क्रियानिघण्टुः------पूर्वतोऽनुवर्तते--------

6 views
Skip to first unread message

iviyan82

unread,
Mar 2, 2014, 12:07:49 AM3/2/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
क्रियानिघण्टुः-----------पूर्वतोऽनुवर्तते-------

६१.प्रावृणुतेकुम्भयतेस्तृणोतिवस्त्रैस्तृणातिकुम्भयतिच।स्तृणुतेचाच्छादयतिप्रोर्णोतिप्रोर्णुते स्वाङ्गम्॥
६२.प्रावृणोतिस्तृणीतेथ विदारयति हृद्गतं।भिनत्तिस्फोटयत्येष भिन्तेदारयतिस्फुटम्॥
६३.पिदधातिस्थगयति पिधत्ते चावृणोति च।अपिधत्ते चावृणुतेच्छादयत्यन्यदुर्गुणान्॥
६४.कम्पते वेपते त्वंगत्यजतिप्रचलत्यपि।निद्रातिच वटुश्शेतेसस्तिच स्वपितीत्यपि॥
६५.रुण्टतिलुण्टतिमुषतिच मोषति मुष्णाति चोरयत्यर्थम्।लुण्टयतिग्रोचतिच ग्लोचतिकोजतिचभोजतिक्षतबुद्धिः॥
६६.बिभेत्युद्विजते त्रस्यत्येष त्रसति शङ्कते।विद्रातिविद्रवत्येष धावत्यपि पलायते॥
६७.भ्रमतिभ्राम्यतिभ्रामयत्याघुणति।घोणतेघूर्णति तथा कीर्तिस्ते भुवनत्रये॥
६८.तंसत्यलङ्करोत्येष भूषयत्यपि भूषते प्रसाधयत्यपि गुणैर्या मण्डयति मण्डति॥
६९.द्योततेशोभतेसम्यग्भासते च प्रकाशते।भ्राजतेदीप्यतेभाति राजा राजतिराजते॥
७०.हटत्ययं कनतिच तथा शुम्भतिशुम्भते।चकास्ति रोचते चैव भ्राशते भ्लाशते बुधः॥
७१.श्च्योततिक्षरतिक्षीरं स्तनात्स्रवति सूदते।वत्सं पाति च पुष्णातिपुष्यत्युपचिनोति च॥
७२.नदतिध्वनतिरौतिकौतिस्वनतिकूजति।कवते कुवते पक्षी तथा कुञ्जति गुञ्जति॥
७३.जुगुप्सतेकुत्सयते विगर्हयतिनिन्दति।गर्हतेग्लहतेपापात्तथा बीभत्सते सुधीः॥
७४.शपतेशपतिक्रोधात्तथा शप्यतिशप्यते।आक्रोशत्याक्षिपति च दुर्जनं सकलो जनः॥
७५.जिह्रेतित्रसतेह्रीच्छत्यलं व्रीडतिलज्जते।लज्जते दुश्चरित्राणि दृष्ट्वान्यस्य स्वयंसुधीः॥
७६.आश्लिष्यत्यालिङ्गति परिरभते दिग्वधूः परिष्वजते।उपगूहति कीर्तिश्रीः कुन्देन्दुसमप्रभावी बुधः॥
७७.स्वदतेस्वादतेक्षीरं स्वर्दते रोचते नृणां।द्रायतिप्रीयते चतुर्भुक्त्वा तृपति तृप्यति॥
७८.प्रीणातितर्पयत्यलमाह्लादयतिवा तृप्नोति।सन्तोषयतिधिनोतिप्रीणयतिपृणोतिसुखयति प्रौडः॥
७९.स्निह्यतितूषतितुष्यतिहृष्यति दृष्ट्वैव मोदते कान्तम्।दृप्यतिमाद्यतिकर्वतिखर्वति सा क्षीबते च गर्वति च॥
८०.विचिनोत्यवेक्षतेऽसावन्विष्यतिमृगयते गवेषयति।अन्वेषते च मार्गतिमार्गयति च विचिनुते दोषान्॥
                          (अनुवर्तते)
अभिवाद्य,
ऐवियन्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 2, 2014, 8:07:36 AM3/2/14
to iviyan82, shishupAl...@googlegroups.com
वीरपाण्ड्यादयो द्रविडभूपाः संस्कृतज्ञाश् संस्कृतप्रेमिण आसन्निति खलु आधुनिकैर् विस्मर्यते!

