भू-कटाह-धर्म-भेदः Hemisphere

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 7, 2024, 8:55:49 PM7/7/24
to kalpa-prayoga, Friends of CAHC, Hindu-vidyA हिन्दुविद्या, tantro...@googlegroups.com
(अस्य लेखस्य सद्यस्तमा प्रतिर् अत्र वर्तते। )


दक्षिण-भू-कटाहेय् आर्षैः कर्म कथम् कार्यम्

इत्यत्र स्वाभिप्रायः प्रस्तूयते - परिष्कारान् प्रार्थयामहे।

कर्म-भूमिः (द्रष्टुं नोद्यम्)

“भारताद् बहिर् न कर्मोचिता भूमिर् इति वादम् उपेक्षामहे।

आर्यावर्त-लक्षणान्य् अन्यत्रापि लभ्यानि बहूनि।
भारत-पर-शास्त्र-वाक्यान्य् उपलक्षणत्वेन ग्राह्याणि।
ननु बलि-द्वीपो ऽपि चातुर्-वर्ण्यादि-धर्म-युक्तो दक्षिण-कटाह-स्थो दृश्यते।

उत्तर-कटाहाचाराः


प्राचीना ऋषयः पूर्वजाश् च
+उत्तर-कटाहे (northern hemisphere) ऽवसन्,
यत्र +उत्तरायणे हि दिनानि लम्बानि,
Coriolis effect इति प्रदक्षिणक्रमो वायौ जले च दृश्यते।
तैस् तद्-अनुरोधेन धर्माचारा उक्ताः।
तद् यथा -

  • देव-कर्मसु -
    • दर्भा प्राग्-अग्रा उदग्-अग्राश् च स्युः।
      उपक्रमोपसंहारौ प्राचि उदीच्यां वा स्याताम् ।
      भू-प्रवणताऽपि तथा।
      प्रदक्षिणं कर्म कार्यम्।
    • उत्तरायणे कार्यम्।
      तत्-कालीनान्य् उत्तरायण-नक्षत्राणि ग्राह्याणि।
      पूर्वाह्णे कार्यम्।
  • पितृकर्मसु
    • दर्भा प्राग्-अग्रा दक्षिणाग्राश् च स्युः।
      उपक्रमोपसंहारौ दक्षिणे स्याताम् ।
      प्रसव्यं कर्म कार्यम्।
    • दक्षिणायने कार्यम्, अपराह्णे च।

दक्षिण-कटाहाचाराः


दक्षिण-भू-कटाहे वसद्भिः कथम् आचरणीयम्
यत्र +दक्षिणायने हि दिनानि लम्बानि,
Coriolis effect इति प्रसव्य-क्रमो वायौ जले च दृश्यते।

  • देव-कर्मसु
    • दर्भा प्राग्-अग्रा दक्षिणाग्राश् च स्युः।
      उपक्रमोपसंहारौ प्राचि दक्षिणायां वा स्याताम् ।
      भू-प्रवणताऽपि तथा।
      प्रसव्यं कर्म कार्यम्।
    • दक्षिणायने कार्यम्।
      तत्-कालीनानि दक्षिणायन-नक्षत्राणि ग्राह्याणि। पूर्वाह्णे कार्यम्।
  • पितृ-कर्मसु
    • दर्भा प्राग्-अग्रा उदग्-अग्राश् च स्युः।
      उपक्रमोपसंहाराव् उत्तरे स्याताम् ।
      प्रदक्षिणं कर्म कार्यम्।
    • उत्तरायणे कार्यम्, अपराह्णे च।
    • एवं श्रौत-कर्मणि दक्षिणाग्निर् उत्तरे स्याद् वेति चिन्तनीयम्??

देश-काल-भेदेन +ऋतवः परिवर्तन्ते।
तत आर्तवान्य् आचरणानि परिणमन्ति।

शरीर-गतादि-नियमेषु तु भेदो न वर्तेत

  • देव-पितॄषि-तीर्थानि तान्य् एव।
  • उपवीत-भेदास् त एव।
  • नैरृत्यां दिश्य् उक्तानि तत्रैव कार्याणि??

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 8, 2024, 10:19:30 AM7/8/24
to S. L. Abhyankar, kalpa-prayoga, Friends of CAHC, Hindu-vidyA हिन्दुविद्या, tantro...@googlegroups.com


On Mon, 8 Jul 2024 at 18:17, S. L. Abhyankar <sl.abh...@gmail.com> wrote:
उत्तरायणे सूर्यः उत्तरकटाहं प्रत्यागच्छति तच्छुभमिति मान्यता उत्तरकटाहवासिनामेव ? 
आम् इति स्वानुमानम्

उत्तरायणे सूर्यः दक्षिणकटाहवासिभ्यः दूरं गच्छति, तेभ्यः उत्तरायणमशुभम् ? 
आम् इति स्वानुमानम्। तदीयं वसन्तम् भिन्नम् एव, यदा ब्राह्मण उपनीयेत देवाज्ञया। 

पुनर् अवधेयम् - यथा तिलक-बालगङ्गाधरेण प्रतिपादितम् -  
उत्तरायण-शब्दस्य विषुवारम्भः काल इत्य् अर्थोऽपि क्वचिद् वर्तते,  
यद्य् अपि लोके ऽन्यत्र च विषुवमध्यः काल इत्य् अर्थः।  



 
दृश्यताम् गीतायाम् - अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||8-24\\ 
तथा धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||8-25|| 
अथ किं गीताज्ञानमुत्तरकटाहवासिभ्य एव साधु ? 

इदं खलु ब्रह्मसूत्रेषु परिहृतम् - तत्-तद्-अभिमानि-देवता-वाचकानीमे शब्दा इति?

 
Cordially, S. L. Abhyankar
सस्नेहमिदम् अभ्यंकरकुलोत्पन्नस्य श्रीपादस्य |
"श्रीपतेः पदयुगं स्मरणीयम् ।"

--
आपको यह मैसेज इसलिए मिला है क्योंकि आपने Google Groups के "kalpa-prayoga" ग्रुप की सदस्यता ली है.
इस समूह की सदस्यता खत्म करने और इससे ईमेल पाना बंद करने के लिए, kalpa-prayog...@googlegroups.com को ईमेल भेजें.
वेब पर यह चर्चा देखने के लिए, https://groups.google.com/d/msgid/kalpa-prayoga/CAFY6qgGnVoTB7591zQL7By%2BDiPzdUntEAOtbv2mFog9P5n846w%40mail.gmail.com पर जाएं.


--
--
Vishvas /विश्वासः

S. L. Abhyankar

unread,
Jul 8, 2024, 10:25:11 AM7/8/24
to विश्वासो वासुकिजः (Vishvas Vasuki), kalpa-prayoga, Friends of CAHC, Hindu-vidyA हिन्दुविद्या, tantro...@googlegroups.com
उत्तरायणे सूर्यः उत्तरकटाहं प्रत्यागच्छति तच्छुभमिति मान्यता उत्तरकटाहवासिनामेव ? 
उत्तरायणे सूर्यः दक्षिणकटाहवासिभ्यः दूरं गच्छति, तेभ्यः उत्तरायणमशुभम् ? 
दृश्यताम् गीतायाम् - अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||8-24\\ 
तथा धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||8-25|| 
अथ किं गीताज्ञानमुत्तरकटाहवासिभ्य एव साधु ? 
Cordially, S. L. Abhyankar
सस्नेहमिदम् अभ्यंकरकुलोत्पन्नस्य श्रीपादस्य |
"श्रीपतेः पदयुगं स्मरणीयम् ।"
On Mon, 8 Jul 2024 at 06:25, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

उज्ज्वल राजपूत

unread,
Jul 8, 2024, 8:54:40 PM7/8/24
to विश्वासो वासुकिजः (Vishvas Vasuki), kalpa-prayoga, Friends of CAHC, Hindu-vidyA हिन्दुविद्या, tantro...@googlegroups.com
मनुष्यशरीरे स्वाभाविको सव्यदक्षिणभेदः। तदनुसारेणायं दक्षिणे सीदेदयं सव्य इत्यादय आचारा वर्तन्त इति मन्ये। अथ सम्माननीयं प्रदक्षिणं कृत्वा गच्छेदित्ययमाचारः किमस्मात्स्वाभाविकसव्यदक्षिणभेदादथवा वायुगतिक्रमादिति चिन्तनीयम्।

सोम, 8 जुल॰ 2024 को 6:25 am बजे को विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> ने लिखा:
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGnVoTB7591zQL7By%2BDiPzdUntEAOtbv2mFog9P5n846w%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 9, 2024, 12:44:20 AM7/9/24
to उज्ज्वल राजपूत, kalpa-prayoga, Friends of CAHC, Hindu-vidyA हिन्दुविद्या, tantro...@googlegroups.com
"कनिष्ठपूर्वं प्रेतं त्रिः अप्रदक्षिणं परियन्ति । "
इत्यादिषु निर्देशेषु प्रसव्यत्वम् अपि यथास्थानं सम्मानसूचकम् भाति। 

ततः, पूज्य-निष्ठं पूजा-कर्म-निष्ठं च हि  
प्रसव्य-प्रदक्षिणयोर् माङ्गल्यम्,  
न पूजक-निष्ठम् - इत्य् एतावत् +शास्त्रात् स्पष्टम्। 
ततो स्वाभाविक-दक्षिणप्राचुर्यं न हेतुत्वेन ग्राह्यम्। 

Reply all
Reply to author
Forward
0 new messages