विचक्रशब्दार्थजिज्ञासा

14 views
Skip to first unread message

V Subrahmanian

unread,
Jan 18, 2017, 8:25:29 AM1/18/17
to शास्त्रम्
नमांसि

महाभारतश्लोकमेकमुदाहरामि -


    कालदण्डं यमो राजा शिबिकां च धनेश्वरः | पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ||३१||


अस्यानुवादः एवं दत्तः -


Yama, O king, took up the death-dealing mace, and Kuvera his spiked club, and Varuna his noose and beautiful missile. And Skanda (Kartikeya) took up his long lance and stood motionless like the mountain of Meru.  

विचक्रशब्दस्य कश्चनायुधविशेषार्थः दृश्यते तथा शिवशब्दस्य स्कन्द इत्यर्थश्च । तत्र जिज्ञास्यते किमेतच्छब्दद्वयमुक्तार्थभाजिनौ न वा इति । विचक्रशब्दस्य तु शब्दकल्पद्रुमे न गणना अस्ति । शिवशब्दस्तु सुब्रह्मण्यसहस्रनामसु मध्ये दृश्यते । कृपया जिज्ञासितशब्दद्वयस्य महाभारतप्रकरणानुकूलार्थः क इति सूचयन्तु ।

भवदीयः
सुब्रह्मण्यशर्मा 




श्रीमल्ललितालालितः

unread,
Jan 19, 2017, 11:26:01 PM1/19/17
to V Subrahmanian, शास्त्रम्, Bhat, Hn
शिवपदस्य सुब्रह्मण्यपरत्वे का युक्तिः । न हि शक्तमर्थं विना कारणं त्यजामो , गौरवात् । न वा सहस्रनामसूक्तत्वमात्रेण शिवपदं कार्त्तिकेये शक्तं भवति , यानि नामानि गौणानि इतिविष्णुसहस्रनामोक्तन्यायेन गौणत्वस्यैवोचितत्वात् ।
तथा च यावदनुवादकेन शिवपदस्यान्यथाकरणं नोपपाद्यते , तावत् तस्यानुवादो दुष्ट एव ।

न च विचक्रपदस्य गुहायुधे शक्तिरेतावता निश्चिता यद्बलात् शिवपदस्यान्यथाकरणमुचितं स्यात् । विचक्रपदं हि यौगिकं चक्ररहितं वा वदेत् आयुधविशेषं वा ; चक्ररहितत्वं तु शिवस्यापि समानं तेनैव विष्णवे चक्रस्य दत्तत्वात् , आयुधविशेषत्वे कः स इति निर्णेयं , कोशात्तु न निर्णयो लब्धः ।
अत्र हरिनारायणभट्टैः किञ्चिद्वक्तुं शक्येत ।

श्रीमल्ललितालालितः
www.lalitaalaalitah.com

--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+unsubscribe@googlegroups.com.
To post to this group, send email to shaa...@googlegroups.com.
Visit this group at https://groups.google.com/group/shaastram.
To view this discussion on the web visit https://groups.google.com/d/msgid/shaastram/c9ff998a-3262-429a-836e-1a263ff6733f%40googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

V Subrahmanian

unread,
Jan 20, 2017, 2:44:56 AM1/20/17
to श्रीमल्ललितालालितः, शास्त्रम्, Bhat, Hn
2017-01-20 9:55 GMT+05:30 श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com>:
शिवपदस्य सुब्रह्मण्यपरत्वे का युक्तिः । न हि शक्तमर्थं विना कारणं त्यजामो , गौरवात् । न वा सहस्रनामसूक्तत्वमात्रेण शिवपदं कार्त्तिकेये शक्तं भवति , यानि नामानि गौणानि इतिविष्णुसहस्रनामोक्तन्यायेन गौणत्वस्यैवोचितत्वात् ।
तथा च यावदनुवादकेन शिवपदस्यान्यथाकरणं नोपपाद्यते , तावत् तस्यानुवादो दुष्ट एव ।

न च विचक्रपदस्य गुहायुधे शक्तिरेतावता निश्चिता यद्बलात् शिवपदस्यान्यथाकरणमुचितं स्यात् । विचक्रपदं हि यौगिकं चक्ररहितं वा वदेत् आयुधविशेषं वा ; चक्ररहितत्वं तु शिवस्यापि समानं तेनैव विष्णवे चक्रस्य दत्तत्वात् , आयुधविशेषत्वे कः स इति निर्णेयं , कोशात्तु न निर्णयो लब्धः ।
अत्र हरिनारायणभट्टैः किञ्चिद्वक्तुं शक्येत ।

सत्यमिदं सर्वमित्यभ्युपगम्यते । उपायान्तरं स्यादिति मत्वेदमुच्यते - नीलकण्ठी व्याख्या यदि द्रष्टुमुपल्भ्यते तदा तेनास्य श्लोकस्यार्थं कथं वर्ण्यत इति  पश्यामः, यदि वर्णितस्तेन । यद्यपि पर्वनाम न भिद्यते तथापि अध्यायश्लोकसंख्ये बहुत्र भिद्येते इत्येव मया अस्मिन् विषयेऽपि दृष्टम् । इतरव्याख्या काचिदस्ति चेत् तदपि मृगयामः ।

Sivasenani Nori

unread,
Jan 20, 2017, 8:28:59 PM1/20/17
to V Subrahmanian, shaa...@googlegroups.com
अयि भोः 

प्रमादवशात् शास्त्रपरिषदि  न प्रकाशितमेतत्। 

विचक्रशब्दस्य प्रयोगः साधुपाठे न दृष्टः, तस्मात् तस्यार्थविचारस्य प्रसङ्गोपि न ।

इति
सेनानीः


On 20 Jan 2017 10:53 p.m., "V Subrahmanian" <v.subra...@gmail.com> wrote:
धन्यवादाः भोः । भवदुत्तरपत्रं मम कृते एव प्रेषितं न तु शास्त्रसमूहकृते इति अवगम्यते । तत् किं प्रमादाद्वा उत अन्यतो वा ?  

अन्ते विचक्रपदस्य तु अर्थावगतिः न जाता । तदपि विचारयामः ।

भवदीयः
सुब्रह्मण्यशर्मा   

2017-01-20 19:00 GMT+05:30 Sivasenani Nori <sivas...@gmail.com>:
भोः

नीलकण्ठीये तु आदिपर्वणि खाण्डवदाहपर्वणि देवकृष्णार्जुनयुद्धे सप्तविंशत्यधिकद्विशततमेऽध्याये अन्यः पाठः गृह्यते। तद्यथा - कालदण्डं यमो राजन् गदाञ्चैव धनेश्वरः । 1.227.३१॥ पाशांश्च तत्र वरुणो विचित्राञ्च तथाऽशनिम्। स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः । ३२ ॥ इति। यच्च भाव आङ्ग्लेऽनूदितं तदनेन पाठेन सङ्गच्छते।

अत्र टीकाकाराः शिबिकाम्, शिंबिकामिति पाठभेदौ पठन्ति किन्तु शिवशब्दः न तत्रभवद्भिः उच्यते। मूलग्रन्थे सन्दर्भेऽस्मिन् शिवशब्दस्यानौचित्यमप्यवधेयम्। खाण्डवदाहे कृष्णार्जुनयोः देवानाञ्च युद्धो बभूव। तत्र देवसेनापतेः स्कन्दस्योपस्थितिरौचित्यं भजते, न महादेवस्य। अपि च शिवकृष्णार्जुनयुद्धः न कुत्रापि स्मर्यते श्रूयते वा।

एतावता उदाहृतपाठः दुष्टः इति गम्यते ।


Inline images 1


बुधजनविधेयः
शिवसेनानीः

2017-01-18 18:43 GMT+05:30 V Subrahmanian <v.subra...@gmail.com>:
Reply all
Reply to author
Forward
0 new messages