तैत्तिरीयप्रातिशाख्ये कश्चन विचारः -
> अघोषपरस्तस्य सस्थानम् ऊष्माणम्॥९.२॥
> न क्षपरः॥९.३॥
> कपवर्गपरश् चाग्निवेश्य-वाल्मीक्योः॥९.४॥
> ऊष्म-पर एवैकेषाम् आचार्याणाम्॥९.५॥
> न प्लाक्षिप्लाक्षायणयोः॥९.६॥
इति तैत्तिरीय-प्रातिशाख्यम्।
अपवादेष्व् आदिमः प्रसिद्धः -
`शर्परे विसर्जनीयः (खरि विसर्जनीयस्य)` इति पाणिनिः।
तत्र संहितायां सत्याम्, जीह्वामूलीयवज् जिह्वामूल-स्पर्शो न भवति,
किञ्च वाक्यान्त-विसर्गवत् प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
"अन्तस् सरति" इत्यादेर् अपेक्षया "अन्तः सरति" इत्यादौ यथा।
साम्प्रत-साम्प्रदायिकैस् तु यत् संहिताभाववद् उच्चार्यमाणः पूर्वस्वर-सस्थानीयो विसर्गो नात्र विहितः। नाम, "पूर्वो॒ऽर्ष्टु(हु) क्षी॑यतय्" इति न वाच्यम्, अपि तु "पूर्वो॒ऽर्ष्टुः क्षी॑यत" इत्येव।
अत्रान्तिमसूत्रद्वयं न साधु व्याख्यातम् अवगतं वा पूर्वैर् भाति।
गोपाल-सोमयार्याभ्यां सूत्रत्रयम् अनिष्टम् इति यद् उक्तम्,
यच् चासाधु क्वचिद् व्याख्यातम्,
तत् तेषाम् इहावज्ञां हि द्योतयति।
इमे पक्षा अपि साधु ज्ञेयाः।
अन्तिमश् च पक्ष उत्तमः।
ऋज्व् अर्थस् त्व् एवम् -
(न) कपवर्गपरश्चाग्निवेश्यवाल्मीक्योः॥९.४॥
(न) ऊष्मपर एवैकेषामाचार्याणाम्॥९.५॥
न प्लाक्षिप्लाक्षायणयोः (पूर्वसूत्रोक्तोऽप्य् उत्सर्ग-सङ्कोचः)॥९.६॥
व्याख्यान्तरम् -
(न) ऊष्मपर एवैकेषामाचार्याणाम्॥९.५॥
नकारः ५-तमे ऽनुवर्तेत (अन्यथा तपरस्यापि सकारादेशनिषेधापत्तेः)।
नात्र माहिषेयव्याख्या साध्वी।इदं पाणिन्य्-उक्तेन सङ्गच्छते - “वा शरि” (विसर्जनीयस्य विसर्जनीयः) ।
सोमयार्येण साध्व् अवगतम् -
एकेषाम् आचार्याणां मते ऊष्म-पर एव विसर्जनीयः पूर्व-विधिं न भजते । यथा—‘आशुः शिशानः’1 । एव-कारेण किं ? ‘मनस् तत्वाय’2 । ‘यः कामयेत’3 ॥ ५ ॥
गोपालेन नावगतम् -
केषां चिद् आचार्याणां मते ऊष्मस्व् एव परतो विसर्जनीयस् तन्तम् ऊष्माणं याति । तेन ‘पवश् छन्दः’4, ‘शुनं नः फालाः’5, ‘अनपगाः कुरते’6 इत्य् आदौ ऊष्मादेशो न भवति ॥
न च माहिषेयेण -
ऊष्म-पर एव विसर्जनीयः सस्थानम् ऊष्माणम् आपद्यते ।
यथा—“सिंधोः शिशुमारः” (सं. ५—५—११) । “यस्यैवं विदुषः षोडशी” (सं. ६—६—११) ॥
न प्लाक्षिप्लाक्षायणयोः (पूर्वसूत्रोक्तोऽप्य् उत्सर्ग-सङ्कोचः)॥९.६॥
इदं तावत् पूर्वतन-सूत्रस्यैव सावधारण-निषेध-विशेषस्य प्रत्याख्यानम्,
किञ्च तत्रारब्धापवाद-सङ्कोचस्यानुवर्तनम्।
तेन प्लाक्षिप्लाक्षायणयोर् मतय्
ऊष्मपरस्यापि विसर्जनीयस्य तत्-सस्थानिता,
क्षपरस्यापि, कखपफपरस्यापि।
नाम, "अघोषपरस्तस्य सस्थानम् ऊष्माणम्॥९.२॥" इत्य् उत्सर्गो निरपवादं तिष्ठति।
सोमयार्येण यन् न-कारः पूर्वसूत्रस्थैवकारस्यैव निषेशपर इत्य् उक्तम्, तन् न तृप्तिकरम् -
कवर्गपवर्गाभ्याम् ऊष्मपरश् च विसर्जनीयः
प्लाक्षिप्लाक्षायणयोः शाखिनोः पक्षे
न खलु पूर्वविधिं भजते ।
यथा—
यः कामयेत7 । यः पाप्मना8 । ‘आशुः शिशानः’9 ।
एकम्पर इति किं ? ‘मनसस् पताय’10 कवर्गदिसूत्रत्रयम् अनिष्टम् ॥ ६ ॥
गोपालेन पूर्वतनसूत्रस्य विपरीतावगतेर् अनुसारम् इदं व्याख्यातम् इत्य् अतो न तृप्तिकरम् -
प्लाक्षि-प्लाक्षायणयोर् मते ऊष्म-परो विसर्जनीय ऊष्माणं न याति । किन्तु प्रथम-द्वितीय-पर एव । नेदं सूत्र-त्रयम् इष्टम् ॥ ६ ॥
नेति प्रतिषेधः । प्लाक्षि-प्लाक्षायणयोर् आचार्ययोः कवर्ग-परश् च ऊष्म-परो विसर्जनीयः न खलु सस्थानम् ऊष्माणम् आपद्यते ।
यथा—“यः कामयेत” (सं. २—१—२) । “अग्निः पशुर् आसीत्” (सं. ५—७—२६) । “आशुः शिशानो वृषभः” (सं. ४—६—४) । “यः सोमं वमिति” (सं. २—३—२) । “कृकलासः शकुनिः पिप्पका” (सं. ५—५—१०) ॥
-- --
Vishvas /विश्वासः