लिङ्गानुशासनवृत्तिः-----------पूर्वतोऽनुवर्तते---------------
----॥ऋषिराशिवतिदृतिग्रन्थिक्रिमिध्वनिबलिकालिमौळिरविकपिमुनयः॥---एते पुंसि भवन्ति।अयमृषिरित्यादि।---॥ध्वजगज
मुञ्जपुञ्जाः॥ एते पुंसि भवन्ति।अयं ध्वज इत्यादि।--॥हस्तकुन्तान्तव्रातवातदूतधूर्तसूतचूतमुहूर्ताः॥ एते पुंसि भवन्ति।
अयं हस्त इत्यादि।--॥षण्डमण्डकरण्डभरण्डवरण्डगण्डतुण्डमुण्डपाषण्डशिखण्डाः॥ एते पुंसि भवन्ति।अयं षण्ड इत्यादि।
---॥वंशांशपुरोडाशाः।एते पुंसि भवन्ति।अयं वंश इत्यादि। पुरो दास्यते=दीयते,पुरोडाशः।कर्मणि घञ्। भवव्याख्यानप्रकरणे
पोरोडाशपुरोडाशट्ठन्निति विकारप्रकरणे व्रीहेः पुरोडाशेति निपातनाच्च दस्य डत्वम्।पुरोडाशभुजामिष्टमिति माघः।-----॥ह्रद
कण्डकुण्डबुद्बुदशब्दाः॥एते पुंलिङ्गा भवन्ति।अयं ह्रद इत्यादि।---॥अर्घपथिमथ्यृभुक्षिस्तम्भनितम्बपूगाः॥अर्घादयः पुंलिङ्गा
भवन्ति।अयमर्घ इत्यादि।--॥पल्लवपल्वलकफरेफकटाहनिर्व्यूहमरमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गमुद्गपुङ्खाः॥एते
पुंलिङ्गा भवन्ति।अयं पल्लव इत्यादि।---॥सारथ्यतिथिकुक्षीवस्तिपाण्यञ्जलयः॥--एते पुंलिङ्गा भवन्ति।अयं सारथिरित्यादि
।इति पाणिनीयलिङ्गानुशासनवृत्तौ पुंलिङ्गाधिकारः॥-------
अभिवाद्य,
ऐवियन्।