satyam. saH prayogaH anukaraNArhaH vA iti prashnaH.
yato hi sUtreNa na samarthyate khalu? tasmAt tu anukaranashankA avashiShyate.
विश्वास - इदमेव विवरणं 'स वर्णिलिङ्गी विदितः समाययौ' प्रसङ्गे उक्तमासीत् । भवान् तस्मिन् दिने नासीत् किम् ?
2014-06-27 2:10 GMT-04:00 Avinash L Varna <avinas...@gmail.com>:
> क्तस्य कर्तरि प्रयोगे चाऽपि - वाक्यपदीयप्रमाणेन सकर्मकाणामपि धातूनां कर्माविवक्षायाम् अकर्मकत्वे सिद्धे "गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च । " इत्यस्त्य् एव।व्
न खल्वीदृशं समाधानं टीकासु दृश्यते । "अर्शादित्वादच्" इत्येव दृष्टपूर्वं मया । "अकारोऽयं मत्वर्थीयः" इति काशिका (http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.4.76.htm) महाभाष्यञ्च ।
तत्रापि विशेषः सूच्यते । यथाह कैयटः - "गम्यमानस्याप्रयेग एव लोपोऽभिमतः । विभक्ता भ्रातर इत्यत्र धनस्य यद्विभक्तं तद्भ्रातृषूपचर्यते । पीतोदका गाव इत्यत्राप्युदकस्य पीतत्वं गोष्वारोप्यते ।" (शाकुन्तले ४.९ श्लोकस्य व्याख्यायाम् काळे-पुस्तके)
प्रयोगे तु नास्ति मे विप्रतिपत्तिः ।

प्रञ्च अच्-प्रत्यय-योजन-समाधानयत्नेन मय्य् असमाधानमेव। आर्शादिगणे विवक्षितस्याः
शिशोः श्रोत्रं पितुः स्कन्धः इत्यादयः क्लेशः अत्र वर्तन्ते एव । परन्तु 'चक्रं पाणौ यस्य चक्रपाणिः' इति भवति चेत् श्रोत्रं स्कन्धे यस्य श्रोत्रस्कन्धः किमर्थं न ?
2014-06-27 2:10 GMT-04:00 Avinash L Varna <avinas...@gmail.com>:
पुनश्च यदि स्यात्, तथापि स्कन्धश्रोत्रः एवोचित इति भासते । सूत्रं - सप्तमीविशेषणे बहुव्रीहौ http://sanskritdocuments.org/learning_tools/sarvanisutrani/2.2.35.htm । यद्यपि आहिताग्न्यादिगणे निपातनं शक्यम् अनन्यगतिकतयैव आश्रयणीयः स पन्था भवतीति मेऽभिप्रायः ।अयं समासश्चिन्त्य इति भासते । (शिशोः) श्रोत्रं (पितुः) स्कन्धे । कथमत्र पदयोरेकान्वयः ?> shrotraH skandhe yasya saH = shrotraskandhaH (shishuH)
> परन्तु 'चक्रं पाणौ यस्य चक्रपाणिः' इति भवति चेत् श्रोत्रं स्कन्धे यस्य श्रोत्रस्कन्धः किमर्थं न ?"प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ" इति वार्तिकात् चक्रपाणेः साधुत्वम् (http://sanskritdocuments.org/learning_tools/sarvanisutrani/2.2.35.h
tm- तत्त्वबोधिनीमीक्षताम्) । अन्येषूदाहरणेषु सप्तम्यन्तंपदंसमासे पूर्वं दृश्यते - कण्ठेकालः, भालचन्द्रः इत्यादिवत् ।
न सार्वत्रिकमिदं समाधानम् (यत्रकुत्रापि प्रयोगाय नेति मे विवक्षा) । "सः खादितः", "अयं पठितः" इत्यादिषु वाक्येषु कर्मणः अप्रयोगात् साधुत्वकल्पनं भर्तृहरेरभिमतं न स्यात् ।
> खलु सार्वत्रिकः कर्माविवक्षामार्गस् सुगमस् तदपेक्षया।
अलमनया पद्यधारायम् तर्कधारया । "controversy" विस्तारणाय क्षमां याचे ।