविकेन प्रिय:, स: सदा प्रिय: एव |

दानेन = दानं करणेन 

"दानकरणेन" इति वा "दानस्य करणेन" इति वा, न तु "दानं करणेन"
 
प्रियवादेन = प्रिय वचनेन ( प्रिय: भवति)

प्रियवचनेन (समस्तपदम्)
 
मन्त्रमूलबलेन = मन्त्र: औषध: बलेन ( प्रिय: भवति)

मन्त्रः मूलं यस्य तत् मन्त्रमूलम् । मन्त्रमूलं बलम् । तेन मन्त्रमूलबलेन ।
बलेन प्रियः भवति ।
कीदृशेन बलेन प्रियः भवति ? मन्त्रमूलेन बलेन प्रियः भवति ।
तन्नाम, बलस्य मूलं (कारणं) मन्त्राः इति ।
 
य: स्वाभाविकेन प्रिय:, स: सदा प्रिय: एव | तत: स्वभाव: प्रियं भवनीयम् |


तत: स्वभाव: प्रियः भवतु |

 

गुरु: सेवया  प्रियो भवति |
गुरू सेवाभ्याम्  प्रियो भवत:|
गुरव: सेवाभि: प्रियो भवन्ति |


गुरू सेवया/सेवाभ्याम्/सेवाभिः प्रियौ भवतः

गुरवः सेवया/सेवाभ्याम् / सेवाभिः प्रियाः भवन्ति

 


भार्या अप्रियवचनेन प्रिय: न भवति |
भार्या प्रियवचनेन सह प्रियो भवति |
भार्या प्रियवचनेन विना प्रिय: न भवति |


असाधु । कः दोषः? चिन्त्यताम् ।
 
प्रियवचना: वदनीया: |

प्रायः* असाधु । कः दोषः? चिन्त्यताम् ।
(*While the sentence is not incorrect, it is probably not what was intended).
 
प्रियवचनं वदनीयम् |


एतत् साधु ।
 

मन्त्रवादी मन्त्रबलेन वञ्चयति |
श्वान: प्रियं प्रदर्शयति |

श्वानः -> शुनकः / श्वा
 

स्वभाव: प्रियं भवनीयम् |

General principle - match linga, vachana, vibhakti between visheShaNa and visheShya. Please pay attention to this.

Also, I think that there is scope for reconsidering whether such a usage makes literal / natural sense in the present context.
 

Naresh Cuntoor

unread,
Jun 7, 2017, 6:18:47 PM6/7/17
to samskrita
As a follow-up to this set, here are a couple of exercises for practice.

प्राणी / प्राणिनः /  देवी / देव्यः / स्वामी / स्वामिनः / नदी / नद्यः …?

 

  1. ____________ भक्त्या तुष्यन्ति ।

  2. ____________ वेगेन वहन्ति ।

  3. ____________ भारं वहति ।

  4. ____________  शिष्यम् अनुगृह्णाति ।

  5. ____________ शिष्यम् अनुगृह्णन्ति ।

  6. ____________ लोकं पाति ।

  7. ____________ लोकं रक्षन्ति ।

  8. ____________ आशीर्वचनेन अनुगृह्णन्ति ।

  9. ____________ वृक्षान् पातयन्ति ।

  10. ____________ सेवकैः सेविताः ।

  11. ____________ सेवकैः सेवितः ।

 

दोषाः परिष्करणीयाः ।

 

  1. भक्तः देवं वन्दनं करोति ।

  2. भक्तः देवं नमस्करोति ।

  3. माता प्रिय कथां श्रावयति ।

  4. बालकाः कथां श्रुण्वन्ति ।

  5. सर्वाः प्राणिनः तुष्यन्ति ।

  6. सर्वाः प्रजाः तुष्यन्ति ।

  7. सर्वाः जनाः तुष्यन्ति ।

  8. सर्वाः देवाः तुष्यन्ति ।

  9. सर्वाः देवताः तुष्यन्ति ।

Taff Rivers

unread,
Jun 7, 2017, 6:43:32 PM6/7/17
to samskrita, Eddie Hadley
Manish,

Microsoft stopped including Mangal with Windows about a decade ago for 'licensing reasons' i.e. it was never theirs in the first place.
So unless the PC runs an old version such as XP or 2008, it will not be found.

However, You can download any Open Source Unicode Devanagari Font from the net and make it the default Unicode (utf-8) font for your browser or mailer.

Search for "Free Devanagari Unicode Fonts" in 'Google search' and you will find dozens of them.

You might might take a look at Chandas on http://www.sanskritweb.net/cakram/
There, you will also find software to design your own Sanskrit font, if you are feeling adventurous enough!

Devanagari writers should bear in mind that recipient's devices should also be equipted with a suitable Unicode Devanagari font.

Hope this helps,

  Taff

Naresh Cuntoor

unread,
Jun 8, 2017, 6:05:45 PM6/8/17
to Sanskrit
Namaste,

Avinash Varna created a google form for the fill-in-the-blanks practice questions. This is a good idea - I will use it for future exercises.
The link for the current set is here: https://goo.gl/forms/j0ERk5xYdkow69Ad2

Naresh


--

KN.Ramesh

unread,
Jun 9, 2017, 7:59:58 AM6/9/17
to samskrita
Excellent Naresh ji... 
Thanks a lot..

>>General principle - match linga, vachana, vibhakti between visheShaNa and visheShya. Please pay attention to this.
Noted & I shall pay more attention.

Avinash

unread,
Jun 9, 2017, 12:38:06 PM6/9/17
to samskrita
Just a quick clarification - This form uses the quiz feature of google forms, so you will know how many you got right and the right answers once you submit the form. The response collection is anonymous, as far as I am aware, so Naresh/I won't be tracking who got how many right. It is mainly for self-evaluation. Google forms will give us a summary of which questions were frequently missed, so we can send out some clarifications regarding that particular question or use this data to add more similar exercises in the future, as time permits.

Avinash

Naresh


To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

अभ्यंकरकुलोत्पन्नः श्रीपादः | श्रीपतेः पदयुगं स्मरणीयम् ।

unread,
Jun 11, 2017, 2:12:55 AM6/11/17
to samskrita
विचारयन्नस्मि 
  1. यदि "का दरिद्रता" इत्येव प्रश्नः किमुत्तरं तस्य ? 
    1. दातुं न शक्नोति सा दरिद्रता वा दातुं नेच्छति सा दरिद्रता ?
    2. आपटे-महाभागानां शब्दकोशे "दरिद्रा" इति धातुः प्रस्तुतः | ततः दरिद्रा-धातुतः भाववाचकं नाम दरिद्रता | 
      1. "दारिद्र्यम्" इत्यपि भाववाचकं नाम तस्मादेव धातुतः | को भेदो दरिद्रता-दारिद्र्यं-शब्दयोः ? व्युत्पत्तिभेदस्त्वस्त्येव अर्थभेदोऽप्यस्ति | कथं स्पष्टीकर्तव्यौ द्वावपि ? 
      2. अपि शक्यं मन्तुं "दरिद्रा"-धातोरपि अस्ति व्युत्पत्तिः "दरित् एवं राति = दरिद्राति" इति ? 
        1. आपटे-महाभागानां शब्दकोशे दरिद्रा-धातुः अदादिः परस्मैपदी च विवृतः | 
        2. रा-धातुरपि अदादिः परस्मैपदी एव | 
  2. दृश्यते सुभाषिते "वचने का दरिद्रता" इत्यत्र का-शब्दः "किमर्थम्" इत्यर्थेन प्रयुक्तोऽस्ति | किमर्थम्-इत्यर्थे "वचने किं दरिद्रता" एवमपि सुभाषितस्य पाठभेदोऽस्ति प्रायः |
सविनयम् श्रीपादः |

hnbhat

unread,
Jun 11, 2017, 4:26:07 AM6/11/17
to samskrita@googlegroups com
On 11 June 2017, at 11:42, अभ्यंकरकुलोत्पन्नः श्रीपादः | श्रीपतेः पदयुगं स्मरणीयम् । <sl.abh...@gmail.com> wrote:

>
>
>विचारयन्नस्मि 
>
>यदि "का दरिद्रता" इत्येव प्रश्नः किमुत्तरं तस्य ?

वचने का दरिद्रता? इत्येव प्रश्नः सुभाषिते! न कैवलं "का दरिद्रता" इत्येव, न वा तस्योत्तरमुद्दिष्टं सुभाषिते!

