नूपुरम् 21/08/17
%%%%%%%%%%%%%%
आभूषणेनाभूषिता नारी गोमयेन लिप्तं गृहम्।
प्रसादपूरिता वाणी सदा भवति आह्लादकारिका।।
आभूषणेषु नारीणां नूपुरमद्भुतं श्रुतम्।
ध्वनिना भवति प्रतीतिर्यत् कामः स्वयमागतः।।
प्रकृत्या भवन्ति नार्यश्च यद्यप्याकर्षिकाः सदा।
आभूषणैस्तु सौन्दर्यं वर्धते वै शतगुणं तथा।।
नूपुरैः सज्जिताः नृत्यांगनाश्च
नृत्यं कुर्वन्ति यदा हि वै।
दर्शकानां मनांसि अवशीभूत्वा
चञ्चलतां यान्ति सर्वदा।।
नूपुरयुक्तौ बालचरणौ वै यदा नृत्यतो हि प्रांगणे।
सुखमनुभवन्ति यथा पितरो न शब्दैः कथयितुं
हि पार्यते।।
नूपुरेणैव सीतायाः अन्वेषणमभवत्तदा।
नूपुरावेव जानामि लक्ष्मणेन कथितस्तदा।।
डा गदाधर त्रिपाठी