यत् पुण्यं नक्षत्रम्

15 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 12, 2021, 1:53:22 PM8/12/21
to शास्त्रम्, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, kalpa-...@googlegroups.com
तैत्तिरीयब्राह्मणे १.५.२ इत्यत्र -

यत्पुण्य॒न्नख्ष॑त्रम् ।
तद्बट्कु॑र्वीतोपव्यु॒षम् ।
य॒दा वै सूर्य॑ उ॒देति॑ ।
अथ॒ नख्ष॑त्र॒न्नैति॑ ।
याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे᳚त् ।
यत्र॑ जघ॒न्य॑म्पश्ये᳚त् ।
ताव॑ति कुर्वीत यत्का॒री स्यात् ।
पु॒ण्या॒ह ए॒व कु॑रुते ।

इति वर्तते। अस्यावगतौ मम बहुभ्यो वर्षेभ्यः क्लेश आसीद्, यो ऽधुना पुनश् चिन्तनेन निवारितः। तद् अधुना प्रस्तौमि।

यत् पुण्य॒न् नक्ष॑त्रम्, तद् बट् कु॑र्वीतोपव्यु॒षम्।
य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न् (अस्तं) नैति॑,, याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अस्तम्) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ।

ए॒वं ह॒ वै य॒ज्ञेषु॑ञ्च श॒तद्यु॑म्नञ्च मा॒त्स्यो नि॑रवसाय॒याञ् (→निःशेषेण श्रैष्ठ्यम्) च॑कार ॥ 

इत्येवम् अवगमनम् साधु। 

कुतः? पुण्य-नक्षत्रस्य सत्-प्रभाव इष्यते।

  - चान्द्रास्तित्वे सति नक्षत्रस्य तादृक् प्रभावो भवतीति प्रयोजनं सूत्रकाले तु दृश्यते।
  - अत्र तु - यावन् नक्षत्रं खे राजते तावत् तत्प्रभावेण कर्म प्रशस्तम् भवतीति ज्ञेयम्। अस्तंगमनकालनिश्चयार्थं ह्य् उदये नक्षत्रस्थानबट्करणादिकम्।

पूर्वव्याख्यात्रसामञ्जस्यम्

तत्रभवन्तौ भास्करसायणौ (सायणभाष्ये ऽत्र, भट्टभास्करभाष्ये ऽत्र) यथावगतवन्तौ, तन्न।


ताभ्याम् एतौ पक्षौ प्रस्तुतौ (भट्टभास्करशब्दैः)- 

१ अथैवं ज्ञात्वा तस्मात् चिह्नितात् प्रदेशात् जघन्यं पश्चाद्भागत्वेन यत्र पश्येत् तत्राकाशप्रदेशे यावति काले सूर्यो गच्छेत् तावति ततः प्रागेव कुर्वीत अविपर्यस्तः स्वं तत् कर्म यत्कारी यत् कर्म करिष्यन् स्यात् ।

२ केचिदाहुः - '**अथ नक्षत्रं नैति**' इत्यन्तं समानम् । **यावति** काले तत्र चिह्निते प्रदेशे सूर्यो गच्छेत्, यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात् । आ-कुत इत्याह - यावति काले तत् पुण्यं नक्षत्रं **जघन्यं** अस्तं गतं पश्येत् अस्तं गच्छता चरमं पश्येत् गणयेत् तावति ततः ततः प्रागेव कुर्यात् न ततः परमिति ॥

द्वयम् अपि न तृप्तिकरम्। 

- प्रथमपक्षे - कुतः तावान् एव कालः प्रशस्तः, यावत् सूर्यः खे नक्षत्रस्थानं कदाचिद्दृष्टं नैति? विदितम् एव सर्वैर् अपि यन् नक्षत्र-सूर्ययोर् अन्तरं न परिवर्तते - सूर्येण सहैव नक्षत्रम् अप्य् अग्रे सरति तद्दिने।
  
- भट्टभास्करद्वितीयपक्षे - कुतः "यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात्" इति? समान आक्षेपः।

- "उदयकाले सूर्यप्रकाशसहितनक्षत्रयात्रया +ऊर्जिते खभागे वर्तमानेन सूर्येण +अनुगृह्यत इति भावः। एवं सूर्यो नक्षत्रे वर्तमान इव भाव्यते।" इति किञ्चिद् वक्रं समाधानं न तृप्तिकरम्।




--
--
Vishvas /विश्वासः

ललितालालितः

unread,
Aug 13, 2021, 5:24:03 PM8/13/21
to शास्त्रम्
प्रतिपदं व्याख्यानं क्रियतां , अद्ध्याहारः उपपाद्यताम् अप्रसिद्धलक्षणास्त्यज्यताम् । ततोत्र परीक्षा कर्त्तुं शक्यते ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 13, 2021, 11:10:18 PM8/13/21
to ललितालालितः, शास्त्रम्
अस्तशब्दस्यैवाध्याहारः समर्थनीयः। शिष्टं तावद् भट्टभास्करस्य द्वितीयपक्षम् अनुसरति।

य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न्  नैति॑
 
इति वर्तते। तत्र सायणभट्टभास्करौ द्वितीयवाक्यखण्डे सूर्यम् अध्याहरन्ति, नक्षत्रम् इति द्वितीयान्तं गृह्णन्ति, ततो लक्षणया नक्षत्रम् = चिह्नितनक्षत्रस्थानम् इति वदन्ति। नाम - "अथ (सूर्यो) नक्षत्रं (=नक्षत्रस्थानं) नैति " इति तेषां कल्पितवाक्यम्। अनेन पूर्वोक्तदोषो भवति - arbitrariness इति। 

अहन्तावन् नक्षत्रम् इति प्रथमान्तं गृह्णामि। "कुत्र नैती"त्य् आकाङ्क्षायाम् - अस्तम् इत्य् अध्याहारः स्वाभाविकः (पूर्वस्मिन् वाक्यखण्डे खलु +उदयवार्तया खे ज्योतिषो ऽस्तित्वम् उच्यमानम् इति सङ्गतेर् अत्रापि सैव विवक्षा ऽनुवर्तत इति ब्रुवे)। न हि लक्षणावृत्तेः प्रसक्तिः - दूरे ऽप्रसिद्धलक्षणेति। 


--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/shaastram/7cf25b69-dd7c-4872-b1b1-520e0ad8de0fn%40googlegroups.com.

ललितालालितः

unread,
Aug 14, 2021, 5:10:13 PM8/14/21
to शास्त्रम्
इदं न प्रतिपदव्याख्यानं भवति ।
तस्येव मम इत्युक्त्या भवता अलं विचारो न कृत इत्येव ज्ञायते ।
तत्र प्रतिपदं योजनस्यायासः क्रियतां  तदैव पदप्रयोजनविचारादिप्रसङ्गात् बोधः स्पष्टो भवति ।
अथापि आपाततो दूषितस्थले दूषणं न सङ्गच्छते इति वदामः ।
तथाहि

अस्तशब्दस्यैवाध्याहारः समर्थनीयः। शिष्टं तावद् भट्टभास्करस्य द्वितीयपक्षम् अनुसरति।

य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न्  नैति॑
 
इति वर्तते। तत्र सायणभट्टभास्करौ द्वितीयवाक्यखण्डे सूर्यम् अध्याहरन्ति, नक्षत्रम् इति द्वितीयान्तं गृह्णन्ति, ततो लक्षणया नक्षत्रम् = चिह्नितनक्षत्रस्थानम् इति वदन्ति। नाम - "अथ (सूर्यो) नक्षत्रं (=नक्षत्रस्थानं) नैति " इति तेषां कल्पितवाक्यम्।

तथा नास्ति , अनवगममूलमिदमापादनम् ।
सायणैस्तावत् यदा सूर्य्य उदेति तदा न नक्षत्रं पश्यति इत्येव व्याख्यातम् । अत्र कर्त्तुराख्यातेन सामान्यरूपेणोपस्थित्या न शाब्दबोधप्रतिबन्धः , विशेषे पर्य्यवसानञ्च अनुष्ठातुः प्रकृतत्वात् एव कर्त्तृत्वेन तत्रान्वयात् भवति इति वाक्यस्य सम्पूर्णतायां किं लक्षणादिना ।
भट्टस्तु न मया परामृष्टः कालाभावात् ।

अनेन पूर्वोक्तदोषो भवति - arbitrariness इति। 

इदं स्पष्टीक्रियताम् ।
सायणादिव्याख्याने कथं स्वकीयवाक्यविरोधो वा युक्तिविरोधो वा कथं वा कल्पनागौरवं कोशप्रसिद्धार्त्थत्यागो वा इत्यादिकं विमृश्य arbitrariness इत्यनेन तेषां मद्ध्ये को दोषो विवक्षित इति स्पष्टीक्रियताम् ।

अहन्तावन् नक्षत्रम् इति प्रथमान्तं गृह्णामि। "कुत्र नैती"त्य् आकाङ्क्षायाम् - अस्तम् इत्य् अध्याहारः स्वाभाविकः (पूर्वस्मिन् वाक्यखण्डे खलु +उदयवार्तया खे ज्योतिषो ऽस्तित्वम् उच्यमानम् इति सङ्गतेर् अत्रापि सैव विवक्षा ऽनुवर्तत इति ब्रुवे)। न हि लक्षणावृत्तेः प्रसक्तिः - दूरे ऽप्रसिद्धलक्षणेति। 

अद्ध्याहाराभावात् प्रकृतकर्त्तुरेवानुषङ्गेण लाभात् सायणपक्षे लाघवात् तदेव ग्राह्यम् ।
किञ्च
सूर्य्यस्योदयवार्त्ता वर्त्तते तस्य उदयाचलास्ताचलगामित्वाभ्याम् उदयास्तमयव्यवहारेपि नक्षत्राणाम् अपि तथैवोदयस्तामयव्यवहारौ इत्यत्र प्रमाणमुपस्थाप्यताम् ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 15, 2021, 1:12:46 AM8/15/21
to ललितालालितः, शास्त्रम्
On Sun, Aug 15, 2021 at 2:40 AM ललितालालितः <lalitaa...@lalitaalaalitah.com> wrote:
अस्तशब्दस्यैवाध्याहारः समर्थनीयः। शिष्टं तावद् भट्टभास्करस्य द्वितीयपक्षम् अनुसरति।

य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न्  नैति॑
 
इति वर्तते। तत्र सायणभट्टभास्करौ द्वितीयवाक्यखण्डे सूर्यम् अध्याहरन्ति, नक्षत्रम् इति द्वितीयान्तं गृह्णन्ति, ततो लक्षणया नक्षत्रम् = चिह्नितनक्षत्रस्थानम् इति वदन्ति। नाम - "अथ (सूर्यो) नक्षत्रं (=नक्षत्रस्थानं) नैति " इति तेषां कल्पितवाक्यम्।

तथा नास्ति , अनवगममूलमिदमापादनम् ।
सायणैस्तावत् यदा सूर्य्य उदेति तदा न नक्षत्रं पश्यति इत्येव व्याख्यातम् । अत्र कर्त्तुराख्यातेन सामान्यरूपेणोपस्थित्या न शाब्दबोधप्रतिबन्धः , विशेषे पर्य्यवसानञ्च अनुष्ठातुः प्रकृतत्वात् एव कर्त्तृत्वेन तत्रान्वयात् भवति इति वाक्यस्य सम्पूर्णतायां किं लक्षणादिना ।
भट्टस्तु न मया परामृष्टः कालाभावात् ।