>दातुं न शक्नोति सा दरिद्रता वा दातुं नेच्छति सा दरिद्रता ?आपटे-महाभागानां शब्दकोशे "दरिद्रा" इति धातुः प्रस्तुतः | ततः दरिद्रा-धातुतः भाववाचकं नाम दरिद्रता | "दारिद्र्यम्" इत्यपि भाववाचकं नाम तस्मादेव धातुतः | को भेदो दरिद्रता-दारिद्र्यं-शब्दयोः ? व्युत्पत्तिभेदस्त्वस्त्येव अर्थभेदोऽप्यस्ति | कथं स्पष्टीकर्तव्यौ द्वावपि ? 
 
दरिद्रा-धातोः अच्प्रत्यये, दरिद्रातीति दरिद्रः इति दरिद्रशब्दः निष्पन्नः! दरिद्रस्य भावः दरिद्रता, दारिद्र्यम् इति द्वावपि दरिद्रशब्दस्य भाववचनौ शब्दौ इति व्युत्पत्तिभेदो नास्त्येव, अर्थभेदोऽपि नास्ति! "तस्य भावस्त्व-तलौ" तल् प्रत्यये दरिद्रता, "गुणवचनब्राह्मणादिभ्यः ष्यञ् च" इति ष्यञप्रत्यये दारिद्र्यम्! अर्थे भेदो नास्ति, दरिद्रस्य भावः इत्येवार्थः!

>अपि शक्यं मन्तुं "दरिद्रा"-धातोरपि अस्ति व्युत्पत्तिः "दरित् एवं राति = दरिद्राति" इति ? आपटे-महाभागानां शब्दकोशे दरिद्रा-धातुः अदादिः परस्मैपदी च विवृतः | रा-धातुरपि अदादिः परस्मैपदी एव |

दरिद्रशब्दादेव व्युत्पत्तौ, किं प्रयोजनं तादृशव्युत्पत्तेः? कोर्थः सुभाषिते?

>दृश्यते सुभाषिते "वचने का दरिद्रता" इत्यत्र का-शब्दः "किमर्थम्" इत्यर्थेन प्रयुक्तोऽस्ति |
किमर्थम्-इत्यर्थे "वचने किं दरिद्रता" एवमपि सुभाषितस्य पाठभेदोऽस्ति प्रायः |

विचित्रं व्याख्यानम्! "वचने किं दरिद्रता" इत्यस्य वचने दरिद्रता किमस्तीति  स एवार्थः, पाठभेदेपि नार्थभेदः!

hnbhat

unread,
Jun 11, 2017, 7:11:06 AM6/11/17
to samskrita@googlegroups com

On 11 June 2017, at 13:56, hnbhat <hnbh...@gmail.com> wrote:

>दरिद्रा-धातोः अच्प्रत्यये, दरिद्रातीति दरिद्रः इति दरिद्रशब्दः निष्पन्नः! दरिद्रस्य भावः दरिद्रता, दारिद्र्यम् इति द्वावपि दरिद्रशब्दस्य भाववचनौ शब्दौ इति व्युत्पत्तिभेदो नास्त्येव, अर्थभेदोऽपि नास्ति! "तस्य भावस्त्व-तलौ" तल् प्रत्यये दरिद्रता, "गुणवचनब्राह्मणादिभ्यः ष्यञ् च" इति ष्यञप्रत्यये दारिद्र्यम्! अर्थे भेदो नास्ति, दरिद्रस्य भावः इत्येवार्थः!"

दरिद्रा-धातोः कप्रत्यये दरिद्रशब्दः दरिद्रातीति!

दरिद्रः =  दुर्ग्गते निःस्वे इत्यमरः! “दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः” इति भागवतम् । 

hnbhat

unread,
Jun 11, 2017, 2:46:31 PM6/11/17
to samskrita@googlegroups com

"वर्णदृढादिभ्यः ष्यञ्च" इति भावे दृढादिभ्यः ष्यञ्, चात् त्वतलौ! दरिद्रस्य भावः दरिद्रता, दारिद्र्यम्!

KN.Ramesh

unread,
Jun 12, 2017, 12:34:59 AM6/12/17
to samskrita

प्राणी / प्राणिनः /  देवी / देव्यः / स्वामी / स्वामिनः / नदी / नद्यः …?

 

  1.  देव्यः भक्त्या तुष्यन्ति ।

  2. नद्यः वेगेन वहन्ति ।

  3. प्राणी भारं वहति ।

  4.  देवी शिष्यम् अनुगृह्णाति । Here first I wrote स्वामी but was marked wrong in the form.

  5.  देव्यः शिष्यम् अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.

