रमणीयम्! कल्पिता अपि बान्धवा सन्दृष्टा इव। एकारस्य diphthong-वचनं रोचते! पदपाठो ऽपि दर्शितश् चेद् वरम्।
पत्म॑नू॒तये॑ → पत्म॑न्नू॒तये॑ ?
के॒तुश्चिके॑त॒च्छ्रेस्ते॑ → अत्र श्रेः-शब्दस्य कोऽर्थः?
प्रता मु॑ञ्च॒ विश्वा॑। → अत्र प्रता-शब्दस्यार्थः?
सद॑श्चुच्यवीरर॒तिं → ई॒र॒रति॑र् नाम विमानपालिका? तार॒तयो॑ इत्यत्रापि? कथं व्युत्पद्यते?
ने॑ज॒न्ये॑षु → अस्य का व्युत्पत्तिः/ प्रयोगः क्व दृश्यः?
अवा॒नित्रा॑, अनिहि→ अत्रानिशब्दस्य?
सुधि॑तानित्र॒ → सिहित अनित्र इति न स्यात्?
निरे॑तवे → निरीतवे?
ह॒स्त॒भा॒र्यं१॒॑ → कुतो हस्तशब्दे सन्नतरौ?