नमो विद्वद्भ्यः
कालदर्शनम् --
श्रुतिः
वेदाङ्गानि - व्याकरणम् - ज्योतिषम् - निरुक्तम् - शिक्षा - कल्पः
दर्शनानि - वैशेषिकम् - सांख्यम् - वेदान्तः (pre-Samkara) ,बौद्धम्
उपवेदः - आयुर्वेदः
इतिहासः - भारतम्
कलयति भूतानि इति कालः (कलनम् = सृष्टिः) - कल = गतौ सङ्ख्याने च (चुरादि) - ण्यन्तात् पचाद्यच् (Sudha on Amara says - कल्यते / कालयति - it is not in line with Vakyapadiyam) .
कालः पचति भूतानि कालः संहरति प्रजाः -- भारतम् ।
Nairuktas (1-28,29) accept six भावविकाराः - जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति ।
All these are considered as different forms of ब्रह्मन् / सत्ता emerged due to the कालशक्ति of ब्रह्मन् -
सैव भावविकारेषु षडवस्थाः प्रपद्यते ।
क्रमेण शक्तिभिः स्वाभिः एवं प्रत्यवभासते ॥
आत्मभूतः क्रमो’प्यस्या यत्रेदं कालदर्शनम् ।
पौर्वापर्यादिरूपेण प्रविभक्तमिव स्थितम् ॥ ( वाक्यपदी-पद-जाति 36,37)
अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः।
जन्मादयो विकाराः षड् भावभेदस्य योनयः॥(वाक्य ब्रह्म ३)
सैव - सत्तैव ; भावः = ब्रह्मन् (निरुपपदस्य भावशब्दस्य ब्रह्मणि रूढत्वात्);
विकारः = विवर्तः ; आत्मभूतः = आत्मरूपमेव ; प्रविभक्तम् इव = न तु प्रविभक्तम् (it looks like that in six forms due to कालशक्ति but स्त्ता is सत्ता ) ; अध्याहितकलाम् = आरोपितभेदाम् ।
कलिः सर्वार्थवाचकः - कृष्णं कलय सखि स्ंदरम् ।
Hari in Padakanda of Vakyapadiyam earmarked one chapter , कालसमुद्देशः to explain काल from the point of view of श्रुति and all दर्शनानि , also आयुर्वेद , ज्योतिषम् and so on --
What is the problem ?
Under समास , Panini compiled a सूत्रम् - कालाः परिमाणिना (2-2-5) - मासः जातस्य मासजातः ।
Here there is a problem - मासः means त्रिंशद्रात्रसमुदायः । it has got nothing to do with the child - the द्रव्यम् which is अपरिमाणी ।
But Panini says - कालस्य येन समासः सः परिमाणी ।
Here are the Vartikam and Bhasyam --
वा - कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः
भा - कालस्य येन समासः सो’परिमाणी । तस्य अपरिमाणित्वात् अनिर्देशः
- अगमको निर्देशः अनिर्देशः ।
न हि जातस्य मासः परिमाणम् । कस्य तर्हि ? त्रिंशद्रात्रस्य ।
तद्यथा ’ द्रोणो बदराणां देवदत्तस्य’ इति न देवदत्तस्य द्रोणः परिमाणम् । कस्य तर्हि ? बदराणाम् । ......
कं पुनर्भवान् कालं मत्वा आह - कालस्य येन समासः तस्य अपरिमाणित्वाद् अनिर्देश इति ?
येन मूर्तीनाम् उपचयाश्च अपचयाश्च लक्ष्यन्ते तं कालमित्याहुः । त्स्यैव कयाचित्क्रियया युक्तस्य अहरिति च भवति रात्रिरिति च ।
कया क्रियया ? आदित्यगत्या ।
तस्यैव असकृदावृत्तस्य मास इति भवति संवत्सर इति च भवति ।
Similarly , Panini rules - भूते (3-2-84) - but does not say - कस्मिन् भूते ? --
Here is Patanjali --
भूत इत्युच्यते । कस्मिन् भूते ? काले । न वै कालाधिकारो’स्ति । एवं तर्हि धातोः इति वर्तते । धातौ भूते ।
धातुर्वै श्ब्दः । न च श्ब्दस्य भूतभविष्यद्वर्तमानतायाः संभवो’स्ति !
शब्दे असंभवात् अर्थे कार्यं विज्ञास्यते ।
कः पुनर्धात्वर्थः ? क्रिया । क्रियायां भूतायाम् ।
Hari discusses at length --
There are many opinions / definitions of काल । Hari believes in the first one , शक्तिपक्षः -
शक्त्यात्मदेवतापक्षैः भिन्नं कालस्य दर्शनम्।
प्रथमं तदविद्यायां यद्विद्यायां न विद्यते ॥ (कालसमुद्देशः 62)
Hari thinks काल is an independent शक्ति of ब्रह्मन् ।
कालदर्शनम् is there in अविद्या but not in विद्या ।
Some scholars felt - it is not ब्रह्मशक्ति but कारणशक्ति ।
Others said - काल is आत्मा = जीवः।
Still some others opined - काल is a powerful देवता ।
कलाभिः प्रविभक्ताभिः प्रविभक्तं स्वभावतः।
केचिद्बुद्ध्यनुसंहारलक्षणं तं प्रचक्षते ॥(57)
Bauddhas argue that many kriyas are taken as a group by Buddhi and as such it is बौद्धः and not बाह्यः
वैशेषिकाः --
व्यापारव्यतिरेकेण कालमेके प्रचक्षते ।
नित्यमेकं विभुं द्रव्यं परिमाणं क्रियावताम् ॥ (1)
-- काल is different from क्रिया । it is a measurement - परिच्छेदकः , imperishable , सर्वव्यापी (विभुः) , द्रव्यम् ...
काल is परिच्छेदक of क्रिया --
दिष्टि-प्रस्थ-सुवर्णादि मूर्तिभेदाय कल्पते ।
क्रियाभेदाय कालस्तु , संख्या सर्वस्य भेदिका ॥(2)
दिष्टि is for measuring cloth etc. प्रस्थ is for rice etc.सुवर्ण is for gold etc, - these प्रमाण - परिमाण - उन्मान are for measuring things in concrete form . काल is for measuring non-concrete thing - क्रिया। संख्या can measure all the above things and itself .
तमस्य लोकतन्त्रस्य सूत्रधारं प्रचक्षते ।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥(4)
प्रतिबन्धः = उत्पत्त्यादेः निरोधः । अभ्यनुज्ञा = उत्पत्त्यादेः अनुज्ञा ।
(आविर्भाव and तिरोभाव of सांख्यम्)
तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रितैः ।
न हि भिन्नमभिन्नं वा वस्तु किंचन विद्यते ॥ (6)
due to different dharmas , although it is one , काल looks like many . For that matter no single thing can be stamped as भिन्नम् or अभिन्नम्।
In Devadatta is there difference or not - yes , because there is difference in his body etc. -- no because the same person is here - सो’यं देवदत्तः (प्रत्यभिज्ञाप्रत्यक्षम्,)
कालः = व्यापारः --
प्रत्यवस्थं तु कालस्य व्यापारो’त्र व्यवस्थितः ।
काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥(12)
उत्पत्ति - स्थिति - विनाश - at every stage there is काल and so it is विश्वात्मा।
जलयन्त्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः ।
स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥(14)
कलाः = पदार्थाः , कलयन् = विसर्जयन्
What is जरा described in आयुर्वेद --
जराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी ।
सा शक्तिं प्रतिबध्नाति जायन्ते च विरोधिनः ॥(24)
काल has got a शक्ति called जरा (वयोहानौ) and the same would obstruct the other शक्ति - यौवनम् , which is opposite and as a result there will be कार्यकरणासामर्थ्यम् , प्रज्ञामान्द्यम् , शुष्कत्वम् etc.
Why there is साम्य and वैषम्य in काल in terms of सत्कर्मानुष्ठानम् ordained in कल्प --
कर्तृभेदात्तदर्थेषु प्रकर्षापचयौ गतः ।
समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥(31)
When the people , who perform the karmas there will be difference - some may do good karmas and some may do bad karmas - so depending on the कर्तारः the काल is styled - कृतयुग - कलियुग etc. .काल is one .
Panini says भूत , भविष्यत् , वर्तमान etc --
भूतः पंचविधस्तत्र भविष्यंश्च चतुर्विधः।
वर्तमानो द्विधाख्यातः इत्येकादशकल्पना॥(38)
These eleven are the kinds of काल ।
शिक्षा says ह्रस्वदीर्घप्लुत , Vaisesika says चिरम् , क्षिप्रम् etc ? --
अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥
It is due to बुद्धिभेद but काल is one .
What about ज्योतिषम् ? --
उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।
कालस्याव्यतिपाते’पि ताद्धर्म्यमिव लभ्यते ॥
आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥
क्रियान्तरपरिच्छेदप्रवृत्ता या क्रियां प्रति ।
निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते॥ (75,76,77)
Whether you like it or not - one cannot ignore / cross the three Kalas - भूतभविषद्वर्तमान - which happen due to क्रियोपाधि --
तस्याभिन्नकालस्य व्यवहारे क्रियाकृताः ।
भेदा इव त्रयः सिद्धाः यान् लोको नातिवर्तते ॥(48)
Therefore there is any thing called कालः , it is अविद्या / माया but as in the case of दिक् and देश , we have to live with काल , mostly for Economic and Political purposes .
धन्यो’स्मि
--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)