  6. देवी  लोकं पाति ।

  7. देव्यः लोकं रक्षन्ति ।

  8. देव्यःआशीर्वचनेन अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.

  9.  प्राणिनः वृक्षान् पातयन्ति ।

  10. स्वामिनः सेवकैः सेविताः ।

  11.  स्वामी सेवकैः सेवितः ।

So got 8/11


 

दोषाः परिष्करणीयाः ।

 

  1. भक्तः देवं वन्दते  ।

  2. भक्तः देवं नमति /नमते  ।

  3. माता प्रिय कथां वदति  मात्रा प्रिय कथां श्रावयति  |

  4. बालकाः कथां शृण्वन्ति ।

Naresh Cuntoor

unread,
Jun 12, 2017, 1:31:42 AM6/12/17
to Sanskrit
2017-06-12 0:19 GMT-04:00 KN.Ramesh <knra...@gmail.com>:

प्राणी / प्राणिनः /  देवी / देव्यः / स्वामी / स्वामिनः / नदी / नद्यः …?

  1.  देवी शिष्यम् अनुगृह्णाति । Here first I wrote स्वामी but was marked wrong in the form.

  1.  देव्यः शिष्यम् अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.

  1. देव्यःआशीर्वचनेन अनुगृह्णन्ति ।Here first I wrote स्वामिनः but was marked wrong in the form.



It was a marking artifact. भवतः उत्तराणि साधूनि एव ।
 

 

  1. भक्तः देवं वन्दते  ।

साधु । "भक्तः देवं वन्दनं करोति" इत्यस्य स्थाने "भक्तः देवस्य वन्दनं करोति" इत्यपि साधु ।

(Just as दानं करणेन was wrong in the mantra..subhashita, देवं वन्दनं करोति is wrong.)

 
  1. भक्तः देवं नमति /नमते  ।

The original sentence with नमस्करोति is fine. There was no mistake to correct in that sentence. नमति is usually used. नमते may not be technically wrong, but given the lack of usage, I would stick to the parasmaipadi usage. 
  1. माता प्रिय कथां वदति  मात्रा प्रिय कथां श्रावयति  |

No. प्रियकथां is the correction. The point I was restating was that samastapadas should be written as a single word, and not with arbitrary spaces in between.

(Had the intention been to use प्रिय as a sambodhana, then it would be fine. But that is not the intention here.)


 मात्रा प्रिय कथां श्रावयति  is wrong. But we'll address that mistake some other time.
 
    1. सर्वे  प्रजाः तुष्यन्ति ।

    1. सर्वे  देवताः तुष्यन्ति ।


    No. सर्वाः प्रजाः, सर्वाः देवताः
    सा प्रजा - ताः प्रजाः
    सा देवता - ताः देवताः
    सः देवः - ते देवाः
    सः जनः - ते जनाः


    KN.Ramesh

    unread,
    Jun 12, 2017, 8:28:44 AM6/12/17
    to samskrita
    सर्वाणि भद्राणि - Is it wrong?
     Then why is it told  सर्वे भद्राणि पश्यन्तु..?

    Naresh Cuntoor

    unread,
    Jun 12, 2017, 12:37:12 PM6/12/17
    to Sanskrit
    सर्वाणि भद्राणि - Is it wrong?

    No, but sentence context matters.

     
     Then why is it told  सर्वे भद्राणि पश्यन्तु..?



    के पश्यन्तु ? सर्वे पश्यन्तु ।
    सर्वे किं पश्यन्तु ? सर्वे भद्राणि पश्यन्तु ।

    One could also say सर्वे सर्वाणि भद्राणि पश्यन्तु । i.e.,सर्वे (जनाः) सर्वाणि भद्राणि (मङ्गलानि) पश्यन्तु ।

    To get a hang of such a आकाङ्क्षा-type of reasoning, please work through the Dvitiya diksha books published by Rashtriya Samskrit Samsthanam. To reiterate, the series is not a substitute for working through such books -- preferably with the help of a teacher. Rather this series is meant to point out how to read *and use* subhashitas and their constructions.

