शैवसिद्धान्तानुसारेण दीक्षाप्रभावः

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 14, 2023, 9:05:25 PM8/14/23
to cheto-de...@googlegroups.com, tantro...@googlegroups.com
वरुणशिवाचार्यकृतपद्धताव् एवं दृश्यते -


दीक्षया अनेकजन्मान्तरीयं कर्म मन्त्रैः दग्धं - बीजम् इव,  
भविष्यत्कर्म च विष-शक्तिवन् निरुद्धम् ।  
येन कमणा इदं शरीरं  
तत्कर्मणो भोगतो नाशे  
देहान्ते मोक्षः स्यात् -  
प्रारब्धकर्मणः सद्यो विनाशाभावात् ॥  

उक्तम् -  
 
किरणे -  
 
> जातायां घटनिष्पत्तौ  
यथा चक्रं भ्रमत्य् अपि ।  
पूर्व-संस्कार-संसिद्धं  
तथा वपुर् इदं स्थितम् ॥  
>  
> अनेकगव्य?कं कर्म  
दग्धं बीजम् इवाणुभिः ।  
भविष्यद् अपि संरुद्धं,  
येनेदं +++(शरीरं)+++ तद्धि भोगतः ।  
देहपाते विमोक्षः स्यात्  
सद्यो-निर्वाणयापि वा ॥   


अत्र प्रश्नाः

दीक्षितस्य प्रारब्धकर्म तस्मिन्नेव जन्मनि भुज्यत उत जन्मान्तरम् अप्य् अपेक्षेत?


किरणागमोद्धारय् इमौ पादौ ममास्पष्टौ- 

> अनेकगव्य?कं कर्म …
सद्यो-निर्वाणयापि वा ॥   

कश् शुद्धः पाठः? कोऽर्थः?


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 14, 2023, 9:20:44 PM8/14/23
to cheto-de...@googlegroups.com, tantro...@googlegroups.com


On Tue, 15 Aug 2023 at 06:34, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


किरणागमोद्धारय् इमौ पादौ ममास्पष्टौ- 

> अनेकगव्य?कं कर्म …
सद्यो-निर्वाणयापि वा ॥   

कश् शुद्धः पाठः? कोऽर्थः?



जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि  
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम्  १८
अनेकभविकं कर्म दग्धं बीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः १९
इत्य् एतावान् लब्धः। अन्तिमभागस् तु न दृश्यते तत्र। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 14, 2023, 9:24:33 PM8/14/23
to cheto-de...@googlegroups.com, tantro...@googlegroups.com
विकिस्रोतस्य् अवशिष्टस्य शुद्धिर् लब्धा - 

देहपाते विमोक्षः स्यात्सद्योनिर्वाणदापि वा ।

 

V Subrahmanian

unread,
Aug 15, 2023, 12:37:15 AM8/15/23
to विश्वासो वासुकिजः (Vishvas Vasuki), cheto-de...@googlegroups.com, tantro...@googlegroups.com


On Tue, 15 Aug 2023 at 06:34, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


किरणागमोद्धारय् इमौ पादौ ममास्पष्टौ- 

> अनेकगव्य?कं कर्म …
सद्यो-निर्वाणयापि वा ॥   

कश् शुद्धः पाठः? कोऽर्थः?



जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि  
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम्  १८
अनेकभविकं कर्म दग्धं बीजमिवाणुभिः
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः १९
इत्य् एतावान् लब्धः। अन्तिमभागस् तु न दृश्यते तत्र। 


विकिस्रोतस्य् अवशिष्टस्य शुद्धिर् लब्धा - 

देहपाते विमोक्षः स्यात्सद्योनिर्वाणदापि वा ।

अत्र ....सद्योनिर्वाणादपि वा  इति शुद्धः पाठः स्यात् |  निर्वाणशब्दस्य मुक्तिरित्यप्यर्थः -  स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ भ.गी. 2 72  एवमन्यत्रापि निर्वाणशब्दो मुक्त्यर्थे उपयुज्यते गीतास्वेव |  अद्वैते जीवन्मुक्तिः इति यदुच्यते तत्र सद्योमुक्तिरिति तस्य नाम | अपरोक्षज्ञानोदयसमकाल एव अयं मुक्तः इति व्यवहारः |  देहपाते विमोक्षः इत्यस्य विदेहमुक्तिरित्यर्थः अद्वैते |   


दीक्षितस्य प्रारब्धकर्म तस्मिन्नेव जन्मनि भुज्यत उत जन्मान्तरम् अप्य् अपेक्षेत?

शैवमते कथमिति न ज्ञायते | अस्मिन् विषये ब्रह्मसूत्रानुसारेण तु 'यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥' 3.3.32  अत्र मतत्रयेऽपि एवमेव स्थितिः इति भाति - अत्यन्तपुण्यशेषे मुक्तः ईश्वरेण कस्मिंश्चिदधिकारे नियुक्तः सन् एकं वा अधिकं वा जन्म प्राप्य प्रारब्धकर्म उपभुज्यान्ते तत्क्षये सति परममुक्तिमाप्नोति इति |  

इति सुब्रह्मण्यशर्मा 
 


 


--
--
Vishvas /विश्वासः

--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgEXQJUgK_oaD1Kshmio6jhONaDhp6QLozJHHFSJ9%2BPxug%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2024, 8:44:45 AM1/3/24
to cheto-de...@googlegroups.com, tantro...@googlegroups.com
शिवयोगिकृत-शैव-परिभाषा-ग्रन्थे -

यत्र प्रारब्ध-कर्मणो ऽपि   
विशोधनं सा **सद्यो-निर्वाण-दा** (दीक्षा)
यद्य् अपि प्रारब्धस्य भोगेनैव तत्र तत्र विनाशः प्रतिपादितः,
तथापि स तीव्र-वेग-प्रारब्ध-विषयः ।
**प्रारब्धं** हि तीव्र-वेग-मन्द--सुप्त-भेदेन **चतुर्-विधम्**
तत्र **तीव्र-वेगयोः**
**भोगं** विना न विनाशः ।
**मन्दस्य**
दीक्षायां संयोजन-सञ्जनन-पूर्वक--भोग-**भोजनेन विनाशः**
**सुप्तस्य** तु भोग-भोजनं विनैव **नाशः**
एवं च
यत्र शिष्य-गतं तीव्रतरं शक्ति-निपातं,
तादृशं च मल-परिपाकं,
मन्दं सुप्तं च प्रारब्धं **ज्ञात्वा**
ऽत्यन्त-समर्थेन गुरुणा
भोग-भोजनेन तद्-विना वा **विनाशः क्रियते**,
सा **सद्यो-निर्वाण-दा**



On Tue, 15 Aug 2023 at 06:34, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2024, 9:31:30 AM1/3/24
to cheto-de...@googlegroups.com, tantro...@googlegroups.com
पुनर् अग्रे - 

श्रवणादिकं च  
यदा साक्षात्-काराय न पर्याप्तं
तदा अर्चिर्-आदि-द्वारा फल-भोगान् अनुभूय
**प्रलय-समये** शिवानुग्रहे सति
तत्र तदैव **मुक्तिः**
तदा शिवानुग्रहाभावे
गुरुणा **जन्मान्तरे मुक्तिः**

यदा तु पर्याप्तं
तदा गुरु-कृपा-परिपाकेन
सूर्य-किरण-सन्निधानेनेव
स्वात्म-ज्ञानम् **अभिव्यज्यते**
अयम् एव साक्षात्-कारोदयः **फल-साधनम्** अपि ॥

Reply all
Reply to author
Forward
0 new messages