कोशेष्वजादिपदानि पूर्वतोऽनुवर्तन्ते------

2 views
Skip to first unread message

iviyan82

unread,
Mar 22, 2014, 2:37:51 AM3/22/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
कोशेष्वजादिपदानि ------आकारादिशब्दाः--------यथा-----

आभाप्रख्योपमाभिख्याप्रकारस्सन्निभोनिभः।नीकाशाद्याश्च साम्यार्थाः समेस्स्युश्शब्दतःपरे,यादवः---आयल्लकमुत्कण्ठास्यादुत्कलिकारतिश्चरणरणकम्,यादवः---सीतायल्लकभल्लभग्नहृदयस्स्वस्थोनलङ्केश्वरः,महानाटके-----आभोगो वरणे छत्रे पूर्णतायत्नयोरपि,विश्वः--आमिषं मांस उत्कोचे त्रिषु स्याद्भोग्यवस्तुनि।आमिषं पलले क्लीबं त्रिषु स्याद्भोग्यवस्तुनि।वि--आर्यस्साधुकृतज्ञयोः-विश्वः----॥अस्त्याहकालसामान्ये तिङन्तं प्रतिरूपकम्॥पुरुषोत्तमः॥--॥उवाचार्थे निपातस्स्यादाहतिङ्प्रतिरूपकः।।---॥आवर्तोवर्तनेपि स्याच्चिन्तने पयसां भ्रमे।विश्वः---॥आवेशिकः प्राहुणिकः आगन्तुरतिथिस्तथा।-हलायुधः---आगमश्शास्त्र आयतौ-विश्वः---आयतिस्तूत्तरे काले संयमायामयोरपि--शाश्वतः---आशयस्स्यादभिप्राये मानसाधारयोरपि--विश्वः-आहवस्सङ्गरेयागे,विश्वः---आकृतिःकथितारूपसामान्यवपुषोरपि--विश्वः-दोष आधीनवो मतः-आमोरोगे रोगभेदे प्यामो पक्वे तु वाच्यवत्।,विश्वः-ऋजौ नामस्त्रिष्वपक्वेप्यामेत्यामन्त्रणे व्ययम्।रत्न---आलिङ्गनमुपगूहनमाहुःपरिरम्भणं परिष्वङ्गम्॥आश्लेषमङ्कपाळीं क्रोडीकरणं च तुल्यार्थं----हला--आसारस्स्यात्प्रसरणेवेगवृष्टौसुहृद्बले।,वै---आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः,वै--
आहसोललितं क्रीडा--अज---आपातस्स्यादुपक्रमे।-वै-आलोचनं तु तत्प्राहुर्यत्तु बुद्ध्या निरेक्षणं-वै--स्थाणोर्धनुस्त्वाजगवमजगावमजीगवम्--विदग्ध--आवेष्टको वृतिर्वाटी-विदग्ध--आरक्षाः पुररक्षिणः-विद--आढकी स्यात्तुवरिका तोगिरी-विद--आमुष्यायण उत्पन्नो यःप्रख्यातकुलात्पितुः,विद---॥आनकः पटहे भेर्यां मृदङ्गे स्वनदम्बुदे--विद---॥शब्दार्णवः॥उपधानं विशेषे स्याद्गेन्दुकेप्रणयेपि च।-वि-उद्ग्राहितमुपन्यस्तम्॥वैज---अभ्यस्तेप्युदितं न्याय्ये,या--उलपा बल्बजा प्रोक्ताः--वि--अस्योच्चूडावचूडौ द्वौऊर्ध्वार्धोमुखचूडकौ॥ह॥अस्य कुक्कुटस्य--उर्वरासर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके।-वि-उत्कोचोस्त्रीकटपलः॥-वै--उद्वर्त्तोत्तानिके समे---वै--उत्सेकौ गर्वविद्वेषौ--भागु---अथ मृद्भाण्डमुष्ट्रिकाः।

                                                                                                                 (अनुवर्तते)                          


अभिवाद्य,
ऐवियन्।
Reply all
Reply to author
Forward
0 new messages