    Naresh

    KN.Ramesh

    unread,
    Jun 13, 2017, 5:53:48 PM6/13/17
    to samskrita
    बहव: धन्यवादा : Naresh ji..
    सप्रश्रयम् 

    सर्वाः प्रजाः तुष्यन्ति ।
    सर्वाः देवताः तुष्यन्ति ।

    एते वाक्ये साध्वेव वा? 
    अहं किमपि दोष: आवश्यम् इति चिन्तित्वा अन्वेषणम् अकृतम् 


    KN.Ramesh

    unread,
    Jul 20, 2017, 11:54:20 AM7/20/17
    to samskrita
    🙏हितोपदेश-सुभाषित-श्लोकाः - 1.48🌺
    🍁
    मूलम्
    मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।
    विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥
    🌸
    पदविभागः--
    मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥
    🌻
    अन्वयः--
    मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥
    🌹
    प्रतिपदार्थः--
    मित्र = हे सुहृत् ; मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते, परिपूर्णे च ; विनश्वरे = विनाशशीले ; कलेवरे = शरीरे ; आस्थां = आलम्बनं, आदरं वा ; मे यशः = मम कीर्तिम् ; पालय = रक्ष ;   ॥१.४८॥
    🌼
    तात्पर्यम्--
    हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव॥१.४८॥🌷

    KN.Ramesh

    unread,
    Sep 1, 2017, 11:50:52 AM9/1/17
    to samskrita
    *🔔मूल श्लोकः 🔔*
    इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। 
    मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।३.४२।। 
    *🌷पदार्थः...... 🌷*
    इन्द्रियाणि — नेत्रादीनि 
    पराणि — उत्कृष्टानि 
    आहुः — कथयन्ति 
    इन्द्रियेभ्यः — नेत्रादिभ्यः 
    परम् — उत्कृष्टम् 
    मनः तु — चित्तं पुनः 
    मनसः — चित्तात् 
    परा — उत्कृष्टा 
    बुद्धिः — धीः 
    यः बुद्धेः तु = यः धियः तु 
    परतः — उत्कृष्टः वर्तते 
    सः — सः आत्मा। 
    *🌻अन्वयः 🌻*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति। 
    *🐚आकाङ्क्षाः🐚*
    _आहुः।_
    कानि आहुः? 
    *इन्द्रियाणि आहुः।*
    इन्द्रियाणि कीदृशानि आहुः? 
    *इन्द्रियाणि पराणि आहुः।*
    इन्द्रियाणि पराणि आहुः। पुनश्च किं परम्? 
    *इन्द्रियाणि पराणि आहुः। मनः परम्।*
    इन्द्रियाणि पराणि आहुः। केभ्यः मनः परम्? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्। पुनश्च का परा? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, बुद्धिः परा।* 
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, कस्मात् बुद्धिः परा? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, पुनश्च परतः कः? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, परतः सः।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्,मनसस्तु बुद्धिः परा,कस्याः परतः सः?
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, बुद्धेः परतः सः।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, यः बुद्धेः परतः सः कः? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, यः बुद्धेः परतः सः (आत्मा)।*
    *📢 तात्पर्यम्......*
    इन्द्रियाणि उत्कृष्टानि वदन्ति। इन्द्रियेभ्यः मनः उत्कृष्टम्, मनसः बुद्धिः उत्कृष्टा, बुद्धेः अपेक्षया आत्मा उत्कृष्टः वर्तते। 
    *🌻व्याकरणम्.......*
    ▶सन्धिः 
    पराण्याहुः = पराणि + आहुः - यण्सन्धिः। 
    आहुरिन्द्रियेभ्यः = आहुः + इन्द्रियेभ्यः - विसर्गसन्धिः (रेफः)।
    बुद्धिर्यो बुद्धेः = बुद्धिः + यः - विसर्गसन्धिः (रेफः)
    # यः बुद्धेः = विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः। 
    मनसस्तु = मनसः + तु - विसर्गसन्धिः (सकारः)।
    परतस्तु = परतः + तु - विसर्गसन्धिः (सकारः)।
    ▶ तद्धितान्तः 
    परतः = परः + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः)
    🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹
                                  *गीताप्रवेशात्*

    Ramakrishnan D

    unread,
    Sep 1, 2017, 12:27:08 PM9/1/17
    to sams...@googlegroups.com
    उत्तम‍म् !

