यत् पुण्य॒न् नक्ष॑त्रम्, तद् बट् कु॑र्वीतोपव्यु॒षम्।
य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न् (अस्तं) नैति॑,, याव॑ति॒ तत्र॒ सूर्यो॒ गच्छे॑त् यत्र॑ (पुण्य-नक्षत्रं) जघ॒न्यं॑(=अस्तम्) पश्ये॑त् - ताव॑ति कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ।
--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/shaastram/7cf25b69-dd7c-4872-b1b1-520e0ad8de0fn%40googlegroups.com.
अस्तशब्दस्यैवाध्याहारः समर्थनीयः। शिष्टं तावद् भट्टभास्करस्य द्वितीयपक्षम् अनुसरति।य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न् नैति॑इति वर्तते। तत्र सायणभट्टभास्करौ द्वितीयवाक्यखण्डे सूर्यम् अध्याहरन्ति, नक्षत्रम् इति द्वितीयान्तं गृह्णन्ति, ततो लक्षणया नक्षत्रम् = चिह्नितनक्षत्रस्थानम् इति वदन्ति। नाम - "अथ (सूर्यो) नक्षत्रं (=नक्षत्रस्थानं) नैति " इति तेषां कल्पितवाक्यम्।
अनेन पूर्वोक्तदोषो भवति - arbitrariness इति।
अहन्तावन् नक्षत्रम् इति प्रथमान्तं गृह्णामि। "कुत्र नैती"त्य् आकाङ्क्षायाम् - अस्तम् इत्य् अध्याहारः स्वाभाविकः (पूर्वस्मिन् वाक्यखण्डे खलु +उदयवार्तया खे ज्योतिषो ऽस्तित्वम् उच्यमानम् इति सङ्गतेर् अत्रापि सैव विवक्षा ऽनुवर्तत इति ब्रुवे)। न हि लक्षणावृत्तेः प्रसक्तिः - दूरे ऽप्रसिद्धलक्षणेति।
अस्तशब्दस्यैवाध्याहारः समर्थनीयः। शिष्टं तावद् भट्टभास्करस्य द्वितीयपक्षम् अनुसरति।य॒दा वै सूर्य॑ उ॒देति॑, अथ॒ नक्ष॑त्र॒न् नैति॑इति वर्तते। तत्र सायणभट्टभास्करौ द्वितीयवाक्यखण्डे सूर्यम् अध्याहरन्ति, नक्षत्रम् इति द्वितीयान्तं गृह्णन्ति, ततो लक्षणया नक्षत्रम् = चिह्नितनक्षत्रस्थानम् इति वदन्ति। नाम - "अथ (सूर्यो) नक्षत्रं (=नक्षत्रस्थानं) नैति " इति तेषां कल्पितवाक्यम्।तथा नास्ति , अनवगममूलमिदमापादनम् ।सायणैस्तावत् यदा सूर्य्य उदेति तदा न नक्षत्रं पश्यति इत्येव व्याख्यातम् । अत्र कर्त्तुराख्यातेन सामान्यरूपेणोपस्थित्या न शाब्दबोधप्रतिबन्धः , विशेषे पर्य्यवसानञ्च अनुष्ठातुः प्रकृतत्वात् एव कर्त्तृत्वेन तत्रान्वयात् भवति इति वाक्यस्य सम्पूर्णतायां किं लक्षणादिना ।भट्टस्तु न मया परामृष्टः कालाभावात् ।
सायणादिव्याख्याने कथं स्वकीयवाक्यविरोधो वा युक्तिविरोधो वा कथं वा कल्पनागौरवं कोशप्रसिद्धार्त्थत्यागो वा इत्यादिकं विमृश्य arbitrariness इत्यनेन तेषां मद्ध्ये को दोषो विवक्षित इति स्पष्टीक्रियताम् ।
किञ्च सूर्य्यस्योदयवार्त्ता वर्त्तते तस्य उदयाचलास्ताचलगामित्वाभ्याम् उदयास्तमयव्यवहारेपि नक्षत्राणाम् अपि तथैवोदयस्तामयव्यवहारौ इत्यत्र प्रमाणमुपस्थाप्यताम् ।
इदं न प्रतिपदव्याख्यानं भवति ।तस्येव मम इत्युक्त्या भवता अलं विचारो न कृत इत्येव ज्ञायते ।तत्र प्रतिपदं योजनस्यायासः क्रियतां तदैव पदप्रयोजनविचारादिप्रसङ्गात् बोधः स्पष्टो भवति ।
अथापि आपाततो दूषितस्थले दूषणं न सङ्गच्छते इति वदामः ।तथाहि
--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/shaastram/460f415d-d57b-452c-8974-a65cdf10f5fan%40googlegroups.com.