चतूरूपपञ्चरूपकोशौ----श्रीहर्षकृतौ-----समाप्तौ----

2 views
Skip to first unread message

iviyan82

unread,
Feb 27, 2014, 4:52:58 AM2/27/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
अथ चतूरूपकोशः--------श्रीहर्षकृतः--------चतूरूपे   ---अ-क-ग-च-ज-झ-त-द-ध-न-प-ब-भ

१.अग्रमग्र्यं तथाग्रीयमग्रियं च प्रचक्षते।अङ्कूरमङ्कुरं च स्यादङ्कुरोङ्कूर इत्यपि॥
२.अनूक्षणं नूक्षणं चाप्यनुक्षणमवक्षणम्।अच्छभल्लश्च भल्लश्च भल्लूकश्चापि भल्लुकः॥
३.अवग्राहोऽवग्रहश्च वग्राहोवग्रहोपि च।कन्तुकं कन्दुकं चैव गन्दुकं गेन्दुकं तथा॥
४.कौतुकं कुतुकं च स्यात्कौतूहलकुतूहले।गुच्छोगुञ्छोगुळुच्छश्च गुळश्च परिकीर्तितः॥
५.गोशीर्षं गोशिरश्चैव गावं गोशीर्षिकापि च।चन्द्रमाश्चन्दिरश्चन्द्र-मसश्चन्द्रश्च कीर्तितः॥
६.चन्द्रभागा चान्द्रभागा चन्द्रभागी च सम्मता। चान्द्रभागी च सैवोक्ता भवेदेवं चतुर्विधम्॥
७.चिवरं चीवरं चीरी चवरः परिकथ्यते।जनिश्च जन्म जनुषी जननं चेति कथ्यते॥
८.जागरो जागरा जागर्या जागरणमित्यपि।जङ्घारिका जङ्घरिका जङ्घा जङ्घिक इत्यपि॥
९.जीवनीया तथा जीवा जीवन्ती जीवनीत्यपि।झारीझरीझरश्चापि झरिश्च परिकीर्तितः॥
१०.तमश्च तमसं चापि तामसं च तमिस्समाः।तटाकस्तटकश्च स्यात्तडागस्तडगोपि च॥
११.तुन्दी च तुन्दिलश्चापि तुन्दिरस्तुन्दिभस्समाः।द्रेक्कं द्रेक्काणदृक्काणौ भवेयुस्ते दृकाणवत्॥
१२.दूषिकायां दूषिका च दूषीदूषश्च कथ्यते।द्रामिडो द्रमिडश्चापि द्रविडो द्राविडस्तथा॥
१३.धनुर्धनुश्च धनुषो धनूश्चापि प्रकीर्तितः।नाळा नाळी च नाडी च नाळञ्च परिकीर्तितम्॥
१४.निचोळश्चापि निचुळः चोळश्चोळी च कीर्तिता।नखरश्च नखश्च स्यान्नखरं च नखं तथा॥
१५.निष्कूहो निष्कुहश्चापि निष्कूटो निष्कुटोपि च।नळिनी नळिनं चापि नळिका च  नळं तथा॥
१६.पनितं पणितं च स्यात्पनायितपणायिते।बाह्लीको बाह्लिकश्च स्याद्बाह्लीकमपि बाह्लिकम्॥
१७.भावुकं भवुकं चापि भविकं भव्यमित्यपि।भ्रूकुटिर्भ्रुकुटिश्चापि भ्रुकुटी भ्रकुटिस्तथा॥
चतूरूपे------म-य-र-व-श-ष-ह-----------यथा----
१८.मरुतश्च मरुच्चापि मरुत्वान्मारुतस्तथा।मकुटं मकुटी च स्यान्मुकुटी मुकुटस्तथा॥
१९.मसूरा मसुरा चापि मसूरी मसुरीति च।युगळी युगळं युग्मं युगं च परिकीर्तितम्॥
२०.रोहिणी लोहिनी च स्याद्रोहिता लोहितापि च।विसृतं विस्तृतं चापि विततं ततमित्यपि॥
२१.विडूरजं च वैडूर्यं वैदूर्यं च विदूरजं।वाराणसी वारणसी वारणासी वराणसी॥
२२.शललं शलली चैव शलं शैलं च लोमनि।शय्या च शयनीयञ्च शयनञ्च शयस्तथा॥
२३.सरयूश्शरयूश्चापि सरयुश्शरयुस्तथा।हालाहलं हलहलं हलिहालं हलाहलम्॥
इति चतूरूपपद्धतिः समाप्ता-----
अथ पञ्चरूपपद्धतिः--------
१..कण्डूयनं च कण्डूया कण्डूः कण्डूति कण्डुती।किसालयं किसलयं किसालं किसलं किसम्॥
२.कुवालयं कुवलयं कुवालं कुवलं कुवम्।धनिर्धन्याकधान्याके धान्यं धान्येयकं तथा॥
३.पत्रा पत्री पत्रिका च पत्रकं पत्रमुच्यते।मारुषो मरुषो मर्षो मारुषं मरुषं तथा॥
४.लोलुपो लोलुभो लोलो लम्पटो लालसोपि च।शेषश्शेषं च शिष्टञ्च शेषितश्चैव शेषिकः॥
५.शिवालं शैवलं शैवालं च शैवालशैवलौ।हसश्च हासिका हासो हसनं हास्यमित्यपि॥
                इति पञ्चरूपपद्धतिस्समाप्ता।
इत्थं सत्कविराजराजिमकुटालङ्कारहीरायित श्रीहीरात्मभवेन नैषधमहाकाव्योज्ज्वलत्कीर्तिना।
उद्वृत्तप्रतिवादिमस्तकतटीविन्यस्तवामाङ्घ्रिणा श्रीहर्षेण कृतं चिरं विजयतां श्रीकोशरत्नं महत्॥(कोशश्चायं समाप्तः)
     श्रीहर्षसूरीरितनैकरूपकोशामरद्रुः कविलालनीयः।जा
      जागर्ति यस्यैष मनस्यमुष्यशब्दप्रयोगादिरनर्गळस्स्यात्॥
अभिवाद्य,
ऐवियन्।

Reply all
Reply to author
Forward
0 new messages