एषाम् - स्वरः

3 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 29, 2025, 8:09:46 AMMay 29
to shabda-shAstram

एषा꣡म् भूत न꣡वेदा म ऋता꣡नाम्
इत्यनेन एषाम् इत्य् अन्तोदात्तो ज्ञायते, ऊड्-इदम्-पदाद्य्-अप्-पुम्-रै-द्युभ्यः इति सूत्रेण च। 

किञ्च तैत्तिरीयब्राह्मणगतवाक्ये - 

अ-प्रि॑यो॒ ह्य् ए॑षाञ् जरत्-क॒ख्षः ।  
न॒व॒-दा॒वो॒॑ ह्य् ए॑षाम् प्रि॒यः ।

कथम् अत्र एषाम् इत्यत्र स्वरनिघातः?

नात्रान्वादेशः कश्चन, येन https://ashtadhyayi.github.io/suutra/2.4/2.4.32/ इत्यनेनाद्युदात्तो ऽपि स्यात्। 


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 29, 2025, 8:15:03 AMMay 29
to shabda-shAstram
अथो᳚ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम् ।  
यथ्स्रु॑ख्स॒म्मार्ज॑नानि स्तम्ब॒शो वा ओष॑धय॒स् तासा᳚ञ्जरत्क॒ख्षे प॒शवो॒ न र॑मन्ते ।  
अप्रि॑यो॒ ह्ये॑षाञ्जरत्क॒ख्षः ।  
याव॑दप्रियो ह॒ वै ज॑रत्क॒ख्षᳶ प॑शू॒नान् ताव॑दप्रियᳶ पशू॒नाम्भ॑वति ।
यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति ।  
न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ॥9॥  
न॒व॒दा॒वो ह्ये॑षाम्प्रि॒यः

इति पाठः। 



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 29, 2025, 8:18:19 AMMay 29
to shabda-shAstram
अथवा प्रायेण जरत्क॒क्षः → ज॑रत्क॒क्षः इति समञ्जसम् भवेत्?
Reply all
Reply to author
Forward
0 new messages