कप्यासः, कपिः, सूर्यः

10 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 11, 2025, 12:43:39 AMJun 11
to shabda-shAstram

कप्यासशब्दे ऽन्तर्जाले दृष्टानां वादानां कश्चन सङ्ग्रहः। 

छान्दोग्ये मूलम्

🦅🦍…🐒🐍

तस्य यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी तस्योदिति नाम ।

व्याख्यानानि

🦅🦍…🐒🐍

माध्व-विवरणानि

🦅🦍…🐒🐍

कप्यास-रक्त-पद्माक्षः सूर्यगश् चाक्षिगश् च सः

इति मध्वः। नात्र “कप्यास”-विवरणम्।

पुण्डरीकशब्दो रक्तपद्मपरः ।
कं पिवन्नालसम्बन्धीति योगेन कप्यासत्वं रक्तपद्मविशेषणमित्यर्थः ।
एवं च कप्यासशब्देनाम्लानत्वं लभ्यत इति तात्पर्यम् ।

  • पदार्थकौमुदी

कप्यासं कं पिबन् नाल-सम्बन्धी अम्लानमिति यावत् ।

  • खण्डार्थः

गीतातात्पर्ये तु - सुखं पिबल् लीलयैव कपिल इत्युक्तम् । कं सुखं पिबतीति कपिः ॥

इति सत्य-सन्ध-तीर्थः।

रामानुजीयाः

🦅🦍…🐒🐍

स्वयम् अपि तद्-अनुभव-सुख-निर्वृतिं पाति पिबतीति वा कपिरव्ययः ।।
“इन् सर्वधातुभ्यः” । आतो लोप: ।। (900)

इति पराशरभट्टः।

It must be noted that the vyutpatti is in support of a rUDhArtha from nirukta (sun), and not anything novel (like blotting paper). If a meaning is listed in a famous dictionary, it is called rUDha. As such, the objection of rUDhi> yoga is not applicable here.

कप्यासं – सलिलस्थम् इत्यर्थः ।
एवम् अस्यार्थत्रयस्य उपपन्नतया वाक्यकारेण सिद्धान्तितत्वम् अभिप्रेत्य
भगवता भाष्यकारेण वेदार्थसङ्ग्रहे –

‘गम्भीराम्भस्समुद्भूत-सुमृष्ट-नाल-रवि-कर-विकसित-पुण्डरीक-दलामलायतेक्षणः’ इति अभिहितम् ।

रङ्गरामानुजः।

Refer to verses 20-26 of Tattvasara by Vatsya Varadaguru of 13th century. This explanation of Ramanuja and Varadaguru was invoked by Vedanta Desika in Tatparya Chandrika. Well, the explanation of Kapi: is more about suitability.

शाङ्कराः

🦅🦍…🐒🐍

तस्य एवं सर्वतः सुवर्णवर्णस्याप्य् अक्ष्णोर् विशेषः ।
कथम् ?
तस्य यथा कपेः मर्कटस्य आसः कप्यासः ;
आसेरुपवेशनार्थस्य करणे घञ् ;
कपिपृष्ठान्तः येनोपविशति ;
कप्यास इव पुण्डरीकम् अत्यन्ततेजस्वि एवम् देवस्य अक्षिणी ; उपमितोपमानत्वात् न हीनोपमा ।

इति शङ्कर उपनिषद्-भाष्ये।

विष्णुसहस्रनामभाष्यकारस् तु “कं जलं रश्मिभिः पिबन् कपिः” इत्य् एव +उवाच। (अनेन तत्-कर्ता न शङ्कर इति ज्ञायते। विस्तारो ऽन्यत्र। )

A rebuttal to “कम् पिबति” has been provided by Rāma Śāstrī in his Kapyāsa-Kaumudī.

Strikes me as a case where some vyAkaraNa knowledge hindered rather than helped. Obvious to common sense (without vyAk) that “monkey-butt” doesn’t fit, but vyAkaraNa leads to superficial “vyutpatti” bias, instead of going straight for avyutpatti or nirukti.

भट्ट-भास्करः

🦅🦍…🐒🐍

" कं पिबति इति कपिः”

इति तैत्तिरीयारण्यके।

निरुक्तकारः कम्प्-धातोः

🦅🦍…🐒🐍

अथ यद् रश्मिभिरभिप्रकम्पयन्नेति तद् वृषाकपिर्भवति । वृषाकम्पनः । [निरु० १२।२७]

इति कम्प्-धातोर् निरुक्तिर् वरा।

Bottom line is by nirukta time, kapi was rUDha as sun among the early vaidika-s (precisely the kind who would use kapyAsa in a contemporaneous upaniShat)

अथ यद् रश्मिभिरभिप्रकम्पयन्नेति तद् वृषाकपिर्भवति ।

वर्णार्थे

कुठिकम्प्योर् नलोपश्च ॥ १४३ ॥ कुठि गतिप्रतिघाते । कपि चलने ॥
श्राभ्यामिः किन्वति धातोर्नलोपश्च । १०
कुठिः पर्वतवृक्षयोः ॥
कपिर्वानरो वर्णनाम च ।
वृषः कपिरस्येत्य् अन्येषाम् अपोति दीर्घः ।
वृषाकपिः शिवे विष्णौ पांते ऽमरः । कपिज्ञात्योर्ढक् । पा ५, १० १२७. । कापेयं । वृषाकपायी श्रीर् गौर्योर् इति यांते?? ऽमरः । कपिशकपिलौ लोमादिसिध्मादी ॥

इत्य् उज्ज्वलदत्त उणादिसूत्रेषु ।

A word such as kapyāsa, denoting a particular variety of lotus, may have no meaningful connection to either kapi or āsa. …

- कुशाग्रः

व्युत्पत्ति-निरुक्तयः

कपेर् आस इति व्युत्पन्नतरम्, किन्त्व् अनुचितम्।
कम् पिबतीति +उचिततरम्।
सर्वधातुभ्य इन्। आतो लोपः इत्य् अनेन च व्युत्पत्तिः।



Reply all
Reply to author
Forward
0 new messages