प्रमाणवचनानि अनुवर्तन्ते------पूर्वतः-----------
॥छन्दोरत्नहलायुधम्॥------संहितैकपदे नित्या नित्या धातूपसर्गयोः।नित्या समासे वाक्ये तु सा विवक्षामपेक्षते।----सर्गैरनति
विस्तीर्णैः श्लाघ्यवृत्तैस्सुसन्धिभिः।सर्वत्र भिन्नसर्गान्तै रुपेतं लोकरञ्जनम्॥कालभावाध्वगन्तव्याः कर्मसंज्ञाह्यकर्मणां।देशश्चा
कर्मकाणाञ्च कर्मसंज्ञो भवेदिह।कर्तुः क्यङ् सलोपश्चेति सूत्रे सलोपनियामकवचनम्।ओजसोप्सरसो नित्यमितरेषां विभाषया।
ओजायते॥अप्सरसायते॥विद्वायते॥विद्वन्यत इत्यादि॥भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशुके इत्यत्र सुभूतिचन्द्रकृते व्याख्याने अर्धशब्दस्य त्रिलिङ्गतामङ्गीकृत्य अर्धा शाटी अर्धं वस्त्रं अर्धः कम्बळः इत्युदाहृतम्।कलामिवार्धामकठोरधाम्नः
इति यादवाभ्युदयप्रयोगश्च॥दृष्टेर्धयाथापरे इति केशवदैवज्ञप्रयोगश्च॥---॥उत्कर्षवान् गुणः कश्चिदुक्ते यस्मिन् प्रतीयते।तदुदाराह्वयं तेन सनाथौदार्यपद्धतिः॥दण्डी---॥श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते।प्रसिद्धार्थपरत्वं यत्प्रसादो निगद्यते।ओजस्समासभूयस्त्वं।बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता।नातिदीर्घसमासा च वैदर्भीरीतिरिष्यते।चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयपदं वामनः॥रावणस्य चतुष्पात्त्वे प्रमाणानि॥इत्युक्ता मुनिना तेन दुःखहर्षसमन्विता।आदरेणैव कालेन सुषुवे पुत्रमद्भुतं।दशास्यं विंशतिभुजं भिन्नाञ्जनचयोपमं।पादैश्चतुर्भिरत्युग्रं ताम्रोष्ठं ताम्रमूर्धजं। नारदीये जैमिनिरामायणे द्वादशेध्याये सप्तदशश्लोकः॥रघुवंशे अष्टादशसर्गे॥भुजमूर्धोरुबाहुळ्या देकोपि धनदानुजः इत्यष्टाशीतितमः श्लोकः जानकीपरिणयनाटके॥शिरोदशकमग्रतः पदचतुष्टयं चान्यतः।इति च॥दशास्यो विंशतिभुजश्चतुष्टान्मानमन्दिरं इत्यभिधानरत्नमाला च॥---॥न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवं॥इति दिवशब्दस्याकारान्तत्वे सुभूतिचन्द्रः॥उपक्रमोपसंहारावभ्यासोपूर्वताफलं।अर्थवादोपपत्ती च लिङ्गंतात्पर्यनिर्णये॥इवेतीषदर्थोपमोत्प्रेक्षावाक्यालङ्कारे।गणव्याख्यानं।कल्पदेशीयदेश्याद्यास्स्पर्थिप्रतिभटादयः।निभवद्वादयश्चापि क्वचित्सम्भावनापराः॥कल्पतरुः॥ यो बिभर्ति जटाजूट गाढबद्धोरगोद्यतां।आशीमिव कलामिन्दोर्गङ्गां तल्लयिनीमिव।आशी शब्द ईकारान्तः प्रयुक्तः।एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत्।पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते।द्वयोर्द्वयोर्व्यञ्जनयोःयुग्मयोर्या निरन्तरा।आवृत्तिश्श्रूयते सोयं छेकानुप्रास ईरितः।सुपां तिङां च व्युत्पत्तिस्सौशब्द्यमिति कथ्यते।आवर्त्यतेर्थभेदेन सस्वरव्यञ्जनावळीः।यदा तदा स्याद्यमकं बहुधाद्यन्तमध्यगम्॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।