दोषनिवारणम्।

20 views
Skip to first unread message

vasantha syamalam

unread,
Feb 20, 2015, 12:08:25 PM2/20/15
to sams...@googlegroups.com
क्षम्यताम् । पृथक् कृत्वा लिखतु। प्रमादवशात् ' पृथक् कर्तुं'  इति लिखितवती।

vasantha syamalam

unread,
Feb 20, 2015, 12:50:51 PM2/20/15
to sams...@googlegroups.com
तस्मिन् लिंके समासयुक्त शब्दानां अर्थः एव दीयते। अत एव अहं पृच्छामि। अधुना अपि १-१७-४ अत्र 'दिव्यसंहननान्वितान् = having supernatural bodies = 'दिव्यशरीरधारी' इति दत्तः। समास-विग्रहं कृत्वा यदि दीयते तर्हि प्रत्येकं शब्दस्य अर्थं ज्ञातुं शक्यते। अतएव अहं भवते कष्टं ददामि।

dhaval patel

unread,
Feb 20, 2015, 1:15:02 PM2/20/15
to samskrita

Dear Vasantha,
Please learn Sanskrit with help of some teacher.
It is not a good practice to ask questions on basic things like samAsa or sandhi of anvaya repetitively in group. If you dont grasp some specific issue, please read commentaries and even after that ig remains unresolved, it is advisable to float it in group.

Moderators may be in better position to say further.
There are many scholars who would be able to help you off list.

Regards.

vasantha syamalam

unread,
Feb 20, 2015, 9:04:10 PM2/20/15
to sams...@googlegroups.com
Thank you for your advice. I have some  knowledge of samas. but some times I find it difficult to make out. That is why I ask. O.K No problem. Thank you once again.

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

Ramakrishnan D

unread,
Feb 20, 2015, 9:35:40 PM2/20/15
to sams...@googlegroups.com

नमोनमः ।  पटेल् महोदय ! अस्मिन् संस्कृत-पथि बहवः सन्ति संस्कृतज्ञाः, संस्कृत-किञ्चिज्ञाः, अनभिज्ञाश्च । 

माता वसन्ता यत् पृच्छति तदन्येषामपि उपयोगाय भवति । संस्कृत-संशय-निवृत्तिः भविष्यति किल सन्धिर्वा भवतु

समासो वा । क्षम्यताम् ।

Hnbhat B.R.

unread,
Feb 20, 2015, 10:00:14 PM2/20/15
to sams...@googlegroups.com
On Sat, Feb 21, 2015 at 8:05 AM, Ramakrishnan D <r.va...@gmail.com> wrote:

नमोनमः ।  पटेल् महोदय ! अस्मिन् संस्कृत-पथि बहवः सन्ति संस्कृतज्ञाः, संस्कृत-किञ्चिज्ञाः, अनभिज्ञाश्च । 

माता वसन्ता यत् पृच्छति तदन्येषामपि उपयोगाय भवति । संस्कृत-संशय-निवृत्तिः भविष्यति किल सन्धिर्वा भवतु

समासो वा । क्षम्यताम् ।



क्षम्यताम्। "सर्वे सर्वे संस्कृतं पठन्तु" इत्येव सर्वेषामभिमतम्। नास्त्येवात्र भेदः। वाल्मीकिरामायणे प्रतिवाक्यं प्रतिश्लोकं प्रतिसर्गं वर्णनेषु समासाः, सन्ध्ययश्च भवन्त्येव सहस्रशः। तेषां सर्वेषामप्यत्र संशयनिवारणे क्रियमाणे, नः सन्तोष एव। परं तु सूचना एव दत्ता पटेलमहोदयेन, वाल्मीकिरामायणादिमहाग्रन्थानां पठनात् प्रागेव किंचिद् व्याकरणादिकमभस्तं चेत् उत्तरदायिनामन्येषां कार्यान्तरावकाशः स्यादिति। यदि अन्यत् सर्वं ज्ञातम्, किंचित् न ज्ञायते, तदा एव संशयस्योत्तरणं भवति, कदाचित्। किं यदि सर्वथापि न ज्ञायते, प्रतिवाक्यं संशया एव भवन्ति। 

अन्वयश्च दत्तः, समासार्थश्च दत्तः, आङ्गलभाषायाम्, येन संस्कृतेऽपि विग्रहवाक्यं कर्तुं शक्यते खलु इत् पटेलमहोदयस्याशयः। सन्देहनिवारणाय न कोऽपि कस्यापि विरोधः।









 

Ramakrishnan D

unread,
Feb 21, 2015, 1:12:28 AM2/21/15
to sams...@googlegroups.com

नमोनमः धन्यवादाश्च भट्-महोदयाय ।

अहमतीव सन्तोषमनुभवामि भवतः पत्रं पठित्वा यत् संस्कृते मनोहरमस्ति ।

साधारणतया  सर्वेऽपि अत्र संस्कृतविषये आङ्ग्लैव लिखन्ति न तु संस्कृतेन ।

यदि सर्वे संस्कृते लिखेयुः तर्हि, प्रयतेयुः तर्हि अति सुन्दरं भवेदिति मम आकाङ्क्षा ।

धन्यवादाः पुनः ।

रामकृष्णः ।


--

Hnbhat B.R.

unread,
Feb 21, 2015, 1:33:39 AM2/21/15
to sams...@googlegroups.com
2015-02-21 11:42 GMT+05:30 Ramakrishnan D <r.va...@gmail.com>:

नमोनमः धन्यवादाश्च भट्-महोदयाय ।

अहमतीव सन्तोषमनुभवामि भवतः पत्रं पठित्वा यत् संस्कृते मनोहरमस्ति ।

साधारणतया  सर्वेऽपि अत्र संस्कृतविषये आङ्ग्लैव लिखन्ति न तु संस्कृतेन ।

यदि सर्वे संस्कृते लिखेयुः तर्हि, प्रयतेयुः तर्हि अति सुन्दरं भवेदिति मम आकाङ्क्षा ।




संस्कृतेन लिखन्ति वा आङ्गलभाषया लिखन्ति वा, उभयथापि स्पष्टता भवति चेत् तदेव सुन्दरं सप्रयोजनं च भवति। लेखनाभ्यासश्च भवति तात्पर्यप्रकाशनेन, न भाषाभेदेन इति मम मतम्। यदि संस्कृतेन वा, आङ्गलेन, माध्यमेन प्रश्नः क्रियते, तेनैव माध्यमेनोत्तरदानं सुतरां सुन्दरम्, स्पष्टतरं सप्रयोजनं च भवति, समूहे। अन्येषां कृते स्वस्वाभिप्रायप्रकाशनं भाषाव्यवहारस्य प्रयोजनं मुख्यम्। स्वस्वरुच्यनुकूलतया सर्वस्यापि स्वभाषायां ममता स्वाभाविक्येव।




Hnbhat B.R.

unread,
Feb 21, 2015, 8:56:16 AM2/21/15
to sams...@googlegroups.com
यदि मराठीभाषा ज्ञायते, अत्र कश्चित् विग्रहवाक्यकोशः वर्तते, यत्र
अनेकेषां सामान्यशब्दानां विग्रहवाक्यानि संस्कृते दत्तनि, येषामर्थश्च
मराठीभाषायां दत्तश्च।

https://drive.google.com/file/d/0B-ueXU4do-o_Y0VBUV8xS0RCVFU/view?usp=sharing

सर्वैर्यद्यपेक्षा, स्वीकर्तुं शक्यते।
Reply all
Reply to author
Forward
0 new messages