उभयमपि विवक्षाभेदात्सम्भवति ; न हि ब्रह्मसूत्रैर्वेदवाक्यानि न विचार्य्यन्ते न वा तैर्ब्रह्म न सूच्यते इति । तथा च पदस्यैकस्योभयथाव्याख्यानमप्यविरुद्धत्वादनुकूलत्वादिष्टमेव ।
इदमवधेयं यत् ब्रह्मसूचकार्थकत्वे उपनिषदामपि ब्रह्मसूत्रत्वं , तद्द्वारकञ्च ब्रह्मसूत्रत्वं तद्विषयन्यायात्मकानां बादरायणसूत्राणाम् । उपनिषदामेकवाक्यतासम्पादकत्वेन ब्रह्मसूत्रपदप्रयोगे तु बादरायणसूत्राणामेव ब्रह्मसूत्रत्वम् इति ।
उभयथापि बादरायणसूत्रेषु ब्रह्मसूत्रपदप्रयोगो घटत इति मतान्तरानुयायिनां गीताश्लोकेन्यथाव्याख्यानमपि न दुष्टम् इति प्रतीयते । अत एव ब्रह्मानन्दगिरिव्याख्यानेद्वैतानुकूलेपि ब्रह्मसूत्रपदस्य शारीरकसूत्रपरत्वेन व्याख्यानं दृश्यते , यद्यप्यन्यैरद्वैताचार्य्यैस्तादृशव्याख्यानं नादृतम् ।
अत्रेदं प्रतीयते यत् - कर्म्मकाण्डब्रह्मकाण्डयोः पृथग्ग्रहणायाद्वैताचार्य्यैः छन्दोब्रह्मसूत्रपदपदयोर्ग्रहणम् इतिस्वीकृतं , वेङ्टनाथादिभिस्तु छन्दःपदेनैव वेदान्तसहितस्य वेदस्य ग्रहणेधिकलाभाय वेदान्तसूत्राणि गृहीतानि इति ।
उभयमप्यदुष्टं , क्षेत्रक्षेत्रज्ञविभागस्य बहुभिरुक्तत्वप्रतिपादनेनोत्कर्षप्रदर्शकत्वात् ।
कस्मात्प्राचीनाचार्य्यैस्सर्व्वैस्तथा न व्याख्यातम् इत्यत्र तु वेदान्तानां साक्षाद् ब्रह्मबोधकत्वेन उक्तेभ्य ॠष्यादिभ्यः सर्व्वेभ्योप्युत्कर्षात्पृथग्ग्रहणमपेक्षितम् इतिमतिरेव हेतुः ; अत एव ब्रह्मणः सूचकत्वेन तेषां ब्रह्मसूत्रत्वमुक्त्वा ब्रह्मप्राप्तिहेतुत्वद्योतनाय पदपदस्य पद्यतेनेन इतिव्याख्यानमादृतम् । इति ।