("आकाशते, आकाशयति च इति") आकाशशब्द एवं व्युत्पाद्यते क्वचित् -
> ण्य्-अन्ताद् अ-ण्य्-अन्ताच् चाङ्-पूर्वात् काशतेः
"सर्व-धातुभ्यो ऽज् वक्तव्य" इत्य् उत्सृष्टे ऽच्-प्रत्यये
तन्त्र+आवृत्त्य्--एक-शेषाणाम् अन्यतमेन रूप-सिद्धिर्
इति भावः ।
अत्र "तन्त्र+आवृत्त्य्--एक-शेषाणाम् अन्यतमेन" इत्यस्य निर्वचनम् इच्छामि। तज्ज्ञा अनुगृह्णन्तु