देवपात्रं वा᳘ ऽएष य᳘दग्निस्त᳘स्मादग्नौ स᳘र्व्वे᳘भ्यो देवे᳘भ्यो जुह्वति देवपात्र᳘ᳫं᳘ ह्येष प्रा᳘प्नोति ह वै त᳘स्य पा᳘त्रं य᳘स्य पा᳘त्रं प्रे᳘प्स्यति य एव᳘मेतद्वे᳘द॥
इति शतपथब्राह्मणे (श्रीधरादिपाठोऽप्य् अयम् एव, वॆबर्-पाठोऽपि तुल्यः)।
य᳓ एव᳓म् एत᳓द् वे᳓द॥
इत्य् उदात्तेष्व् अपेक्षितेषु
य एव᳘मेतद्वे᳘द॥
इत्यत्रादिमे स्वरचिह्नं लुप्तं दोषेणेत्य् अनुमानम्। भवतां कोऽभिप्रायः?
-- --
Vishvas /विश्वासः