श्रीवीरपाण्ड्यभूपालविरचितक्रियानिघण्टुः प्रारभ्यते

2 views
Skip to first unread message

iviyan82

unread,
Feb 28, 2014, 10:31:10 AM2/28/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
श्री वीरपाण्ड्यभूपालविरचित क्रियानिघण्टुप्रारम्भः---------श्लोकेषु-----यथा----

१. धातुप्रयोगपर्याये केचित्काव्योपयोगिनः।वीरपाण्ड्यक्षितीशेन वक्ष्यन्ते शिक्षितुं शिशून्॥
२.विद्यतेस्तिभवत्यत्र स्यादस्तुस्ताद्भवत्वपि।भूयाद्भवेत्तु भवताद्विद्यतां श्रीर्जगत्त्रये॥
३.सम्पद्यते जायते च जजन्त्युत्पद्यते जगत्।सम्भवत्याविर्भवति प्रादुर्भवति सर्वदा॥
४.तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे रमा।प्राणिति श्वसिति श्रेयान्यः परार्थाय जीवति॥
५.रचयति करोति कुरुते विदधाति विधत्त आदधात्यार्यः।सम्पादयति तथासावाधत्ते सृज्यते सौख्यम्॥
६.उत्पादयति सृजति च निर्वर्तयतीह साधयत्याशु।राध्नोति च साध्नोति च राध्यति साध्यति च सिध्यति प्रीतिम्॥
प्रसूयते प्रसूते च प्रसूषति सुवत्यपि।प्रसवत्यपि सौत्येषा पुत्रं पुण्यवती सती॥
७.प्रतिष्ठतेञ्चत्ययते व्रजत्ययति सर्पति।ऋच्छत्यटति यात्येति सरतीयर्ति गच्छति॥
८.हंमति द्रवति ग्रामं ग्रामत्यमतिमीमति।ससर्ति च जिहीते च चलत्यभ्रति धावति॥
९.स्रंसते भ्रंशते वस्त्रं ध्वंसतेङ्गात्पतत्यगात्।भ्रश्यते भ्रश्यति फलं डयते डीयते खगः॥
१०.आचष्टे वक्ति वाक्यं कथयति गदति व्यक्तमाभाषतेऽसौ व्याख्याति प्रब्रवीति प्रवदति रटति व्याहरत्यागृणाति।
    ब्रूते सङ्कीर्तयत्यारवति लपति चोदीरयत्याह जल्पत्यत्यन्तं श्रीपते त्वं क्वणति भणति मां रक्ष रक्षेति धीमान्॥
११.नादयते नदतेऽणति वणति वनत्येष जल्पते जपति।अभिधत्तेऽभिदधातीच वादयति ह्रादयत्येनम्॥
१२.नाटयति नटति नृत्यति गायति कायति च कूर्दते किलति।क्रीडतिदीव्यतिकेलतिखेलति विहरति च खूर्दते रमते॥
१३.कक्कतिकखतिप्रहसतिगग्घतिघग्घति च तक्कति स्मयते।निक्षति चुम्बति निकस्ते तन्व्या मुखपङ्कजं प्रेयान्॥
१४.ददाति दत्ते वितरत्यर्पयत्येष यच्छति।ददतेर्पयतेचार्थं सनोति सनुतेर्थिने॥
१५.रक्षत्यवति दयते पातिपालयति प्रियं।त्रायते नयते राजा गोपायति भुनक्ति च॥
१६.नमतिनमस्यतिविष्णुं प्रणिपतति च वन्दतेऽभिवादयते।ईट्टेनौतिदनुवतिस्तुतेच शंसत्ययं स्तौति॥
१७.स्तवीती डयतिस्तोत्रैः कत्थते श्लाघते गुरून्।पणायते पनायते पणायति पनायति॥
१८.अर्चत्यर्हतिमहतिचमहयतिपूजयतियजतियजतेच।अञ्चत्यर्चयतेऽयंपूजतिमानयतिचार्हयत्यार्यान्॥
१९.पचतेपचतिश्रातिरन्धयत्यत्रपाचकः।श्रायत्यन्नं श्रपयतितथाश्रापयतिक्षणात्॥
२०.भ्रज्जतेभ्रज्जतिभ्राष्ट्रे भर्जतेचणकानयं।मज्जत्याप्लवतेस्नातिगङ्गायामवगाहते॥
                                    (अनुवर्तते)
अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages