काचन शङ्का

21 views
Skip to first unread message

Subrahmanyam V

unread,
Mar 24, 2012, 1:58:13 AM3/24/12
to Bharateeya Vidwat Parisht
नमो विद्वद्भ्यः
आभ्यन्तरबाह्यप्रयत्नयोः वर्णप्रवृत्तिविषये काचनजिज्ञासा वरीवर्ति।
वर्णोत्पत्तौ कदा कथं च एतयोः प्रयत्नयोः प्रवृत्तिः जायते इति ज्ञातुमिच्छामि।

इति भवद्विधेयः
--
......................................................................
Dr.V.Subrahmanyam
        Deputy Director
        Sanskrit Academy
        (Recognized and funded by Rashtriya Sanskrit Sansthan, New Delhi)
        Osmania University
        Hyderabad - 500 007


Phone : +91 98480 94890
Email : vsupa...@gmail.com

Subrahmanyam V

unread,
Mar 24, 2012, 2:33:14 AM3/24/12
to Bharateeya Vidwat Parisht
उकारः उच्चरितः। एषः विवृत इति आभ्यन्तरप्रयत्नवान्, उदात्तानुदात्तस्वरितेति बाह्यप्रयत्नवान् । उभेऽपि आस्यप्रयत्ने। इदानीम् उ इत्यस्य वर्णस्य आभ्यन्तबाह्यत्वप्रवृत्तिभेदः कथं निरूपणीयः। इति प्रश्नस्य आशयः।


इति भवद्विधेयः

2012/3/24 Subrahmanyam V <vasan...@gmail.com>
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com

Hnbhat B.R.

unread,
Mar 24, 2012, 3:15:06 AM3/24/12
to vasan...@gmail.com, Bharateeya Vidwat Parisht
Inline image 2


