MU 6.146

34 views
Skip to first unread message

Lokesh Sharma

unread,
Apr 1, 2022, 12:08:32 AM4/1/22
to yoga vasishtha
Could someone translate this?

Dear Jiva Das ji

How are you? If you have time could we collaborate on this?


वसिष्ठः
यथा पुस्तमयं सैन्यं महारम्भम् अपि स्फुटम् ।
विद्यमानम् अनन्तं च सहस्राङ्गायुधादिकम् ॥1॥

स्वरूपं प्रति तज् जाड्यान् नित्यासम्भवदीहनम् ।
अरूपालोकमननम् अदिक्कालकलादिकम् ॥2॥

केवलं केवलं शान्तं समनिर्वाणम् आत्मनि ।
दृष्टैर् अनुमितैर् ज्ञातैर् इतरेण दशाभ्रमैः ॥3॥

मनाग् अप्य् अपरामृष्टं विद्यमानम् असन्मयम् ।
अहमादित्वम् आद्यं च तथैवाखण्डितं जगत् ॥4॥

ब्रह्मपुस्तमयं सर्वं विद्यमानम् असन्मयम् ।
रूपालोकमनस्कारशब्दार्थपरिवर्जितम् ॥5॥

अन्येनानुमितैर् अर्थैर् मुक्तम् आत्मनि संस्थितम् ।
न च सत्यं न चासत्यम् आत्मन्य् अद्वयतावशात् ॥6॥

रामः
अन्यो ऽस्ति पुस्तसैन्यानाम् अस्मदादिर् मुनीश्वर ।
अस्मदादेस् तु को ऽन्यस् स्याद् अनन्ताद् ब्रह्मणः पदात् ॥7॥

वसिष्ठः
नास्त्य् एव यस् स नो ऽन्यो ऽस्ति ब्रह्मपुस्तमयात्मकः ।
असन्न् अभ्युदितो मोहः प्रेक्षितो यो न लभ्यते ॥8॥

स एतान् असतो ऽनन्यान् दूराद् भावविकारकान् ।
पश्यत्य् उन्मत्तको जन्तुर् जीवन्न् आत्ममृतिं यथा ॥9॥

स एषो ऽप्रेक्षणात्मैव शुक्तौ रजतधीर् इव ।
न विद्यते प्रेक्षितस् सञ् शुक्तौ रजतधीर् इव ॥10॥

अस्माभिः प्रेक्षितस् तेन नूनं निर्मूलतां गतः ।
अनालोकः पुरो रूढं वस्तु नेति विलोकनात् ॥11॥

यैस् तु न प्रेक्ष्यते तेषां शतशाखं विजृम्भते ।
असत्य एव सत्येन बालवेतालसैन्यवत् ॥12॥

रामः
आसृष्टिकरम् आरुद्रम् इयं भ्रान्तिर् उपस्थिता ।
तथाप्य् अनन्तदुःखाय किं शुभं ज्ञातयानया ॥13॥

वसिष्ठः
असन् निवर्तते राम क्षणाद् एव निरीक्षितम् ।
सत्यं तु वस्तु कृच्छ्रेण क्षीयते नैव वानघ ॥14॥

अविद्या ज्ञातमात्रैव शाम्यत्य् आशु न बाधते ।
न विप्रलम्भयत्य् अन्तर् मृगतृष्णाम्बुधीर् इव ॥15॥

यद् एवास्याः परिज्ञानं स एवास्याः परिक्षयः ।
श्रेयसे परमायैव मित्रे शत्रुधियो यथा ॥16॥

परिज्ञातैव गलति लगत्य् अज्ञानरूषिता ।
स्वभावतश् च नास्त्य् एव मिथ्या यक्षमतिर् यथा ॥17॥

नास्त्य् अविद्यालम् इत्य् एव प्रत्ययो ज्ञानम् उच्यते ।
रूढिं गताज्ञे ज्ञे त्व् एषा ब्रह्म मोक्षस् स एव च ॥18॥