    2017-09-01 14:51 GMT+05:30 KN.Ramesh <knra...@gmail.com>:
    *🔔मूल श्लोकः 🔔*
    इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। 
    मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।३.४२।। 
    *🌷पदार्थः...... 🌷*
    इन्द्रियाणि — नेत्रादीनि 
    पराणि — उत्कृष्टानि 
    आहुः — कथयन्ति 
    इन्द्रियेभ्यः — नेत्रादिभ्यः 
    परम् — उत्कृष्टम् 
    मनः तु — चित्तं पुनः 
    मनसः — चित्तात् 
    परा — उत्कृष्टा 
    बुद्धिः — धीः 
    यः बुद्धेः तु = यः धियः तु 
    परतः — उत्कृष्टः वर्तते 
    सः — सः आत्मा। 
    *🌻अन्वयः 🌻*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति। 
    *🐚आकाङ्क्षाः🐚*
    _आहुः।_
    कानि आहुः? 
    *इन्द्रियाणि आहुः।*
    इन्द्रियाणि कीदृशानि आहुः? 
    *इन्द्रियाणि पराणि आहुः।*
    इन्द्रियाणि पराणि आहुः। पुनश्च किं परम्? 
    *इन्द्रियाणि पराणि आहुः। मनः परम्।*
    इन्द्रियाणि पराणि आहुः। केभ्यः मनः परम्? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्। पुनश्च का परा? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, बुद्धिः परा।* 
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, कस्मात् बुद्धिः परा? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, पुनश्च परतः कः? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, परतः सः।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्,मनसस्तु बुद्धिः परा,कस्याः परतः सः?
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, बुद्धेः परतः सः।*
    इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, यः बुद्धेः परतः सः कः? 
    *इन्द्रियाणि पराणि आहुः। इन्द्रियेभ्यः मनः परम्, मनसस्तु बुद्धिः परा, यः बुद्धेः परतः सः (आत्मा)।*
    *📢 तात्पर्यम्......*
    इन्द्रियाणि उत्कृष्टानि वदन्ति। इन्द्रियेभ्यः मनः उत्कृष्टम्, मनसः बुद्धिः उत्कृष्टा, बुद्धेः अपेक्षया आत्मा उत्कृष्टः वर्तते। 
    *🌻व्याकरणम्.......*
    ▶सन्धिः 
    पराण्याहुः = पराणि + आहुः - यण्सन्धिः। 
    आहुरिन्द्रियेभ्यः = आहुः + इन्द्रियेभ्यः - विसर्गसन्धिः (रेफः)।
    बुद्धिर्यो बुद्धेः = बुद्धिः + यः - विसर्गसन्धिः (रेफः)
    # यः बुद्धेः = विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः। 
    मनसस्तु = मनसः + तु - विसर्गसन्धिः (सकारः)।
    परतस्तु = परतः + तु - विसर्गसन्धिः (सकारः)।
    ▶ तद्धितान्तः 
    परतः = परः + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः)
    🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹
                                  *गीताप्रवेशात्*

    --
    You received this message because you are subscribed to the Google Groups "samskrita" group.
    To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.

    KN.Ramesh

    unread,
    Oct 3, 2017, 11:21:53 AM10/3/17
    to samskrita
    *🔔मूल श्लोकः 🔔*
    इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। 
    एतैर्विमोहत्येष ज्ञानमावृत्य देहिनम्।। ३-४०।। 
    *🌷पदार्थः...... 🌷*
    इन्द्रियाणि — नेत्रादीनि 
    मनः — चित्तम् 
    बुद्धिश्च — धीः च 
    अस्य — एतस्य कामस्य 
    अधिष्ठानम् — आश्रयः 
    उच्यते — कथ्यते 
    एषः — एषः कामः 
    एतैः — एभिः 
    ज्ञानम् — ज्ञानम् 
    आवृत्य — आच्छाद्य 
    देहिनम् — शरीरिणम् 
    विमोहयति — विविधं मोहयति। 
    *🌻अन्वयः 🌻*
    इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते। एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति। 
    *🐚आकाङ्क्षाः🐚*
    _उच्यते।_
    किम् उच्यते? 
    *अधिष्ठानम् उच्यते।*
    कस्य अधिष्ठानम् उच्यते? 
    *अस्य अधिष्ठानम् उच्यते।*
    कानि च अस्य अधिष्ठानम् उच्यते? 
    *इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते।*
    _विमोहयति।_
    कं विमोहयति? 
    *देहिनं विमोहयति।*
    किं कृत्वा देहिनं विमोहयति? 
    *आवृत्य देहिनं विमोहयति।*
    किम् आवृत्य देहिनं विमोहयति? 
    *ज्ञानम् आवृत्य देहिनं विमोहयति।*
    कैः ज्ञानम् आवृत्य देहिनं विमोहयति? 
    *एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।*
    कः एतैः ज्ञानम् आवृत्य देहिनं विमोहयति? 
    *एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।*
    *📢 तात्पर्यम्......*
    पञ्चेन्द्रियाणि, मनः, बुद्धिः, च कामस्य आश्रयाः सन्ति। एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरणं विमोहयति। 
    *🌻व्याकरणम्.......*
    ▶सन्धिः 
    मनो बुद्धिः = मनः + बुद्धिः - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः। 
    बुद्धिरस्य = बुद्धिः + अस्य - विसर्गसन्धिः (रेफः)।
    विमोहयत्येषः = विमोहयति + एषः - यण्सन्धिः। 
    एतैर्विमोहयति = एतैः + विमोहयति - विसर्गसन्धिः (रेफः)।
    ▶ कृदन्तः 
    अधिष्ठानम् = अधि + स्था+ ल्युट् (अधिकरणे)। 
    आवृत्य = आङ् + वृतु + ल्यप्। 
    🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹

    DR Y N RAO

    unread,
    Oct 4, 2017, 8:26:29 AM10/4/17
    to sams...@googlegroups.com
    उत्तमः प्रयासः रमेश् महोदय!

    2017-10-03 10:53 GMT+05:30 KN.Ramesh <knra...@gmail.com>:
    *🔔मूल श्लोकः 🔔*
    इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। 
    एतैर्विमोहत्येष ज्ञानमावृत्य देहिनम्।। ३-४०।। 
    *🌷पदार्थः...... 🌷*
    इन्द्रियाणि — नेत्रादीनि 
    मनः — चित्तम् 
    बुद्धिश्च — धीः च 
    अस्य — एतस्य कामस्य 
    अधिष्ठानम् — आश्रयः 
    उच्यते — कथ्यते 
    एषः — एषः कामः 
    एतैः — एभिः 
    ज्ञानम् — ज्ञानम् 
    आवृत्य — आच्छाद्य 
    देहिनम् — शरीरिणम् 
    विमोहयति — विविधं मोहयति। 
    *🌻अन्वयः 🌻*
    इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते। एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति। 
    *🐚आकाङ्क्षाः🐚*
    _उच्यते।_
    किम् उच्यते? 
    *अधिष्ठानम् उच्यते।*
    कस्य अधिष्ठानम् उच्यते? 
    *अस्य अधिष्ठानम् उच्यते।*
    कानि च अस्य अधिष्ठानम् उच्यते? 
    *इन्द्रियाणि, मनः, बुद्धिश्च अस्य अधिष्ठानम् उच्यते।*
    _विमोहयति।_
    कं विमोहयति? 
    *देहिनं विमोहयति।*
    किं कृत्वा देहिनं विमोहयति? 
    *आवृत्य देहिनं विमोहयति।*
    किम् आवृत्य देहिनं विमोहयति? 
    *ज्ञानम् आवृत्य देहिनं विमोहयति।*
    कैः ज्ञानम् आवृत्य देहिनं विमोहयति? 
    *एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।*
    कः एतैः ज्ञानम् आवृत्य देहिनं विमोहयति? 
    *एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति।*
    *📢 तात्पर्यम्......*
    पञ्चेन्द्रियाणि, मनः, बुद्धिः, च कामस्य आश्रयाः सन्ति। एषः कामः एभिः पञ्चभिः इन्द्रियैः ज्ञानम् आच्छाद्य शरीरणं विमोहयति। 
    *🌻व्याकरणम्.......*
    ▶सन्धिः 
    मनो बुद्धिः = मनः + बुद्धिः - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः। 
    बुद्धिरस्य = बुद्धिः + अस्य - विसर्गसन्धिः (रेफः)।
    विमोहयत्येषः = विमोहयति + एषः - यण्सन्धिः। 
    एतैर्विमोहयति = एतैः + विमोहयति - विसर्गसन्धिः (रेफः)।
    ▶ कृदन्तः 
    अधिष्ठानम् = अधि + स्था+ ल्युट् (अधिकरणे)। 
    आवृत्य = आङ् + वृतु + ल्यप्। 
    🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹🌷💐🌻🌹
                                  *गीताप्रवेशात्*