Inline image 1

--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


image.png
image.png

narayanan er

unread,
Mar 24, 2012, 3:16:06 AM3/24/12
to vasan...@gmail.com, BHARATIYA VIDVAT
विद्वद्भ्यो नमः।
तुल्यास्यप्रयत्नं सवर्णम् (पा.सू.१।१।८) इत्यत्र लघुसिद्धान्तकौमुद्यामित्थमुक्तम्-
यत्नो द्विधा-आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा-स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। बाह्यप्रयत्नस्त्वेकादशधा-विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरतिश्चेति।-इति।
अत्र प्रयत्नयोः स्पृष्टादीनां पञ्चानां कथमाभ्यन्तरत्वम्? विवारादीनां च कथं बाह्यत्वम्?  इत्येव प्रश्नस्याशयो मे प्रतिभाति, यः सुब्रह्मण्येन पूर्वं मुखतोऽपि सूचितः।
तत्र काशिकायाम्- स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता चेति चत्वार आभ्यन्तराः प्रयत्नाः-इति। प्रयतनं प्रयत्नः स्पृष्टताऽदिर्वर्णगुणः-इति। एवं चेत् कोऽयं वर्णगुणः?
बालमनोरमायां च-यत्नानामाभ्यन्तरत्वं बाह्रत्वं च वर्णोत्पत्तेः प्रागूर्ध्वभावित्वमिति पाणिन्यादिशिक्षासु स्पष्टम्-इत्युक्तम्। एवं चेत् किमिदमूर्ध्वभावित्वं नाम?
पाणिनीयशिक्षायाम्- आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥६॥ मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् प्रातःसवनयोगं तं छन्दोगायत्रमाश्रितम्॥७॥ सोदीर्णो मूर्ध्न्यभिहतो वक्‍त्रमापद्य मारुतः। वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः॥९॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः। इति वर्णविदः प्राहुर्निपुणं तं निबोधत॥१०॥ अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः। शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः॥३८॥ ञमोऽनुनासिका नह्रो नादिनो हझषः स्मृताः। ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः॥३९॥-इति
पातञ्जलमहाभाष्येपि-
अथ कः प्रयत्नः । प्रयतनं प्रयत्नः । प्रपूर्वात्यततेः भावसाधनः नङ्प्रत्ययः । यदि लौकिकं आस्यं किं आस्योपादाने प्रयोजनं । सर्वेषां हि तत्तुल्यं भवति । वक्ष्यति एततः प्रयत्नविशेषणं आस्योपादानं इति । पाणिनीयसूत्र १,१।९।२) कि.,६१।८-६२।१४ रो.,१९७-२०२ (कात्यायन वार्तिक)सवर्णसञ्ज्ञायां भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात्(वार्तिकान्त) । सवर्णसञ्ज्ञायां भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशां । किं कारणं । प्रयत्नसामान्यात। एतेषां हि समानः प्रयत्नः । (कात्यायन वार्तिक)सिद्धं तु आस्ये तुल्यदेशप्रयत्नं सवर्णम्(वार्तिकान्त) । सिद्धं एतत। कथं । आस्ये येषां तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यं । एवं अपि किं आस्योपादाने प्रयोजनं । सर्वेषां हि तत्तुल्यं । प्रयत्नविशेषणं आस्योपादानं । सन्ति हि आस्यात्बाह्याः प्रयत्नाः । ते हापिताः भवन्ति । तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति । के पुनः ते । विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति । तत्र वर्गाणां प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः । एके अल्पप्राणाः अपरे महाप्राणाः । तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः । एके अल्पप्राणाः अपरे महाप्राणाः । यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जं । आनुनासिक्यं तेषां अधिकः गुणः । एवं अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति । किं कारणं । बाह्यं हि आस्यात्स्थानं अवर्णस्य । सर्वमुखस्थानं अवर्णं एके इच्छन्ति । एवं अपि व्यपदेशः न प्रकल्पते : आस्ये येषां तुल्यः देशः इति । व्यपदेशिवद्भावेन व्यपदेशः भविष्यति । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासं एव अस्तु । ननु च उक्तं सवर्णसञ्ज्ञयां भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यातिति । न एषः दोषः । न हि लौकिकं आस्यं । किं तर्हि । तद्धितान्तं आस्यं : आस्ये भवं आस्यं । शरीरावयवात्यत। किं पुनः आस्ये भवं । स्थानं करणं च । एवं अपि प्रयत्नः अविशेषितः भवति । प्रयत्नः च विशेषितः । कथं । न हि प्रयतनं प्रयत्नः । किं तर्हि । प्रारम्भः यत्नस्य प्रयत्नः । यदि प्रारम्भः यत्नस्य प्रयत्नः एवं अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति । प्रश्लिष्टवर्णौ एतौ । अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति । विवृततरावर्णौ एतौ । एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति । न एतौ तुल्यस्थानौ । उदात्तादीनां तर्हि सवर्णसञ्ज्ञा न प्राप्नोति । अभेदकाः उदात्तादयः । अथ वा किं नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति ।प्रयतनं एव प्रयत्नः । ततेव च तद्धितान्तं आस्यं । यत्समानं तताश्रयिष्यामः । किं सति भेदे । सति इति आह । सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यं । कुतः एतत। भेदाधिष्ठाना हि सवर्णसञ्ज्ञा । यदि हि यत्र सर्वं समानं तत्र स्यात्सवर्णसञ्ज्ञावचनं अनर्थकं स्यात। यदि तर्हि सति भेदे किं चित्समानं इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति । एतेषां हि सर्वं अन्यत्समानं करणवर्जं । एवं तर्हि प्रयतनं एव प्रयत्नः ततेव तद्धितान्तं आस्यं न तु अयं द्वन्द्वः : आस्यं च प्रयत्नः च आस्यप्रयत्नं इति । किं तर्हि । त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषां इति । अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषां इति । अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषां इति । पाणिनीयसूत्र १,१।९।३) कि.,६२।१५-२६ रो.,२०२-२०३ तस्य । तस्य इति तु वक्तव्यं । किं प्रयोजनं । यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात। अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत। (कात्यायन वार्तिक)तस्य अवचनं वचनप्रामाण्यात्(वार्तिकान्त) । तस्य इति न वक्तव्यं । अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात्न भवति । वचनप्रामाण्यातः सवर्णसञ्ज्ञावचनसामर्थ्यात। यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात्सवर्णसञ्ज्ञावचनं अनर्थकं स्यात। (कात्यायन वार्तिक)सम्बन्धिशब्दैः वा तुल्यम्(वार्तिकान्त) । सम्बन्धिशब्दैः वा पुनः तुल्यं एतत। तत्यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यं , पितरि शुश्रूषितव्यं इति । न च उच्यते स्वस्यां मातरि स्वस्मिन्वा पितरि इति सम्बन्धात्च एतत्गम्यते या यस्य माता यः च यस्य पिता इति । एवं इह अपि तुल्यास्यप्रयत्नं सवर्णं इति अत्र सम्बन्दिशब्दौ एतौ । तत्र सम्बन्धातेतत्गन्तव्यं : यत्प्रति यत्तुल्यास्यप्रयत्नं तत्प्रति तत्सवर्णसञ्ज्ञं भवति इति ।-इत्युक्तम्।

प्रयत्नोऽयं वर्णगुणो भाषाशास्त्रदृष्ट्या प्रतिपादनीयो विद्वद्भिर्येन सुब्रह्मण्यस्य ममापि संशयनिवृत्तिः स्यात्। तदर्थं विद्वांसः सविनयं प्रार्थिताः।
नारायणः।


