प्रमाणवचनानि पूर्वतोऽनुवर्तन्ते-----------
नीतिः------उद्योगादनिवृत्तस्य सुसहायस्य धीमतः।छायेवानुगता तस्य नित्यं श्रीस्सहचारिणी॥तस्य राज्ञः---स्त्रीभिष्षण्ड इव
श्रीभिरलसः परिभूयते।यत्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम्॥पुमांस्तत्रानुपालभ्यो दैवान्तरितपौरुषः।निष्फलं क्लेशबहुळं
सन्दिग्धफलमेव च।न कर्म कुर्यान्मतिमान् सदा वैरानुबन्धि च॥ कामं----राज्ञः परिजनस्यापि मङ्गळाचारशंसिनः।मान्यै
र्मागधिकागीतैर्मागधा इत्युदीरिताः॥तत्तत्प्रहरकयोग्यैःरागैस्तत्कालवादिभिः श्लोकैः।सरभसमेकविचारं गायन्वैताळिको भवति॥मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषु॥चापलेनानुपहता सर्वार्थेष्वविकत्थना।स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधीयते॥----विषादस्चेतसो भङ्ग उपायापायचिन्तनैः॥सुखदुःखादिजनितो मोहश्चित्तस्य मूढता॥---मनस्संकोचसंलज्जा ह्यनौचित्यप्रवर्तनात्।अविषह्यो मनस्तापस्संज्वरः परिकीर्तितः॥येनाङ्गारनदीमध्ये विलुठन्निव भात्यते॥---॥चापलं त्वनवस्थानं रागद्वेषादिसम्भवं।
ध्यानं चिन्तेप्सितानाप्तेश्शून्यताश्वासतापकृत्॥---॥क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः॥वपुर्जलोद्गमस्स्वेदो रतिघर्मश्रमादिभिः॥---॥मनसो यद्दयार्द्रत्वं विषयेषु च तत्त्वतः।भयशङ्कावसानात्मा स एष स्नेह उच्यते॥--॥रतिव्यायामसहनो मत्तेभस्येव मत्तता।विद्यते युवभावो यस्तद्यौवनमुदाहृतम्॥---॥यस्य प्रभावादाकारा हर्षक्रोधभयादिषु भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यं प्रकीर्तितम्॥---॥भीशोकक्रोधहर्षेषु गाम्भीर्यं निर्विकारता॥--॥भूपालः॥स वीरो यस्य वै वीर्यमरिणा युधि वर्ण्यते------एको रथो गजश्चैको नराः पञ्चपदातयः।त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।पत्तिं तु त्रिगुणामेतां विदुस्सेनामुखं बुधाः।त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः।स्मृता तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।चमूस्तु पृतनास्तिस्रः चम्वस्तिस्रस्त्वनीकिनी।अनीकिनीं दशगुणामाहुरक्षौहिणीं बुधाः॥
भारतम्----क्षीणाः प्रकृतयो लोभं लुब्धा यान्ति विरागताम्।विरक्ता यान्ति शत्रुत्वं भर्तारं घ्नन्ति वा स्वयम्॥कौटिल्यः---
धर्महेतोन्तमादाय भृत्यानां रक्षणाय च।अपदर्पं च संरक्ष्यः कोशः कोशवता सदा॥कामंदकः----प्रायेण सन्तो व्यसने रिपूणां
यातव्यमित्येव समादिशन्ति।तन्नैषपक्षो व्यसनं ह्यनित्यं क्षमस्तु सन्नभ्युदितः प्रतीयात्॥यदा क्षमन्तं प्रसभं निहन्तुं
पराक्रमादूर्जितमप्यमित्रम्।तदाभियायादहितानि कुर्वन्नुपायतः कर्षणपीडनानि॥
(अनुवर्तते)
अभिवाद्य,
ऐवियन्।