रङ्गरामानुज-पुरुष-सूक्त-भाष्ये क्वचिद् दोषः?

0 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 24, 2026, 1:07:37 AM (12 days ago) Jan 24
to shabda-shAstram, Hindu-vidyA हिन्दुविद्या, Ramanuja-char रामानुजः पराङ्कुशाचार्य-सूनुः P
उपनिषद्-भाष्यकाराद् भिन्नप्रायेण केनचिद् रङ्गरामानुजेन पुरुषसूक्त-व्याख्या रचिता, यत्रैवम् भाषितम् - 

सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।  
नामा॑नि कृ॒त्वाऽभि॒वद॒न् यद् आस्ते॑ । १६
**धीरः** धिया रममाणः परमविद्वान्  
**अभिवदन्** तैस् तैर् नामभिर् आभिमुख्येन वदन्  
**यदा आस्ते**, तदा तं पुरुषं वेत्ति । इतश् चाहं वेद्मि ॥ १६ ॥
भट्टभास्करोऽपि - 

कृतकृत्यो यदा अभिवदन् आभिमुख्येन वदन् विश्वमनुगृह्णन् आस्ते तदा सर्वदा एवमेव सृष्टिर्वेदितव्येति ॥



इदं यकार-स्वरेण न सङ्गच्छते। यदा इति ह्य् अन्तोदात्तः। अपि ममावगतौ दोषः?

सायणोक्तिस् तु समञ्जसा - 

'यत्' यः पुरुषः, 'सर्वाणि रूपाणि' देवमनुष्यशरीराणि, 'विचित्य' विशेषेण निष्पाद्य, 'नामानि' च देवोऽयं पशुः अयमित्यादीनि, 'कृत्वा', अभिवदन् तैर्नामभिरभितो व्यवहरन्, 'आस्ते', 


--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages