उत्सर्ग-कर्मणि - ततो यावद् एक-वैद्यन्तैः कल्पयन्ति

3 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 21, 2021, 12:00:46 AM11/21/21
to kalpa-...@googlegroups.com, Ramanuja-char रामानुजः पराङ्कुशाचार्य-सूनुः P, Hindu-vidyA हिन्दुविद्या, शास्त्रम्
ततो यावद्  एक-वैद्यन्तैः कल्पयन्ति 

इति सूत्रम्। 


अत्र हरदत्तः

**ततः** अनन्तरं, यावन्तः **एकवेद्यन्ताः** समानवेद्यन्ताः  
कैः? सप्तर्षिभिः,
तेभ्यः **कल्पयन्ति**

के पुनस्ते? कृष्णद्वैपायनादय ऋषयः ।
एतदुक्तं भवति कृष्ण-द्वैपायनाय जातूकर्ण्याय तरुक्षाय तृणबिन्दवे सोम-शुष्मिणे सोम-शुष्काय वर्मिणे सनद्-वाजाय बृहद्-उक्थाय वामदेवाय वाच+++(?)+++रत्नाय हरित-यज्वनः उद-मयाय गौतमाय ऋणञ्-जयाय कृतञ्-जयाय बभ्रवे त्र्य्-अरुणाय त्रिधातवे त्रिवर्षाय शिबिन्ताय पराशराय वसिष्ठायेन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे सवित्रे भृत-श्रवसे सावित्र्यै वेदेभ्यश् चेति पृथक् ।

एते कृष्णद्वैपायनादयश् चतुस्त्रिंशद् ऋषयः ।
वेदाश् चत्वार इत्य् अष्टात्रिंशद् एकवेद्यन्ताः सप्तर्षिभिः ।

केचिद् अथर्वाङ्गिरस इतिहास-पुराणानि सर्प-देवजनान् सर्व-भूतानीत्य् एतेषामपि वेदग्रहणेन ग्रहणमिच्छन्ति; कल्पान्तरे तथा दर्शनात् ॥१२॥
====================

ऊर्ध्वम् एकवैद्यन्तैः इत्य् अनेन किं विवक्षितम् इति जिज्ञासे ।  (कौण्डिन्यायनकालमानानुसारेण ह्य उत्सर्गकाल आसीत्।)


तथा हि  वाचरत्नशब्दे दोषो वा? वाजरत्नायेति स्यात् खलु?

--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages