श्रीहर्षकृत द्विरूपकोशः-------------पूर्वतोऽनुवर्तते।
४१.करवालः करपालः किकिदीविः किकीदिविः।कौलटेयः कौलटेरः कृष्णशारो भवेत्तथा॥
४२.कृष्णसारः कराटीन कलाटीनौ समौ स्मृतौ।कालनेमिः कालनेमा भवेत्कौमुदकी तथा॥
४३.कौमोदकी कान्यकुब्जं कन्याकुब्जमपि स्मृतं।खड्गं खड्गः खनी च स्यात्खनिः खेदश्च खेदनम्॥
४४.खरा स्यात्खलिका चापि खुरकः क्षुरकस्तथा।खलिनं च खलीनं च क्षुरप्रस्स्यात्क्षुरप्रकः॥
४५.खण्डपर्शुः खण्डपरशुः गुप्तं गोपायितं तथा।गूढं गूढो गुरुर्गुर्वी गृध्नुर्गर्धन इत्यपि॥
४६.गर्तो गर्तागिरागीश्च गृहाश्च गृहमुच्यते।गवी गौश्च ग्रसो ग्रासो गोदा गोदावरी तथा॥
४७.गन्धो गन्धाग्रहोग्राहः गुम्भो गुम्भनमुच्यते।गन्धर्वोपि च गान्धर्वो गाण्डीवं गाण्डिवं तथा॥
४८.गुग्गुलुर्ग्गुग्गुलोपि स्यात् गम्भीरं च गभीरवत्।गारुडो गरुडश्च स्यात् ग्रथितं ग्रन्धितं समे॥
४९.ग्रधनं ग्रन्धनं चापि भवेद्गोनास गोनसौ।गरळं गरमप्याहुर्गणना गणनं तथा॥
५०.गिरीशो गिरिशश्च स्यात् गीरितं गिळितं समे।गोधिका चापि गुधिका गीर्वाणो गीर्वणोऽपि च॥
५१.गन्धवाहो गन्धवहो गण्डभेरुण्डवत्स्मृतः।भेरुण्डश्चाथ घटवद्घटी चापि प्रकीर्तिता॥
५२.घ्राणं घ्रातमपि प्रोक्तं घटी च घटिका तथा।घनो घनाघनश्चापि चञ्चुश्चुञ्चूः प्रकीर्तिता॥
५३.चोरश्चौरश्चटुश्चाटुः चोळश्चौळश्चमुश्चमूः।चेटिश्चेटीचरश्चारः चव्यं च चविकेत्यपि॥
५४.चितिश्चापि चिता चेष्टा चेष्टश्चूडा च चूडवत्।चण्डालोऽपि च चाण्डालश्चमसश्चामसस्तथा॥
५५.चरित्रं चरितञ्चापि चुलुकं चूलुकं तथा।चिन्तनी चिन्तनञ्चापि चमुरुश्च चमूरुवत्॥
५६ चेकुरः चिकुरश्चापि चपलं चापलं तथा।चटूकं चटुकं प्रोक्तं चञ्चलं चलमित्यपि॥
५७.पुटश्चिपुटिश्चस्स्यात् चातुर्यं चातुरीति च।चक्राङ्गी चापि वक्राङ्गी चतुरश्चातुरस्तथा॥
५८.चरणं चरणश्च स्याच्चिरत्नं च चिरन्तनं।चणसूत्रं भवेदेवं शणसूत्रमपि स्मृतम्॥
५९.छदश्च च्छदनं छन्नं छादितं स्याज्जराजराः।ज्येष्ठो ज्यैष्ठ्यो जपो जापो जोषा योषा जडं जलम्॥
६०.ज्योत्स्नी ज्योत्स्ना तथा प्रोक्ता जाया यायापि कीर्तिता।जिह्वा जिंहापि कथिता जृम्भा जृम्भणमित्यपि॥
६१.जतुका स्याज्जतूकापि ज्योतिषं ज्यौतिषं तथा।जठरो जटरश्च स्यात् जटायुश्च जटायुषा॥
६२.जामातापि च यामाता जटीलो जटिलोपि च।जाम्बवान् जम्बवोऽपि स्यात् जम्बूको जम्बुकोऽपि च॥
६३.जीव सञ्जीवना चापि जरायुस्स्याज्जरायुषा।जयसंचजयश्चापि झर्झरो जर्जरस्तथा॥
६४.जतुकं च जतु प्रोक्तं जवनं च जवस्तथा।झल्लरीझल्लरिश्चापि डम्भो दम्भो ढुली डुली॥
६५.डिण्डीरो डिण्डिरोपि स्यात् ढक्की ढक्का च कथ्यते।तलस्तालः तृषा तृष्णा तालस्ताडस्तनुस्तनूः॥
६६.तोकं तोकस्त्वचात्वक्च तन्द्री तन्द्रा तुषस्तु सः।तप्तं च तपितं त्रातं त्राणं चापि तटी तटम्॥
६७.तिष्यस्त्रिष्यस्त्विषात्विट्च तारातारमपि स्मृतं।तपश्च तपसा प्रोक्ता तमश्च तमसा तथा॥
६८.तुंगं तु तुगमप्याहुः स्तेमस्तेमस्तटित्तडित्।तपिञ्छमपि तापिञ्छं तरुणी तलुनीति च॥
६९.त्रापुषं त्रापुषश्चस्स्यात् त्रिणता तृणतापि च।तारकं तारका चापि।त्र्यम्बकश्च त्रियम्बकः॥
७०.तमिस्रं च तमिस्रा स्यात् तिमिरं तमिरं तथा।तपनस्तापनोपि स्यात् तामसी तामसं तथा॥
७१.तिमितं स्तिमितं चापि तिलिप्सस्स्यात् तिलित्सवत्।तरणिस्तरणी चापि तुवरस्तूवरोपि च॥
७२.तनूरुहं तनुरुहं तामलिप्ता भवेत्तथा।दामलिप्ता तैलपेजस्तिलपिंजोऽपि च स्मृतः॥
७३.दोर्दोषा द्यौर्दिवं प्रोक्तं द्वार्द्वारमपि कथ्यते।दृग्दृशा च तथा दूती दूतिर्दासश्च दाशवत्॥
७४.दान्तं च दमितं चापि दिष्टिर्दृष्टिरपि स्मृता।भवेद्दवश्च दावश्च।दोला डोला च कथ्यते॥
७५.स्याद्दारा चापि दाराश्च दूत्यं दौत्यमपि स्मृतं।द्रोणी दोणी च दासेरदासेयौ कथितौ समौ॥
७६.दम्पतीजम्पती चापि दूषणादूषणं तथा।द्युसदस्युर्दिविषदो द्रुहीणोद्रुहिणस्तथा॥
७७.दाडिमी दाडिमश्चापि दारिद्रश्च दरिद्रवत्।धूंक्षोध्वांक्षोधुतंधौतंधनीधनिक एव च॥
७८.धूम्रश्च धूमलश्चापि धृष्टोधृष्णुरपि स्मृतः।भवेद्धम्मिल्लधम्मेल्लौ धवित्रं स्याद्धवित्रकं॥
७९.धूपायितं धूपितं च नगश्च नगसा समः।नाभीनाभिर्निशानिट्च नृत्तं नृत्यं च कथ्यते॥
८०.नयश्च नयनं चापि नतं चानतमित्यपि।ननंदा च ननान्दा च निमेषो निमिषोपि च॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।