(किञ्च "एको हि दोषो गुणसन्निपाते" इति भावेन प्राशस्त्यम् अविस्मृत्यैव तथोक्तम्। साम्प्रदायिकेभ्यो ऽपशब्दप्रयोगस्य क्षमां याचे।)
शाखासु दृश्यमाना वर्णव्यत्यासाः पौरुषेया इति वर्तते खलु -
> लिङ्गपुराणे
> एको वेदश् चतुष्पादस् त्रेतास्व् इह विधीयते । संक्षयाद् आयुषश् चैव व्यस्यते द्वापरेषु सः ॥ १,३९.५७ ॥
> ऋषिपुत्रैः पुनर्भेदा भिद्यन्ते दृष्टिविभ्रमैः । मन्त्र-ब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः ॥ १,३९.५८ ॥
> संहिता ऋग्यजुःसाम्नां संहन्यन्ते मनीषिभिः । सामान्या वैकृताश्चैव द्रष्टृभिस् तैः पृथक्पृथक् ॥ १,३९.५९ ॥
> वायुपुराणे -
> संरोधाद् आयुषश् चैव दृश्यते द्वापरेषु च । वेदव्यासैश् चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ५८.११ ॥
> ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः। मन्त्रब्राह्मण-विन्यासैः स्वर-वर्ण-विपर्ययैः ॥ ५८.१२ ॥
> संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः। सामान्याद्वैकृताच् चैव दृष्टिभिन्नैः क्वचित्क्वचित् ॥ ५८.१३ ॥
> ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च। अन्ये तु प्रहितास् तीर्थैः केचित् तान् प्रत्यवस्थिताः ॥ ५८.१४ ॥
> मत्स्य-पुराणे -
> संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह ॥ १४४.१० ॥ वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु ।
> ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ॥ १४४.११ ॥
> ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः । संहृता ऋग्यजुःसाम्नां संहितास् तैर् महर्षिभिः ॥ १४४.१२ ॥
> सामान्याद् वैकृताच् चैव दृष्टिभिन्नैः क्वचित् क्वचित् । ब्राह्मणं कल्पसूत्राणि भाष्य-विद्यास् तथैव च ॥ १४४.१३ ॥
> अन्ये तु प्रस्थितास् तान् वै केचित्तान् प्रत्यवस्थिताः । द्वापरेषु प्रवर्तन्ते भिन्नार्थैस् तैः स्वदर्शनैः ॥ १४४.१४ ॥
> एकम् आध्वर्यवं पूर्वम् आसीद् द्वैधं तु तत् पुनः । सामान्य-विपरीतार्थैः कृतं शास्त्राकुलं त्व् इदम् ॥ १४४.१५ ॥
> आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम् । तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः ॥ १४४.१६ ॥
> व्याकुलो द्वापरेष्व् अर्थः क्रियते भिन्न-दर्शनैः । द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ ॥ १४४.१७ ॥