कियद्बुद्धिमत्तया वीरपाण्ड्येन कृतोऽयं निघण्टुः।
--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 2, 2014, 2:37:00 PM3/2/14
to iragavarapu narasimhacharya, shishupAl...@googlegroups.com
(+शिशुपालवधसन्देशश्रेणिः।)
आर्य, भवद्दर्शित-आश्चासश्लोकेनैव ज्ञायते यत् श्रीहर्षवर्धनो भिन्नः, श्रीहर्षकविर्भिन्न इति। किञ्च यथा संस्कृतविकिपीडियया ज्ञायते, श्रीहर्षकविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति।


2014-03-02 10:26 GMT-08:00 iragavarapu narasimhacharya <iviy...@gmail.com>:
श्रीहर्षः ३६८०  तमे कलिवर्षे (आधुनिककालस्तु  ६--७ शताब्दमध्यकालः भवेत्)  श्रीकण्ठनाम्नि
जनपदे स्थाण्वीश्वराख्ये नगरे प्रभाकरवर्धनो नाम राजा बभूव।तस्य यशोवत्यां राज्यवर्धनो
हर्षवर्धन इति च द्वौ पुत्रौ,राज्यश्रीरित्येका कन्या चाजायन्त।तस्य जामातुः ग्रहवर्मणो हन्तारं
मालवेश्वरं राज्यवर्धनो मारितवान्। कर्णसुवर्णपतिना गौडाधिपेन शशाङ्कनरेन्द्रगुप्तेन राज्यवर्धने
निहते ३७१० तमे वर्षे हर्षवर्धनः सिंहासनमारूढवान्। अस्य शीलादित्य इति कुमारराज इति नामनी आस्ताम्।अनेन वीरेण गौडाधिपजयाय प्रस्थितेन कामरूपाधिपो भास्करवर्मा सख्यं
कृतवान्।प्रतापे विदुषामादरणे च विक्रमार्कतुल्यः श्रीहर्षोऽभवत्।अनेन बुद्धमतमादृतमासीत्।
कान्यकुब्जमपि(कनोज्) अस्य वशे स्थितम्। (श्री टि.गणपतिशास्त्रिणः भारतानुवर्णनात्)
एतच्चरित्रं साक्ष्यं सः भूप इति।बाणभट्टस्य हर्षचरित्रमपि द्वितीयं साक्ष्यम्भोः।नैषधकाव्ये 
आश्वासान्तश्लोकाः अपि साक्ष्याणि।स श्लोकः यथा---
श्रीहर्षं कविराजराजिमकुटालङ्कारहीरस्सुतं
श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यं।
तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥(नैषधस्य तृतीयसर्गान्तश्लोकः)
एवं साक्ष्याणि सन्ति भोः। 


2014-03-02 20:33 GMT+05:30 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:

स एव श्रीहर्षः भूप इति कथं वा जानीमः?


2014-03-02 6:54 GMT-08:00 iragavarapu narasimhacharya <iviy...@gmail.com>:

तदेव महदाश्चर्यं जनयति भोः। श्रीहर्षः, शूद्रकः, केरळीयः  कुलशेखरः, एवं बहवो राजानः
संस्कृतज्ञास्सन्ति भोः।श्रीहर्षस्य द्विरूप,त्रिरूप,चतूरूप,पञ्चरूपकोशाः अद्भुताः खलु।
धन्यवादः,
ऐवियन्।


--
You received this message because you are subscribed to the Google Groups "शिशुपालवधपाठः नरसिंहाचार्यवर्याणाम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shishupAlavadha...@googlegroups.com.
For more options, visit https://groups.google.com/groups/opt_out.




--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 2, 2014, 2:47:00 PM3/2/14
to iragavarapu narasimhacharya, shishupAl...@googlegroups.com
हर्षवर्धनविषयकं भवदालेखं परोपकाराय https://sa.wikipedia.org/wiki/%E0%A4%B9%E0%A4%B0%E0%A5%8D%E0%A4%B7%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A7%E0%A4%A8%E0%A4%83 इत्यत्र अतिष्ठिपम्।
Reply all
Reply to author
Forward
0 new messages