प्रमाणवचनानि---------पूर्वतोऽनुवर्तन्ते-------
॥कामन्दकः॥गिरिपृष्ठं समारुह्य प्रासादं वा रहो गतः।अरण्ये निश्शलाके वा मन्त्रयेताविभावितः॥मनु॥निस्तम्भे निर्गवाक्षे च
निर्भित्त्यन्तरसंश्रये।प्रासादाग्रेत्वरण्ये वा मन्त्रयेताविभावितः।सहायास्साधनोपायाः विभागो देशकालयोः।विनिपातप्रतीकारस्सि
द्धिःपञ्चाण्ग्गमिष्यते॥कामन्दकः॥कर्मणामारम्भोपायः॥पुरुषद्रव्यसम्पत्तिः॥देशकालविभागः।विनिपातप्रतीकरः कार्यसिद्धिश्चेति॥
राजमन्त्राङ्गपञ्चकम्॥नाट्यम्॥योसौ धनिविशेषस्तु स्वरवर्णविभूषितः।रञ्जको जनचित्तानां स रागः कथितो बुधैः॥क्रमात्
स्वराणां सप्तानामारोहश्चावरोहणम्।मूर्छनेत्युच्यते तज्ज्ञैः॥इति च सङ्गीतरत्नाकरः----शृङ्गाररसभूयिष्ठैः भूरिभावतरङ्गितैः।
अङ्गैरनङ्गसर्वस्वशोभातिशयशालिभिः।अन्वितो नृत्तभेदो य स्तल्लास्यमिति कथ्यते॥सङ्गीतचूडामणिः॥---॥रङ्गं प्रसाध्य
निष्क्रान्ते सूत्रधारे सहानुगे।तादृशःप्रविशेदन्यस्सूत्रधारगुणाकृतिः॥दशरूपकं॥अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रदर्शयेत्।चक्षुर्भ्यां
भावयेद्भावं पादाभ्यां तालनिर्णयः।यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः।यतो मनस्ततो भावो यतो भावस्ततो मतिः॥---पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी।कुब्जा च स्वरहीना च षडेता नाट्यवर्जिताः॥भरतः॥यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये।कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गस्स कीर्तितः॥वसन्तराजीये॥--॥पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते प्रविश्य तद्वदपरः कार्यमास्थापयेन्नटः॥प्रथमं पूर्वरङ्गस्स्यात्ततः प्रस्तावनेति च।आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते॥
प्रयाणोपक्रमे हर्षो मार्गे सर्वत्र सौख्यदः।मनःप्रसादः प्रथमं प्रस्थाने सिद्धिकारणम्॥१.वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं
भरतं नलं च।एतान्नृपान्यस्स्मरति प्रयाणे तस्यार्थसिद्धिःपुनरागमश्च॥२॥पूर्णकुम्भे तथादर्शे दध्नि मद्ये तथामिषे।मीने शङ्खे ध्वजे छत्रे चामरे चारुयोषिति।चाषे मृगे भरद्वाजे फलपुष्पाक्षतेषु च।वृषभे समदे नागे सितवाहे द्विजोत्तमे।सुवर्णे दिव्यरत्ने च वीणायां पटहेपि च।बद्धे चैव पशौ दृष्टे यात्रा भवति सिद्धिदा॥धृतातपत्रश्शुचिशुक्लवासाःपुष्पाञ्चितश्चन्दनचर्चिताङ्गः।विप्रश्शिखावान् कृतभोजनश्च ददाति दृष्टः पथि सर्वसिद्धिम्॥
॥वसन्तराजीयम्॥दक्षिणाक्ष्णः परिस्पन्दो दक्षिणस्य भुजस्य च।हृदयस्य प्रसादश्च सद्यस्संसिद्धिसूचकाः॥शकुनशास्त्रम्॥---॥
दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात् पश्चाद्दृष्टो यस्स पाकं विधत्ते।शंसेदिष्टं तत्र साधु द्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम्॥
गार्ग्यः॥न देवा दण्डमादाय रक्षन्ति पशुपालवत्।यन्तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।