Avaccheda and Pratibimba illustrations in the Yajnavalkya Smriti
याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/यतिधर्मप्रकरणम्
आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।
Just as the impartite space owing to limiting adjuncts, upadhis, such as pot, appears to be many and just as the single moon appears many being reflected in many water bodies, one Atman alone appears to be many owing to the many body-adjuncts.
These two most famous illustrations are extensively used in Advaita. Here are just a few examples:
1.
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ Bh.Gita.15.7
Bhashya: ममैव परमात्मनः नारायणस्य, अंशः भागः अवयवः एकदेशः इति अनर्थान्तरं जिवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरन्तनः ; यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा न निवर्तते च तेनैव आत्मना गच्छति, एवमेव ; यथा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाशः आकाशांशः सन् घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते ।
Both the examples can be seen in the above commentary.
2.
स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापित- नामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मनः Brahma Sutra Bhashya 2.1.14.
3.
रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६ ॥ Mandukya Karika 3.6
Bhashya: कथं पुनरात्मभेदनिमित्त इव व्यवहार एकस्मिन्नात्मन्यविद्याकृत उपपद्यत इति, उच्यते । यथा इहाकाशे एकस्मिन्घटकरकापवर- काद्याकाशानामल्पत्वमहत्त्वादिरूपाणि भिद्यन्ते, तथा कार्यमुदकाहरणधारणशयनादि, समाख्याश्च घटाकाशः करकाकाश इत्याद्याः तत्कृताश्च भिन्ना दृश्यन्ते, तत्र तत्र वै व्यवहारविषये इत्यर्थः । सर्वोऽयमाकाशे रूपादिभेदकृतो व्यवहारः अपरमार्थ एव । परमार्थतस्त्वाकाशस्य न भेदोऽस्ति । न चाकाशभेदनिमित्तो व्यवहारोऽस्ति अन्तरेण परोपाधिकृतं द्वारम् । यथैतत् , तद्वद्देहोपाधिभेदकृतेषु जीवेषु घटाकाशस्थानीयेष्वात्मसु निरूपणात्कृतः बुद्धिमद्भिः निर्णयः निश्चय इत्यर्थः ॥
4.
नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा ॥ ७ ॥
Mandukya Karika 3.7
Bhashya: ननु तत्र परमार्थकृत एव घटाकाशादिषु रूपकार्यादिभेदव्यवहार इति ; नैतदस्ति, यस्मात्परमार्थाकाशस्य घटाकाशो न विकारः, यथा सुवर्णस्य रुचकादिः, यथा वा अपां फेनबुद्बुदहिमादिः ; नाप्यवयवः, यथा वृक्षस्य शाखादिः । न तथा आकाशस्य घटाकाशो विकारावयवौ यथा, तथा नैवात्मनः परस्य परमार्थसतो महाकाशस्थानीयस्य घटाकाशस्थानीयो जीवः सदा सर्वदा यथोक्तदृष्टान्तवन्न विकारः, नाप्यवयवः । अत आत्मभेदकृतो व्यवहारो मृषैवेत्यर्थः ॥
This verse captures the purport of the Nrisimha Tapini Upanishad:
सुविभातमविभातमद्वैतमचिन्त्यमलिङ्गं
स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं
परमेव ब्रह्म भवति
य एवं वेद सोऽकामो निष्काम आप्तकाम
आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैष
सर्वस्य सर्वत्र न ह्यस्ति द्वैतसिद्धिरात्मैव
सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष
आत्मा पर एषैव सर्वं
सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो
निरस्ताविद्यातमोमोहोऽहमेवेति तस्मादेवमेवेममात्मानं
परं ब्रह्मानुसन्दध्यादेष वीरो नृसिंह एवेति ॥
All these passages deny duality, dvaita, and assert Advaita to be the supreme truth.
One who directly realizes this Supreme Advaitic Being attains Parabrahman himself. He becomes verily Brahman.
कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः The Nr.Ta. Upanishad itself has elucidated the purport of this passage.
Thus the unreal jivas entertain infinite emotions in their mind and consequently attain births in accordance with their thinking.
So says the Yajnavalkya Smriti:
अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् । । ३.१३२ । ।
The meaning of the verse can be found in the Hindi translation of this verse in the image. [Since the jivas entertain countless thoughts/feelings they attain to various bodies in consonance with those thoughts.]
Thus this Smriti denies the absolute multiplicity of jivas as admitted in the non-Advaitic schools.
The words of this Smriti are proof for the Upanishadic idea that Brahman itself appears as the jiva:
यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते ।
ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते । । ३.१२९ । ।
The question is: how can Ishwara come to indulge in mentation and attain to various births as a result thereof?
अनादिरादिमांश्चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः । । ३.१८३ । ।
Here 'Purusha: Paraha', the Supreme God becomes perceptible to the senses due to his taking birth (as jiva).
निमित्तं अक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते । । ३.६९ । ।
सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् ।
सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि । । ३.७० । ।
An unborn Brahman is said to be born due to body association. The same Brahman in the first stanza is referred to by the word 'sah = he' as 'sa jata isti kirtayte' ('he is stated to be born') and n the second stanza, as 'in the beginning of creation he creates the elements, etc.'. Thus, the same Brahman is born as the embodied jiva.
From with illustrations of avaccheda, llimitation, and pratibimba, reflection and the many verses of this Smriti, one can see that the same Brahman appears to be a jiva and a world.
महाभूतानि सत्यानि यथात्मापि तथैव हि ।
कोऽन्यथैकेन नेत्रेण दृष्टं अन्येन पश्यति । । ३.१४९ । ।
In this verse, the five elements are said to be 'real' because they are perceptible to the senses. To indicate that the Atman is in and through the various states of the body-mind complex and thus it (the Atman) is different from them, the elements are stated to be real. This reality is only relative, vyavaharika and not absolute, paramarthika.
This Yajnavalkya Smriti has a lengthy and complete commentary called 'Mitakshara' by Vijnaneswara who is said to be later Vidyaranya.
In this chapter of the Yajnavalkya Smriti, we find the concordance of the Nrisimha Tapini Upanishad.