From: Subrahmanyam V <vasan...@gmail.com>
To: Bharateeya Vidwat Parisht <bvpar...@googlegroups.com>
Sent: Saturday, 24 March 2012 11:28 AM
Subject: {भारतीयविद्वत्परिषत्} काचन शङ्का

Dipak Bhattacharya

unread,
Mar 24, 2012, 4:45:00 AM3/24/12
to drerna...@yahoo.com, Bharatiya Vidvatparishat, BHARATIYA VIDVAT
 24mr12
<अत्र प्रयत्नयोः स्पृष्टादीनां पञ्चानां कथमाभ्यन्तरत्वम्>
स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतानामाभ्यन्तरत्वं स्पष्टम् आस्याभ्यन्तरस्थानामोष्ठतालुजिह्वादीनां न्यासभेदमूलकत्वात्तेषां भेदानाम्। अपरेषु तु श्वासादीनामिन्द्रियबाह्यानामुपयोगाद्बाह्यत्वम्। ते अष्टाविति भाष्यकारः। उदात्तादिष्वपि आयामाद्यास्यबहिर्भूतानामुपयोगाद्बाह्यत्वमुत्तरकाल एव स्वीकृतमिति मे मतिरितिविदुषांवशंवदस्यदीपकभट्टाचार्यस्य।  
 


From: narayanan er <drerna...@yahoo.com>
To: "vasan...@gmail.com" <vasan...@gmail.com>
Cc: BHARATIYA VIDVAT <bvpar...@googlegroups.com>
Sent: Saturday, 24 March 2012 12:46 PM
Subject: Re: {भारतीयविद्वत्परिषत्} काचन शङ्का

Dipak Bhattacharya

unread,
Mar 24, 2012, 12:02:42 PM3/24/12
to Bharatiya Vidvatparishat


From: Dipak Bhattacharya <dbhattach...@yahoo.com>
To: Ram Sharma <ramkara...@yahoo.com>
Sent: Saturday, 24 March 2012 9:12 PM

Subject: Re: {भारतीयविद्वत्परिषत्} काचन शङ्का

24mr12
Pāṇini did not clarify the terms. It is from later grammarians who followed the Pāṇinīyaśikṣā, supposedly composed by the Master himself, to explain the terms that we can guess the positions. As explained by Jñānendrasarasvatī in the Tattvabodhinī the difference between internal (ābhyantara) and exernal (bāhya) efforts lies in whether they occur before the production of the sound or not. Internal ones take place before the production while when the wind plays its part after the production one calls the effort external. This position is clear. The tongue touches the upper palate before the sound is produced. So the spṣṭa effort is pre-emission. But the effort made for inducing the mahāprāṇa character, say h, is made after the production of the sparśa sound . Personally I believe that the external effort is made not after but along with the emission while the internal one like, say, touching (sparśa) is made before. This is apparent even without phonography. But phonography with video of the oral movement might confirm.
Best
DB


From: Ram Sharma <ramkara...@yahoo.com>
To: dbhattach...@yahoo.com
Sent: Saturday, 24 March 2012 8:16 PM

Subject: Re: {भारतीयविद्वत्परिषत्} काचन शङ्का

As I have been able to understand(rightly or wrongly?),the abhyantara prayatna takes place inside the mouth.There are five  immobile points of articulation,viz kaNTha,talu,Muurdhan,danta and OsHTha.The jihvaa (including its front,middle and reverse parts) is a mobile tool (karaNa).In SpRsHTa,jihva touches the respective points of articulation fully.In IisHatspRsHTa,its touch is just symbolic.In vowels it is almost effortless;the mouth is open(vivRta),alittle or wide open.
      Bahya prayatna takes place outside oral cavity.Depending on the closeness of the two vocal chords or their openness it is ghosHa(preceded by saMvara and Nada) and aghoSHA (preceded by vivara and shvasa) respectively .Similarly,intense vol of air brings about MahapraNa sounds and lesser vol thereof gives rise to AlpapraNa sounds.
          All the best,
     Ram Karan Sharma

--- On Sat, 3/24/12, Dipak Bhattacharya <dbhattach...@yahoo.com> wrote:

Subrahmanyam V

unread,
Apr 2, 2012, 2:08:09 AM4/2/12
to dbhattach...@yahoo.com, Bharatiya Vidvatparishat
दीपकाचार्याय
इदानीमिदं स्पष्टम्। धन्यवादाः।

2012/3/24 Dipak Bhattacharya <dbhattach...@yahoo.com>
Reply all
Reply to author
Forward
0 new messages