fm6124

20 views
Skip to first unread message

Lokesh Sharma

unread,
Feb 10, 2022, 9:58:03 AM2/10/22
to yoga vasishtha, Avinash Sathaye
नमः सर्वेभ्यः

Could someone translate this very interesting sarga which is not available in YV?

मनुः
सर्गात्मभिर् विभुस् स्पन्दक्रीडितैर् बालवन् निजाम् ।
सत्तां मोहयतीवान्तस् सावधानो भवात्र भोः ॥1॥

सङ्कल्प्यात्मा स्वयं द्वैतं चिरं शोचति योनिषु ।
स्वयम् अद्वैतसङ्कल्पात् कालेनायाति निर्वृतिम् ॥2॥

स्वयम् अस्य तथा शक्तिर् उदेत्य् आबध्यते यथा ।
स्वयम् अस्य तथा शक्तिर् उदेत्य् आमुच्यते यथा ॥3॥

न लभ्यते प्रवचनैर् न धिया न तपश्श्रुतैः ।
यदोदयेच्छाम् आयाति तद् आत्मात्मानम् ईक्षते ॥4॥

अहो नु चित्रा मायेयं बत विष्वग् विमोहिनी ।
सर्वाङ्गप्रोतम् अप्य् आत्मा यद् आत्मानं न पश्यति ॥5॥

दृष्ट्वा सर्वगम् आत्मानम् अनन्तम् अवनीश्वर ।
निवर्तते शरीरास्था ततो दुःखैर् न लिप्यते ॥6॥

चन्द्रार्कवह्नितप्तायोरत्नादीनां यथार्चिषः ।
यथा पत्त्रादि वृक्षाणां निर्झराणां यथा कणाः ॥7॥

तथेदं ब्रह्मणि स्फारे जगद् बुद्ध्यादि कल्पितम् ।
दुःखप्रदम् अतज्ज्ञानां तद् एवातद् इव स्थितम् ॥8॥

यथा वाहवशाद् वारि दामादिरचनां वहेत् ।
प्रकृतिर् याति नानात्वं तथा स्पन्दवशाद् इयम् ॥9॥

यथा सरित्पयःकोशे वाहस् स्पन्दी न लक्ष्यते ।
तथाजस्रं विरचयन् सर्गम् आत्मा न लक्ष्यते ॥10॥

यथा स्वच्छस्य सोम्यस्य महतो ऽवहतो ऽनिशम् ।
वारिणो ऽप्य् अंशुभिन्नस्य कोशस्पन्दो न लक्ष्यते ॥11॥

तथा सर्वगतस्यापि दाम्नि व्योम्न्य् अथ वाश्मनि ।
अनावृतस्यानन्तस्य सतस् सत्ता न लक्ष्यते ॥12॥

सोम्यस्यावहतो वारेः कोशस्पन्दो यथात्मगः ।
न सन् नासन् न च पृथक् सत्ता चिद्वपुषस् तथा ॥13॥

स्वसङ्कल्पात्मिकां यत्र सर्वशक्तितया स्वयम् ।
चित्तताम् एति तत्रैतत् तत् प्रस्फुरद् इव स्थितम् ॥14॥

स्वसङ्कल्पात्मिकां यत्र सर्वशक्तितया स्वयम् ।
जहाति चित्ततां तत्र सत् संशान्तम् इव स्थितम् ॥15॥

इक्ष्वाकुः
एवं चेत् तन् महाभाग दृषदादिर् महाकृतिः ।
पार्थिवो ऽयं बृहद्भागः किम् उत्थो ऽथ किमात्मकः ॥16॥

मनुः
शक्तयस् सकला एव चिन्मात्रे ब्रह्मणि स्थिताः ।
वटबीजे वटलतापत्त्रपुष्पफलादिवत् ॥17॥

जडाजडाभिधे शक्ती सर्वशक्तेस् स्त आत्मनः ।
शक्तीनाम् उत्तमे हेम्नि काठिन्यद्रवते यथा ॥18॥

रूपालोकमनस्कारविषयत्वम् उपागता ।
जाड्यनाम्नी तयोर् एका यासौ भूम्यादिरूपिणी ॥19॥

नैषा प्रजायते नापि कदाचित् प्रविलीयते ।
स्वाङ्गभूता सतो नित्यम् आकाशकोशवत् स्थिता ॥20॥

ब्रह्मणो ऽव्यतिरिक्तेयम् इति यस् सर्परज्जुवत् ।
असदभ्युदितो मोहस् स बोधेन विलीयते ॥21॥

नैषा भावविकाराख्याम् एति शुद्धचिदात्मनि ।
एषा किल कणोर्म्यम्बु पयसीव चिति स्थिता ॥22॥

यत् सतो ऽसत्त्वम् असतस् सत्त्वं वा विकृतिर् हि सा ।
अत्यन्तान्यस्वरूपत्वान् नास्ति तत् परमात्मनि ॥23॥

असत्तया सतो राजन्न् असतश् चैव सत्तया ।
विनष्टाकृतिर् अस्येति विकाराद्य् अभिधीयते ॥24॥

यत् त्व् अङ्कुरे फलादित्वं क्षीरादौ वा घृतादिता ।
सत्तावभासमात्रं तत् स्फुरत्य् अम्ब्व् इव वीचिभिः ॥25॥

यद् यथा दृश्यते यत्र तत् तथा तत्र विद्यते ।
देशकालविभागात्म तथा संवेदनात्मकं ॥26॥

देशकालान्तरगतो ऽप्य् एक एव यथा गिरिः ।
बीजं फलान्तम् अप्य् एवम् एकम् अत्रान्यतास्ति नो ॥27॥

वटता वटधानायां यादृक्कालोदया यथा ।
तथा जडाजडेयं श्रीस् संस्थिता चिन्मयात्मनि ॥28॥

आकारराशिरूपेण भूरिभावविकारिणा ।
आभास एव स्फुरति स्वप्नेनेव मनो नृप ॥29॥

इक्ष्वाकुः
शैलाद्याकारता स्थूला यथास्य परमात्मनः ।
स्फुरत्य् असत्या सत्या वा तथा वद पुनर् मम ॥30॥

मनुः
इति सर्वं समं शान्तं चिद्व्योम ततम् अव्ययम् ।
अपर्यन्तम् अनाभासम् आसीद् अस्ति भविष्यति ॥31॥

यन् नोर्ध्वं नाप्य् अधो नाशा न तमो न प्रकाशनम् ।
नेतरत् किञ्चिद् अपि च सर्वम् एव सदैव च ॥32॥

चिन्मात्रैकात्मना तेन परमेणेश्वरेण नः ।
आद्यन्तमध्यमुक्तेन सङ्कल्पश् चेतितस् स्वयम् ॥33॥

स्थितस् सङ्कल्परूपात्मा मनोमूर्तिर् अजस् ततः ।
तेन सङ्कल्पितं व्योम मनसेदं बृहद्वपुः ॥34॥

मनोव्योम्नोर् घनतया सम्पन्नः पवनस् स्फुरन् ।
मनोव्योमानिलाश्लेषात् प्रकाशं बुद्धवांस् ततः ॥35॥

तेजोऽंशभावसङ्कल्परूपं पश्चात् पयस् स्थितम् ।
स चतुष्टयपिण्डो ऽथ मनसो ऽण्डतयेक्षितः ॥36॥

अण्डं तत् पाद्मजं भूत्वा सम्पन्ने पश्य रोदसी ।
तत्र त्व् अवयवाभासं मेर्वादीदं महत् स्थितम् ॥37॥

जगत्तयेति ब्रह्मैव परिपूर्णं विलोक्यते ।
स्पन्दैर् भावविकाराद्यैस् सविकारम् इव स्थितम् ॥38॥

एकैवानेकरूपेव देशकालान्तरे यथा ।
सरित् तथैव वल्लीत्वे स्थिता स्वस्थैव बीजता ॥39॥

पालीवतानि तिष्ठन्ति यथा कुम्भस्य कोटरे ।
तथापारस्य चिद्व्योम्नो जगन्त्य् अन्तस् स्थितानि हि ॥40॥

चिद्ब्रह्मकोटरगता इमास् सर्गपरम्पराः ।
स्फुरन्ति परिणामिन्यो जलकोशे यथोर्मयः ॥41॥

यथा पतन्त्या तमसि दृष्ट्या किम् अपि दृश्यते ।
तथा जगद् अहं चेति चितासत् प्रतिभासते ॥42॥

यथा दृष्ट्या तमस्य् अन्धे चक्रकाद्य् अपि दृश्यते ।
तथादिसर्गे ऽयम् अहम् इत्य् असत्यं चितोह्यते ॥43॥

चिद्घनस्य महाशक्तेर् यद् एव प्रतिभासनम् ।
तत् प्रकृत्यादिनामेह न सन् नासन्न् अतच् च तत् ॥44॥

बृंहिता भरिताकारा सत्तैका पारमात्मिकी ।
आभासैः प्रस्फुरत्य् एवम् अब्धिर् ऊर्म्यादिभिर् यथा ॥45॥

चिदाकाशमयं सर्वं जगद् इत्य् एव भावयन् ।
यस् तिष्ठत्य् उपशान्तेच्छं स ब्रह्मकवचस् सुखी ॥46॥

अहमर्थविमुक्तेन भावेनाभावरूपिणा ।
सर्वं शून्यं निरालम्बं चिच्छान्तम् इति भावयेत् ॥47॥

इदं रम्यम् इदं नेति बीजं ते दुःखसन्ततेः ।
तस्मिन् साम्याग्निना दग्धे दुःखस्यावसरः कुतः ॥48॥

राजन् भावनमात्रेण रम्यारम्यविभागिता ।
पौरुषातिशयेनान्तस् स्वेनैवाशु विलीयते ॥49॥

अभावनेन भावानां कर्तित्वा कर्मकाननम् ।
परं समेत्य राजेन्द्र विशोकतर आस्स्व भोः ॥50॥

भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो गलितकलनोल्लासोल्लासी विकासविलासवान् ।
नवनवम् अजो वृद्धो ऽत्यन्तं चिराय निरामयस् समसमसितस्वच्छाभोगो भवाभयचिद्वपुः ॥51॥
Reply all
Reply to author
Forward
0 new messages