अथ तत्तद्व्याख्योदाहृतप्रमाणवचनानि------प्रारभ्यन्ते-----

5 views
Skip to first unread message

iviyan82

unread,
Mar 4, 2014, 3:06:55 AM3/4/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
तत्तद्व्याख्योदाहृतप्रमाणवचनानि-------------उपयुक्तांशसङ्ग्रहपुस्तकात् सङ्गृहीतानि---------

आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥(१)
ततस्स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदं महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥(२)
योसावतीन्द्रियग्राह्यस्सूक्ष्मोऽव्यक्तस्सनातनः।सर्वभूतमयोऽचिन्त्यस्स एव स्वयमुद्बभौ॥(३)
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजा॥ अप एव ससर्जादौ तासु वीर्यमपासृजत्॥(४)
तदण्डमभवध्धैमं सहस्रांशुसमप्रभम्। तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥(५)
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्।स्वयमेवात्मनो ध्यानात्तदण्डमकर्रोद्द्विधा॥(६)
ताभ्यां सशकलाभ्यां च दिवं भूमिं च निर्ममे।मध्ये व्योमदिशश्चाष्टावपां स्थानं च शाश्वतम्॥(७)
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक्।वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे॥(८)
(मनुः) नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनं।वेदशदेभ्य एवादौ देवादीनां चकार सः॥
स्मृतिः--आवहः प्रवहश्चैव संवहश्चोद्वहस्तथा।विवहाख्यः परिवहः परावह इति क्रमात्॥
सप्तैते मारुतस्कन्धाः महर्षिभिरुदाहृताः।आवहो वर्तयेद्वायुर्मेघोल्कावृष्टिविद्युतः।वर्तयेत्प्रवहश्चाथ तथा मार्ताण्डमण्डलम्।
वर्तयेदुद्वहश्चाथ तथा नक्षत्रमण्डलम्।संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम्।पञ्चमो विवहाख्यस्तु तथैव ग्रहमण्डलम्।
सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा।परावहस्तथा वायुर्वर्तयेद्ध्रुवमण्डलम्॥ब्रह्माण्डपुराणम्॥जम्बूप्लक्षाह्वयद्वीपौ शाल्मल
श्चापरो द्विज! कुशःक्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः।एते द्वीपास्समुद्रैस्तु सप्तसप्तभिरवृताः।लवणेक्षुसुरासर्पिर्दधिदुग्धजलै
स्समं।जम्बूद्वीपस्समस्तानामेतेषां मध्यमे स्थितः॥विष्णुपुराणम्॥--हिमवद्विन्ध्ययोर्मध्यो यःप्राग्विनशनादपि।प्रत्यगेव
प्रयागाच्च मध्यदेशस्स कीर्तितः॥पुराणम्॥--ग्रामणीयक्षभूतानि कुर्वतेऽभीशुसङ्ग्रहम्।वालखिल्या नयन्त्येनं परिवार्योदयद्रविं॥
कूर्मपुराणम्॥----विश्वकर्माभ्यनुज्ञातश्शाकद्वीपे विवस्वता भ्रममारोप्य तत्तेजश्शातयामास तक्षणात्।जपन्नासीत सावित्रीं
प्रत्यगातारकोदयात्॥सन्ध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्॥स्मृतिः॥----॥श्वेतद्वीपप्रशंसायां कूर्मपुराणम्--शाकद्वीपं समाक्रम्य क्षीरोदस्सागरस्स्थितः।श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः।श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः।केचिज्जपन्ति तप्यन्ते केचिज्जानन्तिनोपरे।एकान्तिनो निरालम्बा महाभागवताः परे।इति॥       
अग्नौ प्राप्ताहुतिस्सम्यगादित्यमुपतिष्ठते।आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः॥मनुः---रोचनं चन्दनं हेम मृदङ्गं
दर्पणं मणिं।गुरुमग्निं च गां सूर्यं प्रातःपश्येत्सदा बुधः।
                                                   (अनुवर्तते)
अभिवाद्य,
ऐवियन्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 4, 2014, 8:58:53 AM3/4/14
to iviyan82, shishupAl...@googlegroups.com
सव्याख्याप्रमाणवचनपरिचायनेन बालेषु तात्त्विकपरिचयं चिकारिषत्य् उपयुक्तांशसङ्ग्रहकस् ताताचार्यः। तत्प्रदेशोद्भवस्य नरसिंहाचार्यस्य च श्रमेण वयमाधुनिकाः पठितुं पारयामः।
--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages