कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा॥
दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदकम्।
विजयं चैव निश्वासं स्वायम्भुवमथानलम् ॥
वीरं च रौरवं चैव मकुटं विमलं तथा।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा
सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च।
किरणं वातुलं चैव अष्टाविंशतिसंहिताः ॥
भवदुदाहृतग्रन्थः वैष्णवधर्मप्रचारक इव भाति । अत एव अनवहितत्वं (Carelessness,
scant respect) तदितरसम्प्रदायदर्शनेषु । यतो हि एतेषामष्टाविंशत्यागमानां नाम
तदावलिश्च बहुप्रसिद्धा बहोः कालात् ।
एवं
शिवज्ञानसेवको गणेशः
चित्-प्रियम् = स्वायम्भुबम्। इति कथम् ?
ब्रह्मसूत्रादिव्याख्यानेन वेदान्तपदप्राप्तिश् च---- वेदान्तपदप्राप्तिरिति का सा ?
ब्रह्मसूत्रादिव्याख्यानेन---- इदमपि न स्पष्टम् ।एतद्विषये बहु चर्चा करणीया ॥ अवसरान्तरे कुर्वः ॥