आह् - अङ्गीकृतम्। सायणस् तथैव वदत्य् अत्र यथा भवान् आह। भट्टभास्करोऽपि। 
हेतुः स्मृतिच्युतिः - फलितार्थपूर्णबुद्ध्या न पुनरवालोकयम्। क्षम्यै। अग्रे दक्षतरो वर्ते। 

किञ्चैतावद् वाच्यम् भवदुक्तौ प्रसङ्गात् -

"नक्षत्रं नैति" = "नक्षत्रं न प्राप्नोति" इत्यस्य "नक्षत्रं द्रष्टुं न शक्नोति" इत्यत्र लक्षणाव्यापारो ऽस्त्य् एव। अथवा "[चक्षुरिन्द्रियेण] नक्षत्रं नैति" इत्यध्याहारः कार्यः।
"य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न्  नैति॑।" इत्येव वाक्यम्। तत्र सायणपक्षे प्राकृतस्य कर्तुर् अनुष्ठातुर् अध्याहारो ऽस्त्य् एव।


अस्तु - यथा ताभ्याम् उक्तम् - तदेव गृह्यताम्।


याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अन्तिमं → अस्तं गतं) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।

इत्यग्रिमं वाक्यं पश्येव।

=========

लाघवार्थं तत्र भट्टभास्करो स्वव्याखाने यं द्वितीयपक्षं प्रस्तौति तम् पश्येम  - " केचिदाहुः - '**अथ नक्षत्रं नैति**' इत्यन्तं समानम् । **यावति** काले तत्र चिह्निते प्रदेशे सूर्यो गच्छेत्, यावता कालेन तं ख-देशं प्रविशेत् ततः प्रभृति कर्म कुर्यात् । आ-कुत इत्याह - यावति काले तत् पुण्यं नक्षत्रं **जघन्यं** अस्तं गतं पश्येत् अस्तं गच्छता चरमं पश्येत् गणयेत् तावति ततः ततः प्रागेव कुर्यात् न ततः परमिति ॥"

यथैवात्र व्याख्याता पुण्यं नक्षत्रं इत्य् अध्याहरति, यथा च जघ॒न्यं॑(=अस्तं गतं) इति गृह्णाति तथैव मयापि कृतम्। किन्त्व् अग्रे भेदः।
"यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अस्तं गतं) पश्ये॑त्, तत्र याव॑ति॒ काले सूर्यो॒ गच्छे॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।" इत्य् अन्वयः। तेन मदुक्तः सरलो ऽर्थः।

उल्लिखित-व्याख्याने तु - "याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् (तदारभ्य), यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अस्तं गतं) पश्ये॑त् (तदा यावद् यः कालः) - ताव॑ति कुर्वीत यत्का॒री स्यात् ।" इत्य् अधिकम् अध्याहरति। सिद्धं तेन तदपेक्षया मद्व्याख्याने लाघवम्।

=========

अपरं व्याख्यानं भट्टभास्करेण दत्तम् पश्येव - "चिह्नितात् प्रदेशात् जघन्यं पश्चाद्भागत्वेन यत्र पश्येत् तत्राकाशप्रदेशे यावति काले सूर्यो गच्छेत् तावति ततः प्रागेव कुर्वीत अविपर्यस्तः स्वं तत् कर्म यत्कारी यत् कर्म करिष्यन् स्यात् ।" सायणोऽपि - "तच् च नक्षत्रं यावत् प्राच्याम् उदयं प्राप्य पश्चिमाभिमुखं गच्छति । तथा सति, यस्मिन् देशे नक्षत्र-स्थानं स्वेन निश्चितं, तत्-स्थानात् प्राचीनः समीप-देशस् तन् नक्षत्रापेक्षया **जघन्यः**। तस्मिञ् जघन्यदेशे **यावति** काले **सूर्यो गच्छेत् तावति** काले स्वेन कर्तव्यं कर्म कुर्यात् । यत् कर्म करोतीति **यत्कारी**। तादृशश् चिकीर्षुः पुरुषस् तस्मिन् काले प्रारभेत ।" द्वयोर् अन्तरं नास्ति।

अत्र "याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त्, यत्र॑ (चिह्नितम् प्रदेशं) जघ॒न्यं॑(=अन्तिमं [साक्षादग्रेवर्तिनं]) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।" इति फलितं वाक्यम्।
मदिष्टं फलितवाक्यं तावत् - "याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अन्तिमं ) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् ।"

उभयोयोर् गौरवे लाघवे वा ऽन्तरं तावन्नास्ति - यद्यपि "[साक्षादग्रेवर्तिनं]" इत्यधिकं कल्प्यते प्राचीनाभ्याम्। जघन्यशब्दस्य वाच्यार्थे ऽपि नास्ति भेदः। अतो व्याख्यागरीयस्त्वनिर्णये ऽन्यत् किञ्चिद् द्रष्टव्यं स्यात्।


सायणादिव्याख्याने कथं स्वकीयवाक्यविरोधो वा युक्तिविरोधो वा कथं वा कल्पनागौरवं कोशप्रसिद्धार्त्थत्यागो वा इत्यादिकं विमृश्य arbitrariness इत्यनेन तेषां मद्ध्ये को दोषो विवक्षित इति स्पष्टीक्रियताम् ।

"कुतः तावान् एव कालः प्रशस्तः, यावत् सूर्यः खय् उदयकालीनं नक्षत्रस्थानं नैति? को विशेषस् तस्मिन् स्थाने? कुतो वा नक्षत्रस्य खे ऽस्तित्वं यावन् न भवति पुण्याहकारित्वम्?" इति प्रश्नान् जनयति प्राचीनव्याख्यानम्। तस्य न किञ्चित् स्वाभाविकं स्फुटं समाधानम्।

मद्व्याख्याने नैषा विचिकित्सा। "कुतस् तर्ह्य् उदयकालनक्षत्रस्थानं चिह्नितम् पूर्वम्?" इति सहजस्य प्रश्नस्य तु "नक्षत्रनिमज्जनकालम् अनुमातुम्" इति व्यक्तं युक्तम् उत्तरम्।

तेन मद्व्याख्याने विचारलाघवम्, प्राचीने गौरवम्।
 
किञ्च सूर्य्यस्योदयवार्त्ता वर्त्तते तस्य उदयाचलास्ताचलगामित्वाभ्याम् उदयास्तमयव्यवहारेपि नक्षत्राणाम् अपि तथैवोदयस्तामयव्यवहारौ इत्यत्र प्रमाणमुपस्थाप्यताम् ।

उदयाचालास्ताचलवार्ता न प्रासङ्गिकी। ननु प्रत्यक्षसिद्धं सूर्यवच् चन्द्रग्रहनक्षत्रादीनाम् प्राच्य् उद्गमनम् पश्चान् निमज्जनम् इति। शास्त्रेष्व् अपि प्रसिद्धम्। 
तदेव विवक्षितम्। 



 
इदं न प्रतिपदव्याख्यानं भवति ।
तस्येव मम इत्युक्त्या भवता अलं विचारो न कृत इत्येव ज्ञायते ।
तत्र प्रतिपदं योजनस्यायासः क्रियतां  तदैव पदप्रयोजनविचारादिप्रसङ्गात् बोधः स्पष्टो भवति ।

अधुना सुयोजितानि सर्वाणि परामृष्टपदानीति मन्ये। प्रस्तुतिरीतिविशेषान्तरं किम् इष्टम् इति तूदाहरणेनैव ज्ञेयं स्यात्।

 
अथापि आपाततो दूषितस्थले दूषणं न सङ्गच्छते इति वदामः ।
तथाहि


--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+...@googlegroups.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 12, 2021, 5:00:11 AM9/12/21
to ललितालालितः, kalpa-...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, शास्त्रम्
(सन्देशधारान्तरे योजिते।) 

श्रीमल्ललितालालितपरीक्षणेन केनचित् स्वप्रस्तावे स्पष्टता ऽवर्धत।
Reply all
Reply to author
Forward
0 new messages