द्विरूपकोशः--------पूर्वतोऽनुवर्तते।

10 views
Skip to first unread message

iviyan82

unread,
Feb 23, 2014, 12:52:54 AM2/23/14
to shishupAl...@googlegroups.com, shishupAl...@googlegroups.com, विश्वासो वासुकिजः (Vishvas Vasuki)
श्रीहर्षकृत द्विरूपकोशः----------पूर्वतोऽनुवर्तते।

१०१.पृषदश्यः पुष्पवन्तौ पुष्पवद्भ्यां समौ स्मृतौ।परीसृता परिसृता भवेत्पाटच्चरस्तथा।पाटचारः परीरम्भः
       परिरम्भो निगद्यते।
१०२.भवेत्प्रोष्ठपदाभाद्रपदा परिमळस्तथा।परीमळः परिवृतः परीवृत अपीरितः॥
१०३.परिहासः परीहासःपारिप्लवपरिप्लवौ।प्रतिहारः प्रतीहारो भवेत्पारम्परी तथा॥
१०४.पारम्पर्यमपि प्रोक्तं,फलं च फलितं मतं।फेला फेलिरपि प्रोक्ता फुल्लस्सम्फुल्ल इत्यपि॥
१०५.भवेत्फालं च भालं च फलितं फालितं तथा।फेरवश्चापि फेरुश्च फल्गुनः फाल्गुनोऽपि च॥
१०६.बुसोपिस्यात् बुषश्चापि बाहुर्बाहाबुको बकः।बुद्धं बुधितमप्याहुर्ब्रसी चापि ब्रषी तथा॥
१०७.भवेद्ब्राह्मी ब्राह्मणी च बाणी बाणो बकोवकः।बोधी बोधिद्रुमश्चापि बर्ही बर्हण उच्यते॥
१०८.बर्हिश्च बर्हिश्शुष्मा च विसंविसमितीरितं।ब्राह्मीको ब्राह्मिकश्चापि बन्धूरं बन्धुरं समम्॥
१०९.बिम्बोष्ठं चापि बिम्बौष्ठं बन्धूकं बन्धुकं तथा।बिब्बोकं चापि बेब्बोकं बहुळं बहु चेत्यपि॥
११०.बलाका च वलाका च बिडौजाश्च बिडौजसः।बलारिश्च वलारिश्च बिडालश्च बिडारवत्॥
१११.बान्धवं बन्धुमप्याहुः बलाहकवलाहकौ।बीजापूरो बीजपूरो भिन्नं भेदितमित्यपि॥
११२.भूष्णुर्भविष्णुर्भूमिश्च भूमी च स्यात् भुजाभुजः।भीरुर्भीरूर्भरो भारः भाभा भूषा च भूषणा॥
११३.भृतिर्भृत्याभगोभागो भाषा भाषणमित्यपि।भाद्रभाद्रपदौ तुल्यौ भ्राणो भ्रूणः प्रकीर्तितः॥
११४.भगिनी भागिनी चापि भरता भारती तथा।भैषज्यं भेषजं चापि भूधरश्च धरोपि च॥
११५.भृङ्गारुश्चापि भृङ्गारो भर्त्सनं भर्त्सना तथा।भाण्डीरश्चापि भण्डीरो भवेद्भृङ्गरजस्तथा॥
११६.भृङ्गराजोपि कथितो मेथिर्मेथी महिर्मही।महश्च महसा प्रोक्तो मृष्टं म्लिष्टमपि स्मृतम्॥
११७.मणिर्मणी भवेन्माहो महश्च स्यात् मघोमखः।मुस्ता च मुस्तकं चापि मस्तो मस्तक इत्यपि॥
११८.मुनिश्च स्यान्मुनी चापि मृदुर्मृद्वी तथै व च।मसूरो मसुरश्च स्यात् मूसलं मुसलं तथा॥
११९.मद्गलो मुद्गलोपि स्यात् मद्गरो मुद्गरस्तथा।महिला च महेला च मन्दिरं मन्दिरापि च॥
१२०.स्यान्मार्गितं च मृगितं मार्जनं च मृजा तथा।मृदुलं मृदु च प्रोक्तं मञ्जुलं मञ्जु चेत्यपि॥
१२१.मङ्गल्यमपि माङ्गल्यं मतल्लिश्च मतल्लिका।मकुरो मुकुरश्चापि मांसलो मंसलोपि च॥
१२२.मिहीका मिहिका च स्यात् मिहिरो महिरस्तथा।मण्डूकश्चापि माण्डूको मकुळो मुकुळस्तथा॥
१२३.मथुरा मधुरा चापि मन्थरो मन्दरस्तथा।मर्दळो मर्दळश्चैव मध्यमं मथ्यमित्युच्यते॥
१२४.मृणळं च मृणाळी च मन्थनं मथनं समं।मंजरिर्मञ्जरी च स्यात् मघवा मघवांस्तथा॥
१२५.मार्जालश्चापि मार्जारो मुषितं मुष्टमित्यपि।मंटपो मण्डपश्चापि मासारश्च मसारवत्॥
१२६.मादनश्चापि मदनो मुकुंदः कुंद एव च। मलकश्चाप्यामलको मृद्वीका मृद्विकापि च॥
१२७.मार्गशीर्षो मार्गशिरो भवेन्मातृष्वसा तथा। मातुस्स्वसा मत्तकेशी मत्तकाशिन्यपि स्मृता॥
१२८.विद्यान्मृगशिरञ्चापि तथा मृगशिरोपि च।मणीचकं मणिचकं द्वयं कुसुमवाचकं॥
१२९.मदावनं मदवनं प्रपूर्वं परिकीर्तितं।भवेद्युष्टं च युषितं।योत्रं योक्त्रमपीरितम्॥
१३०.यमश्च यमळश्चापि यमो यामः प्रकीर्तितः।युक्तं युतमपि प्रोक्तं यौवनं यौवतं तथा॥
१३१.युवती युवतिश्चापि युतकं यौतकं तथा।योषितापि भवेद्योषित् योजनं योजना तथा॥
१३२.यजनं याजनं विद्यात् यमुना जमुना तथा।यातीफलं जातिफलं यातुधानस्तथा स्मृतः॥
                                               (अनुवर्तते)
अभिवाद्य,
ऐवियन्।.

Reply all
Reply to author
Forward
0 new messages