असत् प्रेक्षितम् एवासत् सत् तु नैव निवर्तते ।
यदासत्यजगद्भ्रान्तिस् तदैषाशु निवर्तते ॥19॥

कल्पनामात्रसम्पत्तिर् अकल्पनविलायिनी ।
मनस्सत्तेव मृद्वङ्गी नरायत्तभवाभवा ॥20॥

पुरुषायत्तजननमरणायाम् अखिन्दतः ।
यथावद् अस्यां बुद्धायां मोक्ष एवावशिष्यते ॥21॥

अद्रिद्यूर्वीनदीशादिकल्पनामात्रकात्मकाम् ।
पीत्वाकल्पनमात्रेण निर्वाति निपुणं पुमान् ॥22॥

यदि शैलादि सत्यं स्यात् तत् केन विनिवार्यते ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥23॥

यथा प्रसरति स्पन्दाच् चक्रवृन्दम् असज् जले ।
तथोल्लसति सङ्कल्पाच् चित्खे संसारमण्डलम् ॥24॥

निजस्पन्दवशाद् एकं शतावर्तं पयो यथा ।
निजस्पन्दवशाद् एकं जगदात्म परं तथा ॥25॥

प्रविचारितम् अन्विष्टं यावच् चक्रादि नाम्भसि ।
अस्ति नापि च सर्गादि चिद्व्योम्नि न च कल्पना ॥26॥

स्वयत्नमात्रसङ्कल्पप्राप्यौ सर्गापवर्गकौ ।
य एव रोचते यस्मै तयोस् तं सो ऽनुगच्छति ॥27॥

अवित्त्वाद् अपवर्गत्वं वित्त्वाज् जन्मचमत्कृतिः ।
वेद्यम् अस्ति च नो सत्यं यथेच्छसि तथा कुरु ॥28॥

असद् वेद्यं विनिर्माय भुङ्क्ते क इव दुःखदम् ।
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥29॥

क ईदृशो ऽस्ति मुक्तात्मा यो विनिर्माय यक्षकम् ।
तेनैव घट्टयत्य् आर्तं स्वयम् आत्मानम् अक्षतम् ॥30॥

यस्मै वा सर्गवेतालसमुत्थानं विरोचते ।
आत्मनाशाय सङ्कल्पाद् उत्थापयतु सो ऽङ्ग तम् ॥31॥

दृश्यं निर्माय द्रष्टृत्वम् एत्यात्मानं निबध्य च ।
य इच्छति सुखं स स्वं विदधातु यथेप्सितम् ॥32॥

यथाभूतार्थकथने वयं नाम समुद्यताः ।
श्रुत्वा सत्यम् असत्यं तु गृह्णातु स्वेच्छया जनः ॥33॥

सर्गार्थी सर्गयुक्तीहो मोक्षार्थी मोक्षयुक्तिमान् ।
भवत्व् अत्र महाबाहो न नः कश्चिद् अपि ग्रहः ॥34॥

सर्गाद् व्यावृत्तसंविद् यस् सबाह्याभ्यन्तरात्मनः ।
सर्गासत्तावबोधात्मा सो ऽमृतत्वाय कल्पते ॥35॥

सर्गासत्ताप्रत्ययेन सर्गसंविन् निवर्तते ।
साहन्ता समनस्कारा शिष्यते यद् अनाम तत् ॥36॥

सुविचारितम् अन्विष्टं यावत् सर्गो न विद्यते ।
साहन्तादिमनस्कारः किम् अन्यद् भ्रमकारणम् ॥37॥

पातालम् आविशसि यासि नभो विलङ्घ्य दिङ्मण्डलं भ्रमसि चेत् तद् अनात्मतात्मा ।
भ्रान्तीतरो ऽहम् इति नास्ति न सर्गवर्गस् स्पन्देतरो ऽनिल इवाम्ब्वितरेव धारा ॥38॥  
Reply all
Reply to author
Forward
0 new messages