तिरुप्पावै------पाशुरम् १५ -----अवतारिका---
पूर्वतनपाशुरे शङ्खचक्रधरं पूण्डरीकाक्षं गोपकन्याः कीर्तितवत्यः।अस्मिन् पाशुरे प्रबोध्यमाना गोपिका किञ्चिद्वैलक्षण्ययुता।एषा तु, भगवन्नामसङ्कीर्तनं कुर्वन्तीनां गोष्ठीं सेवितुमिच्छति।
तदनुसृत्य गोदादेवी सखीभिस्सह तां प्रबोधयति।एतत्पाशुरं सम्भाषणरूपेण प्रवर्तते।
तमिळपाशुरम्--"एल्ले इळङ्गिळिये! इन्नमुरङ्गुदियो? शिल्लेन्रळै येन्मिन्,पोदरुगिन्रेन्
वल्लै युन् कट्टुरैकळ् पण्डेयुन् वायरितुम्,वल्लीर् कळ् नीङ्गळे;नानेदानायिडुग
ओल्लै नीपोदाय् उनक्केन्न वेरुडैमै?एल्लारुं पोन्दारो?पोन्दार् पोन्देण्णिक्कोळ्
वल्लानै कोन्रानै मात्तारै मात्तळिक्क वल्लानै,मायनै प्पाडेलोरेम्बावाय्॥"
संस्कृतम्--श्लो।"हे बालमुग्धशुकि! किं स्वपिषीह चाद्य? मा दुस्सहं ह्वयत यामि समृद्धपूर्णाः।
विज्ञे क्षमे तव वदावद वाग्मितां प्राक् जानीम एव,ननु यूयमहं समर्था॥
स्यां तु द्रुतं त्वमनुगच्छ,किमन्यदास्ते कार्यं तु ते?किमु गतास्सकलाः?गतास्ताः।
कुर्यास्त्वमेव गणनां,मददन्तिहन्तुः चाणूरमुष्टिकबकासुरकंसहन्तुः॥
कुब्जाप्रसूनकर गोपजनादिगोप्तुः गातुं यशो रिपुबलार्दनमायिनोऽस्य।
ध्येयः फलं च करणं च स एव कृष्णः,वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥
प्रतिपदार्थः----(गृहान्तस्स्थितगोपिकया बहिस्स्थितगोपिकानां संवादोऽत्र वर्ण्यते)
एल्ले इळङ्गिळिये=हे बालशुकि!;इन्नम्=अद्यापि;उरङ्गुदियो?=निद्रासि वा?;
नङ्गैमीर्=परिपूर्णाः,;शिल् एन्रु=झिल्लिका इव;अळै येल् मिन्=माऽह्वयत;पोदरुगिन्रेन्=
आगच्छामि;वल्ले=हे नैपुण्यवति!;उन् कट्टुरै गळ्=तव निपुणानि वचनानि;उन् वाय्=
तव वाचं च;पण्डे=प्रागेव;अरिदुम्=जानीमः;(अन्तस्था-"नीङ्गळे=यूयमेव;वल्लीर् गळ्=
निपुणाः;नानेदान्=अस्तु,अहमेव;आयिडुग=(निपुणः)स्याम्;(बहिस्स्थिताः)नी=त्वम्;ओल्ले=शीघ्रम्;पोदाय्=आगच्छ;उनक्कु=तव;वेरुडैमै=प्रेत्येकता;एन्न=किम्;(अन्तस्था)
एल्लारुं पोन्दारो=सर्वाः गताः किम्?;पोन्दार्=गताः;पोन्दु=आगत्य;एण्णिक्कोळ्=गणयतु;वल्लानै=
बलिष्ठं (हस्तिनं)=कोन्रानै=हन्तारं;मात्तारै=शत्रूणां;मात्तु=बलं;अळिक्कवल्लानै=नाशयितुं समर्थं;मायनै=आश्चर्यगुणचेष्टितं(श्रीकृष्णम्);पाड=कीर्तयितुम्;(आगच्छ,इति अध्याहार्यम्)
विशेषाः :--अत्र कुवलयापीडो नाम गजः।तस्य हन्ता श्रीकृष्णः।कुवलयं नाम भूमण्डाम्।तं पीडयतीति=कुवलयापीडः=अहङ्कारः";चाणूरमुष्टिकौ कामक्रोधौ;तयोरपि संहर्ता श्रीकृष्ण एव।
अत्र शुकशब्देन तिरुमङ्गै याळ्वार् स्मर्यते।शुकः किङ्करोति? यदुक्तम्भवत्यस्माभिः तदेव शुकोऽ
प्यनुवदति।तिरुमङ्गै आळ्वारोऽपि स्वेन रचिते प्रबन्धषट्के नम्माळ्वारस्य श्रीसूक्तीरेव
अनुगृहीतवान्।तिरुमङ्गैयाळ्वार् "नम्माळ्वार् एव स्वस्मै तिरुवाय् मोळि प्रबन्धं अनुगृहीतवा"निति कथितवान्।अन्तस्स्थितगोपिकाया इव तिरुमङ्गैयाळ्वारस्यापि वैलक्षण्यमस्ति।शिरिय तिरुमडल्,पेरिय तिरुमडल् इति ग्रन्थद्वयरचनावैलक्षण्यमेव तेषां
वैलक्षण्यम्।इति दिङ्मात्रेण।
अभिवाद्य,
ऐवियन्।