ब्रह्मसूत्रम् इति शब्दे ब्रह्मपदार्थजिज्ञासा

17 views
Skip to first unread message

V Subrahmanian

unread,
Jan 7, 2017, 4:53:24 AM1/7/17
to शास्त्रम्
नमांसि

ब्रह्मसूत्रम् इति पदं बादरायणसूत्र,वेदान्तसूत्रम् इत्यपि प्रसिद्धम् । तत्र जिज्ञास्यते ब्रह्मशब्दस्य कोऽर्थ इति । यतो हि शांकरजन्मादिसूत्रभाष्ये वाक्यमेवं दृश्यते - वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणाम्, वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते ।  इति । तेन ज्ञायते ब्रह्मशब्दस्य वेदार्थकत्वं यत् प्रसिद्धं तद्गृहीतं अस्मिन्वाक्ये इति । परन्तु ब्रह्मविषयकजिज्ञासा प्राधान्येन तत्र भवतीति ब्रह्मशब्दस्य परब्रह्मार्थकत्वमपि भाति । श्रीमद्भगवद्गीतासु त्रयोदशाध्याये ’ब्रह्मसूत्रपदैश्चैव..’ इति शब्दस्य व्याख्यानं शांकरभाष्ये ’किञ्च, ब्रह्मसूत्रपदैश्च एव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायते इति तानि पदानि उच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयाथात्म्यम् ‘गीतम्’ इति अनुवर्तते । ‘आत्मेत्येवोपासीत’ (बृ. उ. १-४-७) इत्येवमादिभिः ब्रह्मसूत्रपदैः आत्मा ज्ञायते, हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः निश्चितप्रत्ययोत्पादकैः इत्यर्थः ॥ इति वर्तते । अनेन गम्यते ब्रह्मपदमत्र परब्रह्मविषयकमिति । केचन व्याख्यातारः अद्वैतेतरे अस्मिञ्श्लोके साक्षाद्ब्रह्मसूत्र(बादरायण)मेव विवक्षितमिति व्याकुर्वन्ति ।

किमस्मिन् विषये निर्णायकवाक्यं कुत्रापि वर्तते वा? शास्त्रान्तरघटितसूत्रव्याख्यानानि अत्र प्रयोजकानि भवन्ति वा?  संशयास्पदविषय: पुनरेकवारमुच्यते - बादरायणसूत्रापरपर्यायब्रह्मसूत्रशब्दे ब्रह्मशब्दस्य अर्थः क इति । 

सुब्रह्मण्यशर्मा    

ललितालालितः

unread,
Jan 30, 2017, 11:54:20 AM1/30/17
to शास्त्रम्

संशयास्पदविषय: पुनरेकवारमुच्यते - बादरायणसूत्रापरपर्यायब्रह्मसूत्रशब्दे ब्रह्मशब्दस्य अर्थः क इति । 

उभयमपि विवक्षाभेदात्सम्भवति ; न हि ब्रह्मसूत्रैर्वेदवाक्यानि न विचार्य्यन्ते न वा तैर्ब्रह्म न सूच्यते इति । तथा च पदस्यैकस्योभयथाव्याख्यानमप्यविरुद्धत्वादनुकूलत्वादिष्टमेव । 
इदमवधेयं यत् ब्रह्मसूचकार्थकत्वे उपनिषदामपि ब्रह्मसूत्रत्वं , तद्द्वारकञ्च ब्रह्मसूत्रत्वं तद्विषयन्यायात्मकानां बादरायणसूत्राणाम् । उपनिषदामेकवाक्यतासम्पादकत्वेन ब्रह्मसूत्रपदप्रयोगे तु बादरायणसूत्राणामेव ब्रह्मसूत्रत्वम् इति ।
उभयथापि बादरायणसूत्रेषु ब्रह्मसूत्रपदप्रयोगो घटत इति मतान्तरानुयायिनां गीताश्लोकेन्यथाव्याख्यानमपि न दुष्टम् इति प्रतीयते । अत एव ब्रह्मानन्दगिरिव्याख्यानेद्वैतानुकूलेपि ब्रह्मसूत्रपदस्य शारीरकसूत्रपरत्वेन व्याख्यानं दृश्यते , यद्यप्यन्यैरद्वैताचार्य्यैस्तादृशव्याख्यानं नादृतम् ।
अत्रेदं प्रतीयते यत् - कर्म्मकाण्डब्रह्मकाण्डयोः पृथग्ग्रहणायाद्वैताचार्य्यैः छन्दोब्रह्मसूत्रपदपदयोर्ग्रहणम् इतिस्वीकृतं , वेङ्टनाथादिभिस्तु छन्दःपदेनैव वेदान्तसहितस्य वेदस्य ग्रहणेधिकलाभाय वेदान्तसूत्राणि गृहीतानि इति ।
उभयमप्यदुष्टं , क्षेत्रक्षेत्रज्ञविभागस्य बहुभिरुक्तत्वप्रतिपादनेनोत्कर्षप्रदर्शकत्वात् ।
कस्मात्प्राचीनाचार्य्यैस्सर्व्वैस्तथा न व्याख्यातम् इत्यत्र तु वेदान्तानां साक्षाद् ब्रह्मबोधकत्वेन उक्तेभ्य ॠष्यादिभ्यः सर्व्वेभ्योप्युत्कर्षात्पृथग्ग्रहणमपेक्षितम् इतिमतिरेव हेतुः ; अत एव ब्रह्मणः सूचकत्वेन तेषां ब्रह्मसूत्रत्वमुक्त्वा ब्रह्मप्राप्तिहेतुत्वद्योतनाय पदपदस्य पद्यतेनेन इतिव्याख्यानमादृतम् । इति । 

V Subrahmanian

unread,
Jan 30, 2017, 12:32:43 PM1/30/17
to ललितालालितः, शास्त्रम्
सम्यक्प्रदर्शितं यदुभयथापि ब्रह्मशब्दार्थ उपपद्यत इति । धन्यवादाः ।

सुब्रह्मण्यशर्मा 

--
You received this message because you are subscribed to the Google Groups "शास्त्रम्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to shaastram+unsubscribe@googlegroups.com.
To post to this group, send email to shaa...@googlegroups.com.
Visit this group at https://groups.google.com/group/shaastram.
To view this discussion on the web visit https://groups.google.com/d/msgid/shaastram/727a5c35-3173-4977-9a75-314881a9eb3e%40googlegroups.com.

For more options, visit https://groups.google.com/d/optout.

Reply all
Reply to author
Forward
0 new messages