ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वा अ॑ध्व॒र्युस्स्या᳚त् ।
यो यतो॑ य॒ज्ञम्प्र॑यु॒ङ्क्ते ।
तदे॑नम्प्रतिष्ठा॒पय॒तीति॑ ।
इति वर्तते।
12ब्रह्मवादिन इत्यादि ॥ यतः यज्ञं प्रयुङ्क्ते तत् तत्रैव यः प्रतिष्ठापयति स एवाध्वर्युः स्यात् भवितुमर्हतीति ब्रह्मवादिनो वदन्ति ।
वायुविषयेणानेन मन्त्रेण यज्ञसमाप्तिमुपपादयति – “ब्रह्मवादिनो वदन्ति। स त्वा अध्वर्युः स्यात्। यो यतो यज्ञं प्रयुङ्क्ते तदेनं प्रतिष्ठापयतीति।"
इति भास्कर-सायण-भाष्ये।
त्वा शब्द उदात्तः कथम् अवगम्यताम्?
तु आः इति वा? तथा चेत् कथम् आसीद् इत्य् अर्थः?
-- --
Vishvas /विश्वासः