भरद्वाजः:
जीवन्मुक्तस्थितिं ब्रह्मन् कृत्वा राघवम् आदितः ।
क्रमात् कथय मे नित्यं भविष्यामि सुखी यथा ॥१॥
वाल्मीकिः:
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनस्स्मरणं मन्ये साधो विस्मरणं वरम् ॥२॥
दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते ।
कदाचित् केनचिन् नाम स बोधो ऽन्विष्यताम् अतः ॥३॥
स चेह सम्भवत्य् एव तदर्थम् इदम् आततम् ।
शास्त्रम् आकर्णयसि चेत् तत्त्वं प्राप्नोषि नान्यथा ॥४॥
जगद्भ्रमो ऽयं दृश्यो ऽपि नास्त्य् एवेत्य् अनुभूयते ।
वर्णो व्योम्न इवाखेदाद् विचारेणामुनानघ ॥५॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
सम्पन्नं चेत् तद् उत्पन्ना परा निर्वाणनिर्वृतिः ॥६॥
अन्यथा शास्त्रगर्तेषु लुठतां भवताम् इह ।
भवत्य् अकृत्रिमज्ञाना कल्पैर् अपि न निर्वृतिः ॥७॥
- वाल्मीकिः मोक्षोपाये १.२