वार्त्तिककारीयजीवलक्षणस्य मूलम् अद्ध्यात्मरामायणम्

3 views
Skip to first unread message

श्रीमल्ललितालालितः

unread,
Aug 25, 2020, 5:49:48 AM8/25/20
to
अज्ञानोपहित आत्मा अज्ञानतादात्म्यापन्नः स्वचिदाभासाविदेकाद् अन्तर्यामी साक्षी ईश्वरः जगत्कारणम् इति च कत्थ्यते ;
बुद्ध्युपहितश्च तत्तादात्म्यापन्नः स्वचिदाभासाविवेकाद् जीवः कर्त्ता भोक्ता प्रमाता इति च कत्थ्यते
इति वार्त्तिककारपादाः ।
इति मधुसूदनसरस्वत्यो वदन्ति ।

तन्मतस्य मूलं तु अद्ध्यात्मरामायणमेव । तथाहि तत्र बालकाण्डे प्रथमसर्ग्गे ---
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् ।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. ४४..
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि .
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः .. ४५..
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् .
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. ४६..
साभासबुद्धेः कर्तृत्वमवच्छिन्नेऽविकारिणि .
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः .. ४७..
आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते .
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. ४८..
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते .
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. ४९..
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः .
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०..
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते .
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्य
ताम् .
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
श्रीमल्ललितालालितः
www.lalitaalaalitah.com
Reply all
Reply to author
Forward
0 new messages