आस्पात्र॑ञ्जु॒हूर्दे॒वाना॒मित्या॑ह । इति तैत्तिरीयसंहितायाम्।
तूर्णि॑र्हव्य॒वाट् । आस्पात्र॑ञ्जु॒हूर्दे॒वाना॑म् ॥ इति तैत्तिरीयब्राह्मणे।
सप्तलक्षणग्रन्थे ऽनिङ्ग्येषु पठितोऽयं शब्दः।
आस्पा᳘त्रं जुहू᳘र्देवा᳘नामि᳘ति शतपथब्राह्मणे॥
आस्पात्र॑म् । जु॒हूः । इति पदपाठः।
तर॒त्यास्पात्र॑म् । आ॒स्पा॒त्र॑ञ्जु॒हूः । जु॒हूर्दे॒वाना॑म् । इति क्रमपाठः।
अयस्पात्र᳓म् इति त्व् अन्तोदात्तो दृश्यते ऽन्यत्र।
स एवार्थो गृहीतो भट्टभास्करेण। सायणेनापि तादृशं गृहीतम्।
तर्हि द्व्युदात्त एवायं शब्दो भाति। कोऽभिप्रायो भवताम्??
क्रमपाठः परिष्कार्यः?