क्रियानिघण्टुः----पूर्वतोऽनुवर्तते-----

2 views
Skip to first unread message

iviyan82

unread,
Mar 1, 2014, 6:28:36 AM3/1/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
क्रियानिघण्टुः------पूर्वतोऽनुवर्तते-------

४१.गर्धयतीप्सतिवरयतिगर्धतिकामयतिकांक्षते प्रेम्णा।ध्रांक्षतिवांक्षतिधीमान् ध्वांक्षतिद्रांक्षतिश्रियं मोक्षे॥
४२.मोक्षत्यपावुत्सृजतिजहात्युज्झतिमुञ्चति।मुञ्चतेमोचयत्याशु सुधीः परिहरत्यघम्॥
४३.मोक्षयतिरहतिरहयतिवर्जयतिवृणक्तिजस्यतित्यजति।कृषतेकर्षतिकृष्यतिविलिखति भूमिं सदा कृषिकः॥
४४.प्रतिषिध्यतिवारयतिप्रतिषेधति तन्निराकरोत्यल्पात्।प्रत्यादिशति च दोषात् प्रत्याचष्टेनिषेधति प्राज्ञः॥
४५.स्तभ्नातिस्तम्भते चैव स्तभ्नोतिस्तोभते तथा।स्तुभ्नाति प्रतिबध्नातिस्तुभ्नोतिस्कोभते तथा॥
४६.स्कुभ्नाति च विहन्त्येषस्कुभ्नोतिस्कम्भते रिपून्।स्कभ्नोतिस्कभ्नाति चैते शब्दास्तुल्यार्थवाचकाः॥
४७.सहतेमृष्यतिमर्षतितितिक्षतेमृष्यते तथा मृषति।मर्षयतिक्षाम्यति च क्षमतेमृषयत्यसौ सहति॥
४८.शक्यतेशक्यतिबुधस्सहयत्यपि दुर्वचः।यच्चर्चयत्यधीते च शिक्षतेपठतिश्रुतम्॥
४९.एधतेवर्धतेनन्दत्यृध्यतिस्फायते बुधः।ऋध्नोतिस्त्यायतेनित्यं नीतिमान् पुष्यति श्रियम्॥
५०.यततेव्याप्रियतेऽसौ प्रयस्यतिव्यापिपर्तिघटते च।चेष्टत ईहत एष स्फुरत्यलं स्पन्दते चक्षुः॥
५१.तुदतेतुदतिदुनोतिव्यथयतिदूःखयतिरुजतितापयति।क्लिश्नातिखेदयत्यपि पीडयति रिपून् प्रशूलयति॥
५२.धुक्षतेधिक्षते नित्यं बाधते बाधयत्यपि।शुन्धतिक्लेशयत्येष तथा वुन्धति लुण्ठति॥
५३.व्यथतेताम्यतिखिन्दतिसन्तपति च दूयते च शोचति च।ग्लायतिचम्लायतिच क्लिश्यत्याखिद्यते च सीदति च॥
५४.धूपायतेक्लेशतेचखिन्तेकर्जतिखर्जति।एते धातुप्रयोगाः खल्वीषदेकार्थसूचकाः॥
५५.मुरयति च गुणयतिगुध्यतिवटतिस्त्यायतिच वेष्टते वस्त्रम्।गुण्ठयतिमुण्डतेऽसौ वण्डत इत्येकवाचकाश्शब्दाः॥
५६.सिनुतेसिनोतिनह्यतिबध्नातिसिनातिनह्यतेजुडति।आशुयुनातियुनीतेपाशयति सिनीत एष कीलयति॥
५७.धुनोतिधुनुते पुच्छं धूनोतिधुवति स्फुटम्।धुनाती च धुनीते च कम्पयत्येष धूनुते॥
५८.आदत्ते संभजते संभजति स्वीकरोति गृह्णीते।गृह्णाति चाददाति ग्राहयति वृणीत इत्यभिन्नार्थाः॥
५९.विलोडयतिमथ्नाति खजत्यालोडयत्यपि।मथत्यब्धिं मन्थतिच व्यालोडति विलोडति॥
६०.कुप्यतिक्रुध्यतिद्वेष्टिरुष्यतिद्रुह्यतीर्ष्यति।रोषत्यसूयति तथा रोषयत्यरये भटः॥
                             (अनुवर्तते)
अहिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages