Thanks to dhavala (linked in:
sa-vyAkaraNa/tars/
tars.MD):
From siddhAnta-kaumudI
1.1.3
इको गुणवृद्धी १.१.३
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
From padamanjarI
1.1.3
इको गुणवृद्धी १.१.३
ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि "इको गुणवृद्धी न धातुलोपः" इति संयुज्यैव निर्दिशेत् । नापि विधिः, "इकः स्थाने गुणवृद्धी भवतः" इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । "अदेङ् गुणः" इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् "इयम्" इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-"येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते" इत्याह, स वाच्यः-"असिद्धं परिभाषात्वं कथमनूद्यते" इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः" इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । ....