क्रियानिघण्टुः-------पूर्वतोऽनुवर्तते।

5 views
Skip to first unread message

iviyan82

unread,
Mar 1, 2014, 2:31:47 AM3/1/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
 

२१.अश्नाति वल्भते भुङ्क्ते जेमतिप्रत्यवस्यति।धन्योऽभ्यवहरत्यन्नं संविभज्यार्थिभिस्सह॥
२२.चर्वतिप्सातिताम्बूलं भक्षयत्यत्ति खादति।धयत्याचामतिपयस्सदापिबतिचूषति॥
२३.गिलतिग्रसतिग्रासं गिरतिग्रसते तथा।वमत्युद्गिरतिच्छर्दत्यसौ छर्दयतिक्षणात्॥
२४.निष्ठीव्यतिक्षिप्यतिच निष्ठीवतिनिरस्यति।क्षिपतिस्नुह्यतिक्षिप्रमुद्गारयति भक्षितम्॥
२५.वेत्तिजानातिजानीते तत्त्वं बोधतिबोधते।प्रत्येतिचोपलभतेबुद्ध्यतेप्रतिपद्यते॥
२६.उत्प्रेक्षते च मनुतेचोत्पश्यति च मन्यते।सम्भावयत्यूहते च विचारयति तत्त्वतः॥
२७.     विन्तेविमृशतितर्कतिवितर्कयत्यतिशयान्निरूपयति।परिगणयतिमीमासत्यालोचयति स्फुटं परामृशति॥
२८.आलोचयते कार्यं यो राजा स प्रतीयते सौख्यम्।चिन्तयति स्मरति हरिं ध्यायत्यध्येतिभावयत्यार्यः॥
२९.पश्यत्यालोकते कान्तामीक्षते लोचते पतिः।शृणोत्याकर्णयति च निशामयति तद्वचः॥
३०.जिघ्रतिशिङ्घतिकमलं रसयत्यास्वादयत्यसौ लेढि।आलभतेस्पृशतिपरामृशतिच्छुपतिप्रियां नाथः॥
३१.विस्फुरतिप्रस्फुरतिस्फूर्जत्यथ निर्णयत्यवस्यति च।अवधारयति च कार्यं निश्चिनुतेनिश्चिनोत्यार्यः॥
३२.सन्दिग्धे संशेते सन्देग्धिविशङ्कतेविशेते च।विचिकित्सतिविमृशत्ति चान्दोळयतिचेत्यभिन्नार्थाः॥
३३.मारयतिहन्तिविशसतिकृषतिहिनस्तिप्रमापयत्याजौ।मीनातिद्रूणातिकृणोति च निबर्हयत्यर्थार्दयते॥
३४.मीनीतेकूणीतेसंहरतितृणेढिसूदयत्येषः।कृणुतेकृणातिलुम्पतिलुम्भति शत्रून् कृणीते च॥
३५.क्षिणोतिक्षिणुते चैव क्षिणति क्षयतीत्यपि।दहतिप्रोषतिप्लोषत्योषतिप्लुष्यति द्विषम्॥
३६.आपद्यते च लभतेप्राप्नोतिच विन्दतेच विन्दति राट्।आसादयति च भवतेभावयते सम्पदं धीरः॥
३७.प्रेरयतिप्रेलयतिप्रेषयतिप्रेष्यतिप्रचोदयतिक्षिप्यति।सुवतिक्षिपतिव्यापारयतीह नुदति नुदते च॥
३८.आज्ञापयतिनियुङ्क्तेप्रहिणोतिनियोजयत्यलं क्षिपते।भजतेभजतिश्रयतेश्रयति नृपं सेवते सजति॥
३९.वृक्षं त्वक्षतितक्षतिद्यतिपुमान् तक्ष्णोतिसंवृश्चति।छिन्तेछेदयतिच्छिनत्तिच लुनात्याखण्डतेमुण्डति॥
.पाशं तोडतितोडयत्यपि खुरत्याखण्डयत्यन्वहं।कृन्तत्यत्र छिनत्तित्रुट्यतिलुनीतिदच्छ्यतीमे समाः॥
४०.अभिलषतीच्छतिवांच्छतिगृध्यतिलुभ्यतिचवष्टि कांक्षति च।स्पृहयत्याशास्तेऽर्थं कामयतेऽपेक्षतेऽर्थयते॥
                           (अनुवर्तते)
अभिवाद्य,
ऐवियन्।

Reply all
Reply to author
Forward
0 new messages