अकर्मकेभ्यो धातुभ्यो कर्तरि क्तः भवतीति किं प्रमाणम्?
तथा कर्मण्यविवक्षिते सकर्मकेभ्योऽपि कर्तरि क्तो भवति वा?
Q. अकर्मकेभ्यो धातुभ्यो कर्तरि क्तः भवतीति किं प्रमाणम्?
A. गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३-४-७२) इति सूत्रम्।
Q. तथा कर्मण्यविवक्षिते सकर्मकेभ्योऽपि कर्तरि क्तो भवति वा?
A. आम्। धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ इति कारिका (बा॰म॰ २६९५, वा॰प॰ ३.७.८८)

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.
--
You received this message because you are subscribed to a topic in the Google Groups "samskrita" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/samskrita/5-cGMbZG42c/unsubscribe.
To unsubscribe from this group and all its topics, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.
मान्याः। "सःखादितः", "अयंपठितः" इत्यादिषुवाक्येषुकर्मणःअप्रयोगात्साधुत्वंवर्ततेवा?
2014-06-28 8:08 GMT+05:30 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
2014-06-27 18:59 GMT-07:00 Hnbhat B.R. <hnbh...@gmail.com>:
स खादितः, अयं पठितः इत्यादिषु कर्तरि क्तः इत्यत्र किं प्रमाणम्? केवलं भवता विवक्षया अकर्मकत्वं वा, कर्त्रा विवक्षितमित्यत्र किं प्रमाणम्? उपरितनप्रयोगेषु, कर्मणः प्रयोगाभावः न विवक्षाभावः, किं तु, स इत्यनेन कर्मणः क्तप्रत्ययस्याभिधानादेव प्रथमा कर्मणि। स ग्रन्थः प्रठितः, स आखुः सर्पेण खादितः सर्पेण इत्यादिषु प्रयोगस्य यथा साधुत्वं भवति, तथैव स खादितः, अयं पठितः इत्यादिष्वपि साधुत्वं भवत्येव, नासाधुत्वं तावता। कर्मण्येव क्तः इति स्पष्ट एव।आत्मीय हरिनारयणार्य, दृश्यते यन्मया प्रश्नो न सम्यगुपस्थापित इति। भूतकाले प्रवृत्तं तत्-कर्तृकं खादनव्यापरं विवक्षामि चेत् अविवक्षन्नपि कर्म, तर्हि "सः भुक्त" इति वाक्यं साधु वा?एवमेव इदं-कर्तृकस्य पठनव्यापारस्य भूतकाले कृतस्य विवक्षायां, कर्मण अविवक्षायां च सतायां "अयं पठित" इति वचनं साधु वा?कर्तरि भावे चाकर्मकेभ्यः, इति विधानात्।एवं तर्हि "पुनरपि प्रारब्धः श्वापदानां पशूनां सरीसृपाणामन्येषाञ्च प्राणिनां सञ्चारः।" इतिवदाधुनिकप्रयोगास् सकर्मका दोषायेत्य् अधुना ऽवगच्छामि। नाधुनिकानां वा प्राचां वा ईदृशाः प्रयोगाः, अकर्मकाणां कर्तरि भावे च प्रयोगः साधव एव। विधानानुसारादेव।
सञ्चाराः प्रारब्धाः, इति रभधातोरकर्मकत्वादेव कर्तरि प्रयोगः, न कर्मण अविवक्षातः विवक्षातो वा।सकर्मकाणामेव प्रसिद्धेरविवक्षातः विवक्षा अविवक्षा वा प्रसिद्ध्यनुरोधेन। इति पूर्वमेवोक्तम्।"अकर्मकाद्" इत्यधिकारे,अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु।।धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात्।प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया।।1।।वहति भारम्। नदी वहति। स्यन्दत इत्यर्थः। जीवति। नृत्यति। प्रसिद्धेर्यथा । मेघो वर्षति। कर्मणोऽविवक्षातो यथा। "हितान्नयः यः संशृणुते स किं प्रभुः।। "इत्युदाहृतम्। प्रसिद्धप्रयोगाणां साधूकरणमेवास्य विवेचनस्य फलम्। न तु यथेष्टं कर्मणो विवक्षातः अकर्मकत्वं विधीयते इति तात्पर्यम्। प्रसिद्धिश्च प्रयोगाणां कवीश्वराणां दर्शनेन ज्ञायते, न स्वयं विवक्षया अविवक्षया वा।। भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः । । ३,७.८९ ।निमित्तभेदात् पुनरपि भिद्यन्ते बहुधा इति केवलं चतुर्धा सकर्मकाणामकर्मिका क्रिया दिङ्मात्रमुदाहृताः। एवमेव सर्वत्र।