> "ओं तत्सवितुः" ज्ञानाय हृदयाय नमः ।
> "वरेण्यं" ऐश्वर्याय शिरसे स्वाहा ।
> "भर्गो देवस्य" शक्त्यै शिखायै वौषट् ।
> "धीमहि" बलाय कवचाय हुम् ।
> "धियो यो नः" तेजसे नेत्राभ्यां वौषट् ।
> "प्रचोदयात्" वीर्यायास्त्राय फड्
इति न्यासः गोपालदेशिकाह्निके दत्तः।अहन्त्व् एवं शिक्षितः -> "ॐ" हृदयाय नमः
> "तत् सवितुः" शिरसे स्वाहा
> "वरेण्यं" शिखायै वषट्
> "भर्गो देवस्य" नेत्रयोर् वौषट्
> "धीमहि" बलाय कवचाय हुम्
> "धियो यो नः प्रचोदयात्" वीर्यायास्त्राय फट् ।एतयोः किम् प्रमाणम्? प्रथमपक्षे ज्ञानादय उक्ता इति युक्तं भाति, किन्तु कवचात् परं नेत्रन्यासो विचित्रः, अपि च वोषड् इति द्विर् दृश्यत इत्य् अपि। "हुम् फट्" इति क्रमो ऽपि प्रसिद्धतरः।----
Vishvas /विश्वासः
> "ओं तत्सवितुः" ज्ञानाय हृदयाय नमः ।
> "वरेण्यं" ऐश्वर्याय शिरसे स्वाहा ।
> "भर्गो देवस्य" शक्त्यै शिखायै वौषट् ।
> "धीमहि" बलाय कवचाय हुम् ।
> "धियो यो नः" तेजसे नेत्राभ्यां वौषट् ।
> "प्रचोदयात्" वीर्यायास्त्राय फड्
इति न्यासः गोपालदेशिकाह्निके दत्तः।अहन्त्व् एवं शिक्षितः -> "ॐ" हृदयाय नमः
> "तत् सवितुः" शिरसे स्वाहा
> "वरेण्यं" शिखायै वषट्
> "भर्गो देवस्य" नेत्रयोर् वौषट्
> "धीमहि" बलाय कवचाय हुम्
> "धियो यो नः प्रचोदयात्" वीर्यायास्त्राय फट् ।एतयोः किम् प्रमाणम्? प्रथमपक्षे ज्ञानादय उक्ता इति युक्तं भाति, किन्तु कवचात् परं नेत्रन्यासो विचित्रः,
अपि च वोषड् इति द्विर् दृश्यत इत्य् अपि। "हुम् फट्" इति क्रमो ऽपि प्रसिद्धतरः।----
Vishvas /विश्वासः
मम मतिस्त्वेवम् । सामान्यतः क्रियाविषये एकस्य सम्प्रदायस्य मूलग्रन्थेषु बहवो भेदा दृश्यन्ते, तत्तच्छास्त्रानुयायिभिश्च तथैवानुष्ठीयन्ते च ।
इमे भेदाः तन्त्रागमेषु बहुत्र अधिकतया दरीदृश्यन्ते ।
अत उपर्युक्तगायत्रीमन्त्रस्य षडङ्गन्यासेऽपि एतादॄशा अवान्तरभेदाः पद्धतिग्रन्थकारैः उल्लिखिताः । प्रायेण क्रियापद्धतिषु प्रमाणभूताकरग्रन्था अपि कैश्चनाचार्यैरुल्लिख्यन्ते । परं प्रकृतेऽस्मिन् विषये तदुक्तन्यासस्य प्रमाणं नोक्तम् । तदन्वेषणमपि प्रायेण करटदन्तान्वेषणायते ।
नमःस्वाहावषट्-वौषट्-हुं-फट्कारक्रमेण तु ।
एते वै जातिषट्काश्च हृदाद्यस्त्रान्तकैर्युताः
॥
इति शिवम् ॥
--
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgH7FwKPUi-7JDj9mw%3DWUzffh_8Zc5oijKEG7eopJH2%3Drw%40mail.gmail.com.
mantra-mahārnava-madhye 27 nyāsaprakriyāḥ dṛśyante. bhavatsaukaryāya.ST
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgFDMA-TVMdCEh-NkhT8SujuqjYMqwLd%3D1y5t_WL%2B1JWxw%40mail.gmail.com.