    --

    KN.Ramesh

    unread,
    Oct 16, 2017, 9:33:16 AM10/16/17
    to samskrita
    🙏हितोपदेश-सुभाषित-श्लोकाः - 1.48🌺
    🍁
    मूलम्
    मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।
    विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥
    🌸
    पदविभागः--
    मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥
    🌻
    अन्वयः--
    मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥
    🌹
    प्रतिपदार्थः--
    मित्र = हे सुहृत् ; मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते, परिपूर्णे च ; विनश्वरे = विनाशशीले ; कलेवरे = शरीरे ; आस्थां = आलम्बनं, आदरं वा ; मे यशः = मम कीर्तिम् ; पालय = रक्ष ;   ॥१.४८॥
    🌼

    Hnbhat B.R.

    unread,
    Oct 16, 2017, 11:23:21 AM10/16/17
    to sams...@googlegroups.com
    The correct anvayartha will be like this:

    मांसेन = पिशितेन; मूत्रेण = मेहनेन ; पुरीषेण = विष्ठया ; अस्थ्ना = कीकसेन ; निर्मिते = विरचिते

    instead of

    मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते

    Otherwise split words have no anvaya in comopound.

    On Monday, October 16, 2017, KN.Ramesh <knra...@gmail.com> wrote:
    🙏हितोपदेश-सुभाषित-श्लोकाः - 1.48🌺
    🍁
    मूलम्
    मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।
    विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥
    🌸
    पदविभागः--
    मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥
    🌻
    अन्वयः--
    मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥
    🌹
    प्रतिपदार्थः--
    मित्र = हे सुहृत् ; मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते, परिपूर्णे च ; विनश्वरे = विनाशशीले ; कलेवरे = शरीरे ; आस्थां = आलम्बनं, आदरं वा ; मे यशः = मम कीर्तिम् ; पालय = रक्ष ;   ॥१.४८॥
    🌼
    तात्पर्यम्--
    हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव॥१.४८॥🌷

    KN.Ramesh

    unread,
    Oct 20, 2017, 7:31:55 AM10/20/17
    to samskrita
    Thanks Prof.Dr.HN.Bhat ji

    KN.Ramesh

    unread,
    Dec 20, 2017, 11:24:30 AM12/20/17
    to samskrita
    s🖌सुभाषित-विज्ञानम् - 8📚
    📝श्रूयतां धर्मसर्वस्वं 📖

    मूलम्- 
    श्रूयतां धर्मसर्वस्वं श्रुत्वा चैव विचार्यताम् ।
    आत्मनः प्रतिकूलानि परेषान्न समाचरेत् ॥

    पदविभागः- 
    श्रूयतां धर्मसर्वस्वं श्रुत्वा च एव विचार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥

    अन्वयः- 
    धर्म-सर्वस्वं श्रूयताम्। श्रुत्वा च एव विचार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥

    प्रतिपदार्थः- 
    धर्म-सर्वस्वं = आचरणयोग्यं समस्तं ; essence of all dharma (It has many meanings- What applies here is this : Apte-Duty, prescribed course of conduct;)
    श्रूयताम् = अवधार्यताम् ; Do hear
    श्रुत्वा च एव  = अवधीर्य ; Having heard, after hearing
    विचार्यताम् = चिन्तनं क्रियताम् ; think, ponder
    आत्मनः = स्वस्य ; of the self
    प्रतिकूलानि = कष्टप्रदानि ; unpleasant, disagreeable things;
    परेषां = इतरेभ्यः ; to others
    न समाचरेत् = न आचरेत् ; never, do not ; should do, perform, practise

    तात्पर्यम्- 
    आचरणयोग्यं समस्तं कथ्यते, तत् श्रूयताम्। विचारणं क्रियताम्। यत् स्वस्य कृते क्लेशोत्पादकं भवति, तत् अन्येषां विषये न आचरणीयम्। (यतो हि सर्वत्र सर्वेषु एक एव आत्मा निवसति।)

    Listen to the essence of all dharma, and then think it over well. Do never perform things, that are disagreeable to one-self, towards others.

    प्रश्नाः- 
    1. किं श्रूयताम्?
    2. श्रुत्वा किं क्रियताम्?
    3. परेषां किं न समाचरेत्?
    4. ‘विचार्यताम्’ इत्यत्र पदविश्लेषणं वदत?
    5. ‘परेषान्न’ इत्यत्र सन्धिः विभज्यताम्।
    6. श्रूयतां ------ । (रिक्तस्थानं पूरयत)।✅
    Reply all
    Reply to author
    Forward
    0 new messages